तृतीयं मण्डलम् - सूक्तम् 31

22 ऋचः

ऋषिः: गाथिनो विश्वामित्रो वा कुशिक ऐषीरथिः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.31 - सम्पूर्णम्

1 / 22
ऋक्: 3.31.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (22)
3.31.1 समानपद
शास॒द्वह्नि᳚र्दुहि॒तुर्न॒प्त्यं᳚ गाद्वि॒द्वा{4} ऋ॒तस्य॒ दीधि᳚तिं सप॒र्यन् ।
पि॒ता यत्र᳚ दुहि॒तुः सेक᳚मृ॒ञ्जन्त्सं श॒ग्म्ये᳚न॒ मन᳚सा दध॒न्वे ॥
▶ पदपाठः (Word-by-word)
शास᳚त् । वह्निः᳚ । दु॒हि॒तुः । न॒प्त्य᳚म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य᳚ । दीधि᳚तिम् । स॒प॒र्यन् ।
पि॒ता । यत्र᳚ । दु॒हि॒तुः । सेक᳚म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये᳚न । मन᳚सा । द॒ध॒न्वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

कुशिकः प्रसङ्गात् कञ्चित् शास्त्रार्थं ब्रूते । अपुत्रस्य पितुः पुत्री दायादा पुत्रिका सती । यतः सन्तानकृत्तस्याः पुत्र इत्यनयोच्यत इति । अपुत्रो यः पिता कन्यामन्यकुलं प्रापयति स वह्निरित्युच्यते । स पिता शासत् । अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः समे पुत्रो भवेदिति । वासि. १२-१२ । स्मृत्युक्तमनुशासनं कुर्वन् दुहितुः पुत्रिकाया नप्त्यं नप्तारं पौत्रं गात् । गच्छति । दुहितुः पुत्रत्वेन स्वीकाराद्दौहित्रं नप्तैभवं पिण्डदानादिकं कर्तव्यतया गात् । गच्छति । किं कुर्वन् । विद्वान् अस्यां दुहितरि जातः पुत्रो मम स्वधाकरो भविष्यतीति ज्ञानन् ऋतस्य सत्यस्य पुत्रोत्पादनसमर्थस्य रेतसो दीधितिं धर्तारं जामातरं तत्पतिं सपर्यन् वस्त्रालङ्गारादिना पूजयन् पिता नप्तृभवं गच्छति । यत्र यस्मिन्विषये पितापुत्रो जनको दुहितुरप्रत्तायाः स्वकन्यायाः सेकं रेतसः सेकं तस्यां रेतःसेकमृञ्जन् प्रसाधयन् शग्म्येन सुखनिमित्तेन मनसा संदधन्वे । आत्मानं सन्धत्ते । अपुत्रत्वनिमित्तदुःखापगमात् । यस्या दुहितुः पिता पालकः पतिर्जामाता सेकं तस्यां रेतः सेकमृञ्जन् प्रसाधयन् सं शग्म्येन केवल्स्ं सुखनिमित्तेन मनसा तया स्वशरीरं सन्दधन्वे । सन्धत्ते । नतु पुत्रनिमित्तेन मनसा । एतमर्थं यास्कोऽप्याह । प्रशास्ति वोढा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता दूरे हिता दोग्धेर्वा । नप्तारमुपागमद्दौहित्रं पौत्रमिति विद्वान्प्रजननयज्ञस्य रेतसो वाङ्गादङ्गात्संभूतस्य हृदयादधै जातस्य मातरि प्रत्यृतस्य विधनं पूजयन्नित्यादिना । नि.३-४ । शासत् । शासेः शतर्यभ्यस्तत्वान्नुमभावः । दुहितुः । दुह प्रपूरणे । नप्तैनेष्टृ इत्यादिना तृचि विपातनादिडागमः । चित्स्वरः । नप्त्यम् । नप्तरि भवम् । भवे छन्दसीति यत् । रीङादेशः । यस्येति लोपः । रेफलोपश्छान्दसह् । तित्स्वरितः । तात् । इण् गतावित्यस्य छान्दसे लुङि रूपम् । ऋञ्जन् । ऋञ्जतिः प्रसाधनकर्मा । शग्म्येन । शं सुखं गच्छन्तीति गमेरौणादिकः कप्रत्ययः । कित्त्वाद्गमहनेत्यादिनोपधालोपः । शग्मे साधुरिति तत्र साधुरिति यत्प्रत्ययः । वीरवीर्यौ चेत्यत्र यतोऽनाव इत्यस्यानित्यत्वस्य ज्ञापितत्वादत्र तित्स्वरः । दधन्वे । धवि सौत्रो धातुः । लिटि रूपम् । प्रत्ययस्वरः । यद्योगादनिघातः ॥ १ ॥

3.31.2 समानपद
न जा॒मये॒ तान्वो᳚ रि॒क्थमा᳚रैक्च॒कार॒ गर्भं᳚ सनि॒तुर्नि॒धान᳚म् ।
यदी᳚ मा॒तरो᳚ ज॒नय᳚न्त॒ वह्नि᳚म॒न्यः क॒र्ता सु॒कृतो᳚र॒न्य ऋ॒न्धन् ॥
▶ पदपाठः (Word-by-word)
न । जा॒मये᳚ । तान्वः᳚ । रि॒क्थम् । अ॒रै॒क् । च॒कार᳚ । गर्भ᳚म् । स॒नि॒तुः । नि॒॑धान᳚म् ।
यदि᳚ । मा॒तरः᳚ । ज॒नय᳚न्त । वह्नि᳚म् । अ॒न्यः । क॒र्ता । सु॒॑कृतोः᳚ । अ॒न्यः । ऋ॒न्धन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभ्रातृकाया दुहितुः पुत्रिकाकरणात् सा रिक्थभागित्युक्तम् । भ्रातृमत्यास्तस्यारिक्तभाक्त्वं नास्तीति ब्रूते । तान्वस्तनूज औरसः पुत्रो जामये भगिन्यै रिक्थं पित्रैं धनं नारैक् । व प्ररेचयति । न प्रददाति । किं तर्हि । सनितुरेनां सम्भजमानस्य भर्तुर्गर्भम् । षष्ठ्यर्थे द्वितीया । गर्भस्य निधानं रेतः सेकनिधानीमेनां चकार । पाणिग्रहणेन संस्कृतामेनां करोति । न तु तस्यै रिक्थं ददातीत्यभिप्रायः । असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादम्शाद्दत्वान्तं तु तुरीयकमिति याज्ञवल्क्यस्मरणात् । २-१२४ । स्त्रीपुंसलणस्यापत्यस्यैकोत्पाद्यत्वाविशेषात्पुमुपत्यस्य को विशेष इत्याशंक्य विशेषु दर्शयति । यदि यद्यपि मारतो माता पितरौ वह्निम् । अवह्निः स्त्री वह्निः पुमान् स्वभार्यया वोढृत्वात् । अवह्निश्च वह्निः । तादृशं स्त्रीपुंसलक्षणमपत्यं जनयन्त । तथापि तयोर्मध्येऽन्यः पुं लक्शणः सुकृतोः शोभनस्य पिंडदानादेः कर्मणः कर्ता भवति । अन्यः स्त्री लक्षण ऋन्धन् वस्त्रालंकारादिना ऋध्यमान एव भवति । पिण्डदानादिकर्तृत्वात्पुत्रो दायार्हः दुहिता तथा नेति न दायार्हा सातु केवलं परस्मै दीयते । तथा च निरुक्तम् । न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्रायाभवति । तान्व आत्मजः पुत्रो रिक्थं पारिचत्प्रादाच्चकारैनां गर्भनिधानीं सनितुर्हस्तग्राहस्य यदिह मातरोऽजनयन्त वह्निं पुत्रमवह्निं च स्त्रियमन्येतरः सन्तानकर्ता भवति पुमान्दायादोऽन्यतरोऽर्धयित्वा जामिः प्रदीयते परस्मै । नि. ३-६ । इति । तान्वः । तन्वाः प्राणाधिष्ठितत्त्वात्तनूः प्राणवती । तद्विकार इत्यर्थे प्राणिरजतादिभ्योऽञित्यत्र संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । रिक्थम् । रिचिर् विरेचने । पातॄतुदिवचिरिचिभ्यस्थक् । प्रत्ययस्वरः । अरैक् । रिचिर् विरेचन इत्यस्य लुङि सिचि वदव्रजेत्यादिना वृद्धिः । बहुलं छन्दसीतीडभावः । हल्ज्यादिसंयोगान्तलोपौ । निघातः । सनितुः । षण सम्भक्तावित्यस्य तृचि रूपम् । निघानम् । दधातेर्ल्युटि रूपम् । चित्स्वरः । मारतः । पिता मात्रेति पितुः शेषे प्राप्ते मातुः शेषश्छान्दसः । द्विर्वचनस्य बहुवचनं पूजार्थम् । जनयन्त । जनेर्णिचि रूपम् । वह्निम् । पुमान् स्त्रिया । पा. १-२-६७ । इति वह्नेः शेषः । सुकृतोः । करोतेरौणादिकः क्तुप्रत्ययः । ऋन्धन् । ऋधु वृद्धौ । व्यत्ययेन श्नम् ॥ २ ॥

3.31.3
अ॒ग्निर्ज᳚ज्ञे जु॒ह्वा॒३॒᳚ रेज᳚मानो म॒हस्पु॒त्रा{4} अ᳚रु॒षस्य᳚ प्र॒यक्षे᳚ ।
म॒हान्गर्भो॒ मह्या जा॒तमे᳚षां म॒ही प्र॒वृद्धर्य᳚श्वस्य य॒ज्ञैः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । ज॒ज्ञे॒ । जु॒ह्वा᳚ । रेज᳚मानः । म॒हः । पु॒त्रान् । अ॒रु॒षस्य᳚ । प्र॒॑यक्षे᳚ ।
म॒हान् । गर्भः᳚ । महि᳚ । आ । जा॒तम् । ए॒षा॒म् । म॒ही । प्र॒॑वृत् । हरि᳚॑अश्वस्य । य॒ज्ञैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र आरुषस्यारोचमानस्य तव प्रयक्षे यज्ञार्थं जुह्वा ज्वालाभीरेजमानः कम्पमानोऽग्निर्महः प्रभूतान् पुत्रान् रश्मीन् जज्ञे । उत्पादयामास । एषां रश्मीनां गर्भो जलात्मना क्रोडिकारो महानासीत् । किञ्च एषां रश्मीनां मेलनं आ जातं सर्वत ओषध्यात्मना जातं महि महदभूत् । किञ्च एषां रश्मीनां प्रवृत् अनेन प्रकारेण प्रवृत्तिर्हर्यश्वस्येन्द्रस्य यज्ञैर्यज्ञार्हैः सोमाहुतिभिर्मही महती भवति । जज्ञे । जनी प्रादुर्भाव इत्यस्य लिटि रूपम् । अन्तर्भाविण्यर्थः । जुह्वा । जुहोतेर्द्वे दीर्घश्चेति क्विप् द्विर्वचनं दीर्घश्च धातोः । उदात्तस्वरितयोरिति स्वरितत्वम् । हर्यश्वस्य । हरी अश्वौ यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ॥ ३ ॥

3.31.4
अ॒भि जैत्री᳚रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम᳚सो॒ निर᳚जानन् ।
तं जा᳚न॒तीः प्रत्युदा᳚यन्नु॒षास॒ः पति॒र्गवा᳚मभव॒देक॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । जैत्रीः᳚ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि᳚ । ज्योतिः᳚ । तम᳚सः । निः । अ॒जा॒न॒न् ।
तम् । जा॒न॒तीः । प्रति᳚ । उत् । आ॒य॒न् । उ॒षसः᳚ । पतिः᳚ । गवा᳚म् । अ॒भ॒व॒त् । एकः᳚ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जैत्रीर्जित्वर्यो विशो मरुतः स्पृधानं वृत्रेण सह स्पर्धमानमिन्द्रमभ्यसचन्त । सर्वतः समगच्छन् । ते च मरुतस्तस्मिन्वृत्रे हते महि महत् ज्योतिः सूर्याख्यं तेजस्तमसस्तमोरूपाद्बृत्रान्निरजानन् । निर्गतमज्ञासिषुः । तत इन्द्रं वृत्रहन्तारमुदितं सूर्यं जानतीर्जानाना उषसस्तं प्रत्युत् अभिलक्ष्यैव आयन् प्राप्नुवन् । अथ तत्रोद्भूतानां गवां रश्मीनामेकोऽद्वितीय एवेन्द्रः पतिरभवत् । जैत्रीः । जयतेस्तृनि रूपम् । गुणस्य स्थाने व्यत्ययेन वृद्धिः । नित्स्वरः । असचन्त । षच समवाय इत्यस्य लङि रूपम् । स्पृधानम् । स्पर्ध सङ्घर्षे । छन्दसि कानजादेशः । छन्दसि द्विर्वचनस्य विकल्पितत्वाद्द्विर्वचनाभावः । चित्स्वरः । अजानन् । ज्ञा अवबोहन इत्यस्य लङि रूपम् । निघातः । आयन् । अय प गतावित्यस्य लङि रूपं ॥ ४ ॥

3.31.5 समानपद
वी॒ळौ स॒तीर॒भि धीरा᳚ अतृन्दन्प्रा॒चाहि᳚न्व॒न्मन᳚सा स॒प्त विप्रा᳚ः ।
विश्वा᳚मविन्दन्प॒थ्या᳚मृ॒तस्य᳚ प्रजा॒नन्नित्ता नम॒सा वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
वी॒ळौ । स॒तीः । अ॒भि । धीराः᳚ । अ॒तृ॒न्द॒न् । प्रा॒चा । अ॒हि॒न्व॒न् । मन᳚सा । स॒प्त । विप्राः᳚ ।
विश्वा᳚म् । अ॒वि॒न्द॒न् । प॒थ्या᳚म् । ऋ॒तस्य᳚ । प्र॒॑जा॒नन् । इत् । ता । नम᳚सा । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा किलाङ्गिरसां गावः पणिनामकैरसुरैरपहृत्य निघ्ढे कस्मिञ्चित्पर्वते स्थापिताः । ते चाङ्गिरसस्त्वस्तत्प्राप्त्यर्थमिन्द्रं तुष्टुवुः । स्तुतश्च स इन्द्रो गवानेषणाय देवशुनीं प्राहिणोत् । सा च गवां गवेषणपरा सती तत्स्थानमलभता । तया विज्ञापित इन्द्रस्ता गा आनीयाङ्गिरोभ्यः प्रादादित्यैतिहासिकी कथा । तथा चास्या ऋचोऽयमर्थः । धीरा धीमन्तः सप्त विप्रा मेधाविनः सप्तसङ्ख्याका अङ्गिरसो वीळौ दृढे पर्वते सतीर्निरुद्धाः सतीर्गा अभि अभिलक्ष्यातृन्दन् । निधानमपावृण्वन् । उपेक्षामकुर्वन् । ततस्तेऽङ्गिरसः पर्वतविले गावः सन्तीति मनसा निश्चित्य प्राचा येन मार्गेण प्रविष्टास्तेनैव प्राचीनेन मार्गेण ता गा अहिन्वन् । निरगमयन् । यद्वा प्राचा । प्रकर्षेणेन्द्रमञ्चति प्राप्नोतीति प्राक् । तेनेन्द्रविषयेण मनसा । मन्यत इति मनः स्तोत्रम् । तेन स्तोत्रेणाहिन्वन् । अवर्धयन् । इन्द्रं तुष्टमकुर्वन् । स्तुत्वा च ऋतस्य पथ्यां यज्ञस्य मार्गे साधुभूतां विश्वां सर्वामपहृतां गामविन्दन् । अलभन्त । ततः स इन्द्रस्ता तान्यङ्गिरसां कर्माणि प्रजानन्नित् प्रकर्षेण जानन्निन्द्रो नमसा नमस्कारेणाङ्गिरसः सम्भावयन् तैरधिष्ठितं पर्वतमाविवेश ॥ अतृन्दन् । उतृदिर्हिम्सानादरयोरित्यस्य लङि रुधादित्वात् श्नम् । तस्य श्नसोरित्यल्लोपः । निघातः । प्राचा । अन्चेश्छन्दस्य सर्वनामस्थानमिति विभक्तेरुदात्तत्वम् । अघ्न्वन् । हि गतिवर्धनयोरित्यस्य लङि रूपम् । अविन्दन् । विद्लृ लाभ इत्यस्य लङि मुचाधित्वान्नुम् । निघातः । पथ्याम् । पथि साधुरित्यर्थे तत्र साधुरिति यत्प्रत्ययः । यचिधमिति भसंज्ञायां नस्तद्धित इति टिलोपः । यतोऽनाव इत्यसानित्यत्वात्तित्स्वरित इति स्वरितः । विवेश । विश प्रवेशन इत्यस्य लिटि रूपं ॥ ५ ॥

3.31.6
वि॒दद्यदी᳚ स॒रमा᳚ रु॒ग्णमद्रे॒र्महि॒ पाथः᳚ पू॒र्व्यं स॒ध्र्य᳚क्कः ।
अग्रं᳚ नयत्सु॒पद्यक्ष᳚राणा॒मच्छा॒ रवं᳚ प्रथ॒मा जा᳚न॒ती गा᳚त् ॥
▶ पदपाठः (Word-by-word)
वि॒दत् । यदि᳚ । स॒रमा᳚ । रु॒ग्णम् । अद्रेः᳚ । महि᳚ । पाथः᳚ । पू॒र्व्यम् । स॒ध्र्य᳚क् । क॒रिति᳚ कः ।
अग्र᳚म् । न॒य॒त् । सु॒॑पदी᳚ । अक्ष᳚राणाम् । अच्छ᳚ । रव᳚म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदि यदा सरमेन्द्रेण गवान्वेषनार्थं प्रेषिता सरमा नाम देवशुन्यद्रेरुग्णं भग्नं द्वारं विदत् अलभत तदानीमिन्द्रो महि महत्पूर्व्यं पूर्वं प्रेषण कालेऽन्नादिनीं ते प्रजां करिष्यामीति प्रतिज्ञातं सध्र्यक् इतरैरपि भोज्यैः सद्रीचीनं पाथो गव्यादिलक्षणमन्नं कः । अकार्षीत् । तस्मै दत्तवान् । ततः सुपदी शोभनपादयुक्ता सा सरमाक्षराणां क्षयरहितानां गवामग्रं प्रान्तं नयत् । प्राप्नोत् । कुत इत्यत आह । यतो रवं तेषां हंभारवं प्रथमा प्रथमं जानती सती अच्छ शब्दाभिमुख्येन गात् । जगाम । विदत् । व्द्लृ लाभ इत्यस्य लुङि लृदित्त्वात् च्लेरङादेशः । तस्य स्वरः । सरमा । सृ गतौ । औणादिकोऽमप्रत्ययः । सरतीति । सरमा सरणादिति यास्कः । प्रत्ययस्वरः । रुग्णम् । रुजो भङ्ग इत्यस्य निश्ठायामोदितश्चेति नत्वम् । प्रत्ययस्वरः । पाथः । पा रक्षणे । अन्ने च । उ. ४-२०४ । इत्यसुन्प्रत्ययः । थुडागमः । पातीति पाथोऽन्नम् । नित्स्वरः । सध्र्यक् । अञ्चु गतिपूजनयोः । ऋत्विगित्यादिना क्विन् । सहाञ्चतिति । सहस्य सध्रिति सध्र्यादेशः । क्विन्प्रत्ययस्य कुत्वम् । अद्रि सध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थमिति सध्रि इत्यादेशोऽन्तोदात्तः । यणादेशे कृत उदात्तस्वरितयोर्यणः स्वरित इति यणः स्वरितत्वम् । कः । करोतेर्लुङि सिपि च्लेर्मन्त्रे घसह्वरेत्यादिना लुक् । गुणे कृते हल्ण्यादिना सिपो लोपः । विसर्जनीयः । निघातः नयत् । नयतेर्लङि रूपम् । सुपदी । पादोऽन्यतरस्याम् । पा. ४-१-८ । इति ङीप् । गात् । इणो लुङि रूपम् ॥ ६ ॥

3.31.7
अग᳚च्छदु॒ विप्र᳚तमः सखी॒यन्नसू᳚दयत्सु॒कृते॒ गर्भ॒मद्रि᳚ः ।
स॒सान॒ मर्यो॒ युव᳚भिर्मख॒स्यन्नथा᳚भव॒दङ्गि᳚राः स॒द्यो अर्च᳚न् ॥
▶ पदपाठः (Word-by-word)
अग᳚च्छत् । ऊं॒ इति᳚ । विप्र᳚॑तमः । स॒खि॒॑यन् । असू᳚दयत् । सु॒॑कृते᳚ । गर्भ᳚म् । अद्रिः᳚ ।
स॒सान᳚ । मर्यः᳚ । युव᳚॑भिः । म॒ख॒स्यन् । अथ᳚ । अ॒भ॒व॒त् । अङ्गि᳚राः । स॒द्यः । अर्च᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रतमोऽतिशयेन मेधावी श्खीयन् अङिरसोभिः साकमात्मनः सखित्वमिच्छन् इन्द्रोऽगच्छत् । गोभिरधिष्ठितं पर्वतमगमदेव । सोऽद्रिः सखित्वमिच्छन् सुकृते सुष्ठु युद्धकर्त्र इन्द्राय गर्भं गवात्मकं गर्भमसूदयत् । निरगमयत् । युवभिर्नित्यतरुणैमरुद्भिः सह मखस्यन् गोधनमङ्गीरसामिच्छन् मर्योऽसुराणां मारयितेन्द्रः ससान । असुरैरपहृतास्ता गा भेजे । अथानन्तरमङ्गिराः सप्तानामङ्गिरसां मध्ये वरिष्ठोङ्गिरा ऋषिरिन्द्रात्ता गा लब्ध्वा सद्यस्तदानीमेवार्चन् इन्द्रं पूजयन्नभवत् । आगच्छत् । गमेर्लङि रूपम् । सखीयन् । सुपः आत्मनः क्यच् । असूदयत् । षूद निरास इत्यस्य ण्यंशस्य लङि रूपम् । ससान । षण सम्भक्ता वित्यस्य लिटि णलि रूपम् । लित्स्वरः । व खस्यन् । छन्दसि परेच्छायामिति परेच्छायामपि क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्य इति सुगामः । एकादेशस्वरः । अङ्गिराः । सृ गतौ । अङ्गारशब्द उपपदे सर्तेर्धातोरसुन्प्रत्ययः । उपपदे गकारात्परस्येत्वमन्त्यलोपश्च धातोर्लोपश्च अङ्गिराः । उ. ४-२३५ । इति सूत्रेण नोपात्यते । भुतकालेऽङ्गारेभ्यः सृत इत्यङ्गिरा ऋषिः । अङ्गारेष्वङ्गिरा इति यास्कः । नित्स्वरः ॥ ७ ॥

3.31.8
स॒तःस᳚तः प्रति॒मानं᳚ पुरो॒भूर्विश्वा᳚ वेद॒ जनि᳚मा॒ हन्ति॒ शुष्ण᳚म् ।
प्र णो᳚ दि॒वः प᳚द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखी{4}᳚रमुञ्च॒न्निर᳚व॒द्यात् ॥
▶ पदपाठः (Word-by-word)
स॒तः॑स᳚तः । प्र॒ति॒॑मान᳚म् । पु॒रः॒॑भूः । विश्वा᳚ । वे॒द॒ । जनि᳚म । हन्ति᳚ । शुष्ण᳚म् ।
प्र । नः॒ । दि॒वः । प॒द॒॑वीः । ग॒व्युः । अर्च᳚न् । सखा᳚ । सखी᳚न् । अ॒मु॒ञ्च॒त् । निः । अ॒व॒द्यात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयमिन्द्रः सतः सत उत्तमस्य वस्तुनः प्रतिमानम् । प्रतिमीयत उपमीयतेऽनेन सर्वमिति प्रतिमानं प्रतिनिधिः यद्वा सतः सतो जातस्य सर्वस्य प्रतिमानं स्वस्य महत्त्वेन प्रतिमातीयत्तया सर्वं परिच्छिनत्तीत्यर्थः । पुरोभूर्युद्धे पुरतः शत्रूनवाप्नोतीति पुरोभूश्च विश्वा जनिम सर्वाणि जातानि वेद जानाति शुष्णं शुष्णनामानमसुरं हन्ति । पदवीः कवितमो गव्युर्गोधनमङ्गिरसामिच्छन् अस्माकं सुखेन्द्रः सखीन्नोस्मान् दिवो म्यलोकादागत्य प्रार्चन् प्रकर्षेण पूजयन् अवद्याद्पृत्रबाधरूपाद्दोषान्निरमुञ्चत् । नितरां मुञ्चतु । प्रतिमानम् । मातीति मानम् । औणादिको नन्प्रत्ययः । यद्वा करणे ल्युट् । पुरोभूः भू प्राप्तौ क्विप् । वेद । वेत्तेर्लिटि रूपम् । जनिम जनी प्रादुर्भावे जनिहृभ्यामिमनिन्नितीमनिन्प्रत्ययः । भूतकाले जातानीति जनिम । सुपां सुलुगिति सुपो लुक् । नित्स्वरः हन्ति । हन्तेर्लटि रूपम् । वाक्यभेदादनिघातः । शुष्णं शोषयतीति शुष्ण प्रणम् । उपसर्गाद्बहुलमिति सम्हितायां णत्वम् । पदवीः । वी कान्त्यादिषु । क्विप् पदानि वेत्ति परस्परसङ्गतानि करोतिति पदवीः कविः । गव्युः । गोशब्दात्परेच्छायां छन्दसीति क्यच् । वान्तो यि प्रत्यय इति वान्तादेशः । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । अर्चन् । अर्चतेः शतरि रूपम् । सखीन् । सम्हितायां नकारस्य दीर्घादटीति रुः । पूर्वस्य वर्णस्य अत्रानुनासिक इत्यनुनासिकादेशः । अमुञ्चत् । मुच्लृ मोक्षण इत्यस्य लङे ते मुचादीनामिति नुमागमः । निघातः । अवद्यात् । वद व्यक्तायां वाचीत्यस्य नञ्पूर्वस्य गर्ह्यार्थेऽवद्यपण्यवर्या इति निपातनात् । पा. ३-१-१०१ । यत्प्रत्ययः ॥ ८ ॥

3.31.9
नि ग᳚व्य॒ता मन᳚सा सेदुर॒र्कैः कृ᳚ण्वा॒नासो᳚ अमृत॒त्वाय᳚ गा॒तुम् ।
इ॒दं चि॒न्नु सद᳚नं॒ भूर्ये᳚षां॒ येन॒ मासा{4}॒ असि᳚षासन्नृ॒तेन᳚ ॥
▶ पदपाठः (Word-by-word)
नि । ग॒व्य॒ता । मन᳚सा । से॒दुः॒ । अ॒र्कैः । कृ॒ण्वा॒नासः᳚ । अ॒मृ॒त॒॑त्वाय᳚ । गा॒तुम् ।
इ॒दम् । चि॒त् । नु । सद᳚नम् । भूरि᳚ । ए॒षा॒म् । येन᳚ । मासा᳚न् । असि᳚सासन् । ऋ॒तेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गव्यता गा इच्छता मनसा युक्ता अर्कैरर्चनीयैः स्तोत्रैरमृतत्वाय देवत्वप्राप्त्यर्थं गातुम् । गच्छन्त्यनेनेति गातुर्मार्गः । अमृतत्वप्राप्त्युपाय भूतं मार्गं कृण्वानासः कुर्वाणास्तेऽङ्गिरसो निषेदुः । सत्राख्ये कर्मण्यासीदन् । एषामङ्गिरसामिदं चित्सदनं इदमेव सत्राख्ये कर्मण्यासदनं भुरि नु । प्रभूतम् । अमृतत्वप्राप्त्यर्थं महानुपायः खलु । कुत इत्यत आह । ऋतेन सत्यभूतेन येन सत्रकर्मणा तेऽङ्गिरसो मासानभिप्लवपृष्ट्यषडहैः कल्पितान् मासान् असिसासन् । सम्भक्तुमैच्छन् ॥ गव्यता । गोशब्दात् क्यचि रूपम् । वान्तो यि प्रत्यय इति वान्तादेशः । एकादेशस्वरः । सेमः । सदेर्लिटि अत एकहल्मध्येऽनादेशादेर्लिटीत्येत्वाभासलोपौ । निघातः । कृण्वानासः । कृवि हिम्सा करणयोरित्यस्य ताच्छिलिकश्चानश् । धिन्विकृण्व्योरच्छेत्युप्रत्ययः । चित्स्वरः । गातुम् । गाङ् गतौ । कमिमनिजनिगाभापायाहिभ्य इति करणे तु प्रत्ययः । प्रत्ययस्वरः । असिषासन् । षण सम्भक्तावित्यस्य सनि जनसनखनां सन्झलोरित्यात्वम् । आभ्यासस्य सन्यत इतीत्वम् । सनोतेरन इति सम्हितायां षत्वम् । तदन्ताल्लङि रूपम् । यद्वृत्तयोगादनिघातः ॥ ९ ॥

3.31.10
स॒म्पश्य᳚माना अमदन्न॒भि स्वं पयः᳚ प्र॒त्नस्य॒ रेत᳚सो॒ दुघा᳚नाः ।
वि रोद᳚सी अतप॒द्घोष᳚ एषां जा॒ते नि॒ष्ठामद᳚धु॒र्गोषु᳚ वी॒रान् ॥
▶ पदपाठः (Word-by-word)
स॒म्॑पश्य᳚मानाः । अ॒म॒द॒न् । अ॒भि । स्वम् । पयः᳚ । प्र॒त्नस्य᳚ । रेत᳚सः । दुघा᳚नाः ।
वि । रोद᳚सी॒ इति᳚ । अ॒त॒प॒त् । घोषः᳚ । ए॒षा॒म् । जा॒ते । निः॒॑स्थाम् । अद᳚धुः । गोषु᳚ । वी॒रान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वं स्वकीयं गोधनमभि अभिलक्ष्य सम्पश्यमाना मदीया एता गाव इत्यात्मीयतया जानानास्तेऽङ्गिरसः प्रत्नस्य पुरा जातस्य रेतसस्तदुपलक्षितस्य पुत्रस्य धारणार्थं पयो दुघानास्ता गाः पयो दुहन्तः सन्तोऽमदन् । अह्यष्यन् । एशामङ्गिरसां घोषो हर्षादुत्पन्नो महाध्वनिः स्तुतिजातो वा रोदसी द्यावा पृथिवौ व्यतपत् । ते व्याप्यातपिष्ट । ततस्तेऽङ्गिरसो जात आत्मि यतया सम्पत्नी चराचरात्मके वस्तुनि निष्थां पूर्वं यथा स्थिमकार्षुः । तथा गोष्वाहृतासु वीरान् रक्षाकर्मण्यतिशूरान्पुरुषानदधुः । स्थापयामासुः ॥ सम्पश्यमानाः । संपूर्वस्य दृशेर्दृशेश्चेति वक्त्व्यमित्यात्मनेपदम् । शनाचो लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः । अमदन् । मदी हर्ष इत्यस्य लुङि णिच्यङे रूपम् । निघातः । दुघानाः । दुह प्रपूरण इत्यस्मात् शानच् । अदादित्वाच्छपो लुक् । घत्वं छान्दसम् । वृषादित्वादाद्युदात्तः अतपत् । विपूर्वस्य तपतेरत्र सकर्मकत्वादात्मनेपदाभावः । लङि रूपं घोषः । घुष सम्शब्दने । घञन्तः । ञिओत्स्वरः । निष्थाम् । ष्ठा गतिनिवृत्तौ । स्थः क च । पा. ३-२-७७ । इति क्विप् । कृदुत्तरस्वरः । अदधुः । दधातेर्लङि झेः सिजभ्यस्तेति जुसादेशः । वाक्यभेदान्निघाताभावः । गोशु । सावेकाच इति विघक्तेरुदात्तत्वे प्राप्ते न गोश्वन्निति प्रतिषिद्धत्वात्प्रातिपदिकस्वरः ॥ १० ॥

3.31.11
स जा॒तेभि᳚र्वृत्र॒हा सेदु᳚ ह॒व्यैरुदु॒स्रिया᳚ असृज॒दिन्द्रो᳚ अ॒र्कैः ।
उ॒रू॒च्य᳚स्मै घृ॒तव॒द्भर᳚न्ती॒ मधु॒ स्वाद्म᳚ दुदुहे॒ जेन्या॒ गौः ॥
▶ पदपाठः (Word-by-word)
सः । जा॒तेभिः᳚ । वृ॒त्र॒॑हा । सः । इत् । ऊं॒ इति᳚ । ह॒व्यैः । उत् । उ॒स्रियाः᳚ । अ॒सृ॒ज॒त् । इन्द्रः᳚ । अ॒र्कैः ।
उ॒रू॒ची । अ॒स्मै॒ । घृ॒त॑व᳚त् । भर᳚न्ती । मधु᳚ । स्वाद्म᳚ । दु॒दु॒हे॒ । जेन्या᳚ । गौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो जातेभिः सहायतया सम्पन्नैर्मरुद्भिः सहितः सन् वृत्रहा वृत्रस्यासुरस्य हन्ता भवति । सेदु स एवेन्द्रोऽर्कैरर्चनीयैः अत एव हव्यैर्होतव्यैर्मरुद्भिः सहितः सन् उस्रियाः । ऊर्ध्वं वसुत्यासु क्षीरादिरूपं हविरित्युस्रियागावः । यद्वा ऊर्ध्वं क्षीरदधिनवनीतादि क्रमेणासु वसतीति । उस्रियेति गोनामोत्स्राविणोऽस्यां भोगाः । नि. ४-१९ । इति यास्कः । ता गा उदसृजत् । यज्ञार्थं सम्यक् ससर्ज । यस्मादेवं तस्मात् घृतवत् घृतोपेतं क्षीरादिकं हविर्भरन्ती बिभ्राणा आत एवोरूची । उरु प्रभूतमग्निहोत्रादिकमाञ्चति हविः प्रदातुं प्राप्नोतित्युरूची । जेन्या जेतव्या प्रशस्ता गौरस्मै यजमानाय स्वाद्म स्वादुतरं क्षीरादि दुदुहे । दुह्यते स्म ॥ उस्रियाः । वस निवास इत्यस्मात् स्फायिन्तञ्चीत्यादिना रक्प्रत्ययः । उस्रशब्दात् स्वार्थे घप्रत्ययः । प्रत्ययस्वरः । यद्वा सृ गतौ । उत्पूर्वस्य सरतेः कप्रत्ययः । पूर्वपदस्यान्त्यलोपश्छान्दसः । अत्रापि स्वार्थिको घप्रत्ययः । असृजत् । सृज विसर्ग इत्यस्य लङे रूपम् । उरूची । उर्वञ्चतीति क्विन् । अञ्चतेश्चोपसङ्ख्यानमिति ङीप् । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । दुदुहे । दुह प्रपूरण इत्यस्य लिटि रूपम् । जेन्या । ययतेः कृत्यार्थे केन्प्रत्ययः । इकारलोपश्छान्दसः । प्रत्ययस्वरः ॥ ११ ॥

3.31.12
पि॒त्रे चि᳚च्चक्रु॒ः सद᳚नं॒ सम᳚स्मै॒ महि॒ त्विषी᳚मत्सु॒कृतो॒ वि हि ख्यन् ।
वि॒ष्क॒भ्नन्त॒ः स्कम्भ᳚नेना॒ जनि᳚त्री॒ आसी᳚ना ऊ॒र्ध्वं र᳚भ॒सं वि मि᳚न्वन् ॥
▶ पदपाठः (Word-by-word)
पि॒त्रे । चि॒त् । च॒क्रुः॒ । सद᳚नम् । सम् । अ॒स्मै॒ । महि᳚ । त्विषि᳚॑मत् । सु॒॑कृतः᳚ । वि । हि । ख्यन् ।
वि॒॑स्क॒भ्नन्तः᳚ । स्कम्भ᳚नेन । जनि᳚त्री॒ इति᳚ । आसी᳚नाः । ऊ॒र्ध्वम् । र॒भ॒सम् । वि । मि॒न्व॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्रमनुतिष्ठन्तोऽङ्गिरसः पित्रे चित्पालकायास्मा इन्द्राय म्नहि महत् त्विषीमद्दीप्तिमत् सदनमत्त्तमं स्थानं सञ्चक्रुः । कथमिति चेदुच्यते । यतः सुकृतः समुपार्जितकर्माणस्तेऽङ्गिरसस्तादृशमिन्द्रस्योचितं स्थानं वि हि ख्यन् । विशेषेणादर्शयन् खलु । कुत इत्यत आह । आसीनाः सत्रमुपतिष्ठन्तस्तेऽङ्गिरसो जनित्री सर्वस्य जगतो जनयित्रौ द्यावापृथिवौ स्कम्भनेन स्तम्भनसाधनेनान्तरिक्शेण विष्क्भ्नन्तो यथा ते रोदस्यावधो न पततस्तथा विष्टब्धीकुर्वन्तः सन्तो रभसं वेगवन्तं तमिन्द्रमूर्ध्वं द्युलोके वि मिन्वन् । हविः स्वीकरणार्थं विशेषेणास्थापयन् । चक्रुः । करोतेर्लिट्युसि रूपम् । निघातः । ख्यन् । ख्या प्रकथने । अस्य लुङि च्लेरस्यतिवक्तिख्यातिभ्योऽङ्गित्यङादेशः । आतो लोप इटीत्याकारलोपः । हियोगादनिघातः । विश्कभ्नन्तः । स्कन्भु रोधने । सौत्रो धातुः । तस्माच्छतरि रूपम् । वेः स्कभ्नातेर्नित्यम् । पा. ८-३-७७ ॥ इति षत्वम् । शतृप्रत्ययस्वरः । जनित्री । ऋन्नेभ्यो ङेप् । जनिता मन्त्र इति निपातनाण्णिलोपः । वा छन्दसीति सवर्णदीर्घः । आसीनाः । आस उपवेशन इत्यस्माच्छानच् । ईदासः । पा. ७-२-८३ । इतीकारः । शानचो लसार्वधातुकस्वरे कृते धातुस्वरः । मिन्वन् । डुमिञ् प्रक्षेपन इत्यस्य लङे रूपम् । निघातः ॥ १२ ॥

3.31.13 समानपद
म॒ही यदि᳚ धि॒षणा᳚ शि॒श्नथे॒ धात्स᳚द्यो॒वृधं᳚ वि॒भ्वं१॒᳚ रोद᳚स्योः ।
गिरो॒ यस्मि᳚न्ननव॒द्याः स᳚मी॒चीर्विश्वा॒ इन्द्रा᳚य॒ तवि᳚षी॒रनु᳚त्ताः ॥
▶ पदपाठः (Word-by-word)
म॒ही । यदि᳚ । धि॒षणा᳚ । शि॒श्नथे᳚ । धात् । स॒द्यः॒॑वृध᳚म् । वि॒॑भ्व᳚म् । रोद᳚स्योः ।
गिरः᳚ । यस्मि᳚न् । अ॒न॒व॒द्याः । स॒म्॑ई॒चीः । विश्वाः᳚ । इन्द्रा᳚य । तवि᳚षीः । अनु᳚त्ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मही महती धिषणास्माभिः क्रियमाणेन्द्रविषया स्तुती रोदस्योः शिश्नथे द्यावापृथिव्योरन्योन्यविश्लेषाय सद्योवृधं तदानीमेव वर्धमानं विभ्वं विभुं तयोर्धारणसमर्थं साधनं यदि धात् अकरोत् ततस्तत्र वर्तमाने यस्मिन्निन्द्रेऽनवद्या दोशरहिता गिरः स्तुतिलक्शणा वाचः समीचीः सङ्गता भवन्ति । इन्द्रायेति विभक्तिव्यत्ययः । तादृशस्येन्द्रस्य विश्वास्तविषीः सर्वाणि बल्लन्यनुत्ता अपरप्रेषितानि स्वभावसिद्धान्येव ॥ धिषणा । ञिधृषा प्रागल्भ्ये । धृषेर्धिश च संज्ञायामिति क्युप्रत्ययः । धातोर्धिशादेशः । धृष्णोत्यनयेति धिषणा स्ततिः । प्रत्ययस्वरः । शिश्नथे । श्नथ ज् िंसार्थः । अस्मात्क्विप् । छन्दस्युभयथेति तस्य सार्वधातुकत्वाच्छप् । तस्य बहुलं छन्दसीति श्लुः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । धातुस्वरः । धात् । दधातेश्छान्दसे लुङि रूपम् । यदियोगादनिघातः । विभ्वम् । भवतेः क्विप् । छन्दस्युभयथेति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । अनुत्ताः । णुद प्रेरण इत्यस्य नञ्पूर्वस्य निष्ठायां नसत्तनिशत्तानुत्तेत्यादिना निपातनान्निष्ठातकारस्य नत्वाभावः । नञः स्वरः ॥ १३ ॥

3.31.14 समानपद
मह्या ते᳚ स॒ख्यं व᳚श्मि श॒क्तीरा वृ᳚त्र॒घ्ने नि॒युतो᳚ यन्ति पू॒र्वीः ।
महि᳚ स्तो॒त्रमव॒ आग᳚न्म सू॒रेर॒स्माकं॒ सु म᳚घवन्बोधि गो॒पाः ॥
▶ पदपाठः (Word-by-word)
महि᳚ । आ । ते॒ । स॒ख्यम् । व॒श्मि॒ । श॒क्तीः । आ । वृ॒त्र॒॑घ्ने । नि॒॑युतः᳚ । य॒न्ति॒ । पू॒र्वीः ।
महि᳚ । स्तो॒त्रम् । अवः᳚ । आ । अ॒ग॒न्म॒ । सू॒रेः । अ॒स्माक᳚म् । सु । म॒घ॒॑व॒न् । बो॒धि॒ । गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव मही महत्सख्यमावश्मि । अकामये । शक्तीस्त्वत्सम्बन्धीनि दानानि चाकामये । वृत्रघ्ने वृत्रासुरस्य हन्त्रे तुभ्यं पूर्वीर्बह्ट्यो नियुतोवडवा आयन्ति । वहनार्थमागच्छन्ति । सूरेर्विदुषस्तव महि महत् स्तोत्रमवो हविर्लक्षणमन्नं चागन्म । प्रापयामः । हे मघवन्निन्द्र तादृशस्त्वमस्माकं सु सुश्ठु गोपाः पालयिता भवामीति बोधि । बुध्यस्व ॥ सख्यम् । सख्युर्य इति भावार्थे य प्रत्ययः । प्रत्ययस्वरः । वश्मि । वश कान्तौ । लटि रूपम् । नियुतः । यु मिश्रणे । क्विप् । नितरां युवन्ति मिश्रयन्त्यात्मानं रथेष्विति नियुतो वडवाः । आगन्म । गमेर्लङ्युत्तमबहुवचने बहुलं छन्दसीति शपो लुक् । म्वोश्चेति मकारस्य नकारः । निघातः । बोधि । बुधेर्लोटि हेर्धौ रूपम् । निघातः । गोपाः । गुपू रक्षणे । गपूधूपेत्यादिना आयप्रत्ययः । तदन्तात् क्विप् । आतोलोपयलोपौ । प्रत्ययस्वरः ॥ १४ ॥

3.31.15
महि॒ क्षेत्रं᳚ पु॒रु श्च॒न्द्रं वि᳚वि॒द्वानादित्सखि᳚भ्यश्च॒रथं॒ समै᳚रत् ।
इन्द्रो॒ नृभि᳚रजन॒द्दीद्या᳚नः सा॒कं सूर्य᳚मु॒षसं᳚ गा॒तुम॒ग्निम् ॥
▶ पदपाठः (Word-by-word)
महि᳚ । क्षेत्र᳚म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि᳚॑भ्यः । च॒रथ᳚म् । सम् । ऐ॒रत् ।
इन्द्रः᳚ । नृ॑भिः᳚ । अ॒ज॒न॒त् । दीद्या᳚नः । सा॒कम् । सूर्य᳚म् । उ॒षस᳚म् । गा॒तुम् । अ॒ग्निम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽयमिन्द्रो महि महत् क्षेत्रं केदारादि पुरु प्रभूतं चन्द्रं हिरण्यं च विविद्वान् आर्थिभ्यः सखिभ्योऽस्मभ्यं लंभयन् । आदित् अनन्तरं चरथं चरात्मकं गवादिकं च समैरत् सम्यक् प्रैरयत् । दत्तवानित्यर्थः । दीद्यानो दीप्यमानः सोऽयमिन्द्रो नैभिर्नेतृभिः कर्मसहायभूतैर्मरुद्भिः साकं सहितः सन् सूर्यं कालस्य निर्वाहकमादित्यं उषसमुषः कालं गातुम् । गायन्ति स्तुवन्त्यस्यामिन्द्रादिदेवानिति गातुः पृघिवी । ताम् । अग्निमग्निहोत्रादिकर्मसाधनभूतमावहनीयादिलक्षणमग्निं जाजनत् । अजनयत् । पुरु चन्द्र । संहितायां ह्रस्राच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः । तस्य श्चुत्वेन शकारः । पदकाले नास्ति सुडागमः पुरु । कुप्रत्ययस्वरः । चन्द्रम् । रक् । प्रत्ययस्वरः चरथं चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । प्रत्ययस्वरः । ऐरत् । ईर गतावित्यस्य लङि आडजादीनामित्याडागमः । निघातः । अजनत् । जनेर्ण्यन्तस्य लङि रूपम् । बहुलमन्यत्रापि संज्ञाच्छन्दसोरिति णिलुक् । गातुम् । गृ शब्दे । गापायाहिभ्य इति तुप्रत्ययः । प्रत्ययस्वरः ॥ १५ ॥

3.31.16
अ॒पश्चि᳚दे॒ष वि॒भ्वो॒३॒᳚ दमू᳚ना॒ः प्र स॒ध्रीची᳚रसृजद्वि॒श्वश्च᳚न्द्राः ।
मध्व᳚ः पुना॒नाः क॒विभि᳚ः प॒वित्रै॒र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु᳚त्रीः ॥
▶ पदपाठः (Word-by-word)
अ॒पः । चि॒त् । ए॒षः । वि॒॑भ्वः᳚ । दमू᳚नाः । प्र । स॒ध्रीचीः᳚ । अ॒सृ॒ज॒त् । वि॒श्व॑च᳚न्द्राः ।
मध्वः᳚ । पु॒ना॒नाः । क॒वि॑भिः᳚ । प॒वित्रैः᳚ । द्यु॑भिः᳚ । हि॒न्व॒न्ति॒ । अ॒क्तु॑भिः᳚ । धनु᳚त्रीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दमूनाः । दान्तं मनो यस्यासौ दमूनाः । दान्तमनाः । यद्वा दामैतीति दमूनाः । उपरत इत्यर्थः । स एष एवेन्द्रो विभ्वो व्याप्ताः सध्रीचीः परस्पर सङ्गता विश्वश्चन्द्रा विश्वस्याह्लादयित्रीः । विश्वस्याह्लादो याभ्यस्ता इति वा । एवं भूता अपश्चिदपोऽपि प्रासृजत् । सृष्तवान् । सृष्टाश्च ता आपो मध्वो माधुर्योपेणन्सोमान्कविभिः पवित्रैरग्निवाहुसूर्यै पुनानाः शोधयित्र्यो धनुत्रीः सर्वस्य जगतः प्रीणयित्र्यः सत्यो द्युभिर्दिवसैरक्तुभी रात्रिभिर्हिन्वन्ति । रात्रिदिवं सर्वं जगत्स्वस्वव्यापारप्रवणं कुर्वन्तीत्यर्थः । दमूनाः । दमु उपशमे । दमेरूनसिरत्यूनसिप्रत्ययः । दाम्यतीति दमूनाः । यद्वा दान्तशब्दस्य दभावो मनसो मकारात्परस्याकारस्य ऊकारश्छान्दास्ः । असृजत् । सृज विसर्गे । हिन्वन्ति । हि गतौ । निघातः । धनुत्रीः । धन धान्य इत्यस्मादशित्रादित्वादुत्रप्रत्ययः । शार्ङरवादिषु ङीन् द्रष्टव्यः । नित्स्वरः ॥ १६ ॥

3.31.17
अनु᳚ कृ॒ष्णे वसु᳚धिती जिहाते उ॒भे सूर्य᳚स्य मं॒हना॒ यज᳚त्रे ।
परि॒ यत्ते᳚ महि॒मानं᳚ वृ॒जध्यै॒ सखा᳚य इन्द्र॒ काम्या᳚ ऋजि॒प्याः ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । कृ॒ष्णे इति᳚ । वसु᳚धिती॒ इति॒ वसु᳚॑धिती । जि॒हा॒ते॒ इति᳚ । उ॒भे इति᳚ । सूर्य᳚स्य । मं॒हना᳚ । यज᳚त्रे॒ इति᳚ ।
परि᳚ । यत् । ते॒ । म॒हि॒मान᳚म् । वृ॒जध्यै᳚ । सखा᳚यः । इ॒न्द्र॒ । काम्याः᳚ । ऋ॒जि॒प्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सूर्यस्य सुष्ठु जगतः प्रेरकस्य तव मंहना महत्त्वेन सामर्थ्येन वसुधिती वस्तव्यपदार्थधारणोपेते यजत्रे यजनार्हे ते उभे कृश्णे अहोरात्रे अनु जिहाते । पुनः पुनरावृत्य वर्तेते । किञ्च । ऋजिप्या ऋजुगतयः सखायस्ते मित्रभूताः काम्याः कमनीया मरुतो वृभध्यै । कर्मविघ्नकारिणामसुराणां वर्जनाय परिभवाय । यद्यस्य ते तव महिमानं सामर्थ्यमनुसृत्य परि परितः प्रभवन्ति ॥ जिहाते । ओहाङ् गतौ । जुहोत्यादिः । भृञामिदित्यभ्यासस्येत्वम् । निघातः । मंहना । महि वृद्धौ । ल्युट् । लित्स्वरः । वृजध्यै । वृजी वर्जने । तुमर्थे कध्यैप्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । काम्याः । कमेण्यन्तस्याचो यदिति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वम् । ऋजप्याः । ओप्यायी वृद्धौ । क्विप् । लोपोऽव्योर्वलीति यलोपः । पूर्वपदस्योकारस्येकारो व्यत्ययेन । बहुवचनस्यैकवचनं छान्दसम् । कृदुत्तरपदप्रकृतिस्वरः ॥ १७ ॥

3.31.18
पति᳚र्भव वृत्रहन्त्सू॒नृता᳚नां गि॒रां वि॒श्वायु᳚र्वृष॒भो व᳚यो॒धाः ।
आ नो᳚ गहि स॒ख्येभि᳚ः शि॒वेभि᳚र्म॒हान्म॒हीभि᳚रू॒तिभि᳚ः सर॒ण्यन् ॥
▶ पदपाठः (Word-by-word)
पतिः᳚ । भ॒व॒ । वृ॒त्र॒॑ह॒न् । सू॒नृता᳚नाम् । गि॒राम् । वि॒श्व॑आ᳚युः । वृ॒ष॒भः । व॒यः॒॑धाः ।
आ । नः॒ । ग॒हि॒ । स॒ख्येभिः᳚ । शि॒वेभिः᳚ । म॒हान् । म॒हीभिः᳚ । ऊ॒ति॑भिः᳚ । स॒र॒ण्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्निन्द्र विश्वायुः विश्वं सम्पूर्णमायुर्यस्यासौ विश्वायुः । अविनाशी वृषभः कामानां वर्षिता वयोधा अन्नस्य दाता तादृशस्त्वं सूनृतानां गिरामस्माभिः क्रियमाणानां प्रियतमानां वाचां पतिः स्वामी भव । तथा सरण्यन् सरण यज्ञार्थं गमनमिच्छन् महान्महीभिर्महतीभिरूतिभी रक्षाभिः शिवेभिः कल्याणैः सख्येभिः फलप्रदानरूपोपकारलक्षणैः सख्यैश्चसहितस्त्वं नोऽस्मान्प्रत्यागहि । यज्ञार्थमागच्छ । सून्रतानाम् । ऊन परिहाणे । सुतरामूनयत्यप्रियमिति सूनिति प्रियमुच्यते । तच्च तदृतं सत्यं चेति सूनृतम् । परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । वयोधाः । वयस्युपपदे दधातेर्विच् । गहि । गमेर्लोटि बहुलं छन्दसीति शपो लुक् । सेर्हिरादेशः । अपिच्च । तस्य ङित्त्वादनुदात्तोपदेशेत्यादिना मलोपः । तस्यासिद्धत्वादतो हेरिति होर्लुक् न भवति । निघातः । सरण्यन् । सरण शब्दात्क्यच् । एकादेशस्वरः ॥ १८ ॥

3.31.19
तम᳚ङ्गिर॒स्वन्नम᳚सा सप॒र्यन्नव्यं᳚ कृणोमि॒ सन्य᳚से पुरा॒जाम् ।
द्रुहो॒ वि या᳚हि बहु॒ला अदे᳚वी॒ः स्व᳚श्च नो मघवन्त्सा॒तये᳚ धाः ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒ङ्गि॒र॒स्वत् । नम᳚सा । स॒प॒र्यन् । नव्य᳚म् । कृ॒णो॒मि॒ । सन्य᳚से । पु॒रा॒॑जाम् ।
द्रुहः᳚ । वि । या॒हि॒ । ब॒हु॒लाः । अदे᳚वीः । स्व१॒᳚रिति᳚ स्वः᳚ । च॒ । नः॒ । म॒घ॒॑व॒न् । सा॒तये᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अङ्गिरस्वत् अङ्गिरस इव नमसा स्तोत्रेण सपर्यन् पूजयन् विश्वामित्रोऽहं तं तादृशमहिमोपेतं पुराजां पुरातनं त्वां सन्यसे सम्भजनाय नव्यं कृणोमि । स्तोतव्यतयाभिनवं करोमि । अदेवीस्तमोरूपत्वेनाद्योतमानान्बहुला बहून् द्रुहो द्रोग्धॄन् शत्रुभूतान् राक्षसान् वि याहि । विशेषेण मृतिं प्रपय । हे मघवन्निन्द्र नोऽस्मभ्यं स्वः स्वं धनं च सातये सम्भजनार्थं धाः । धेहि । अङ्गिरस इव । तेन तुल्यमिति वतिप्रत्ययः । नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति भसंज्ञायां सकारस्य रुत्वाभावः । सपर्यन् । सपरशब्दः कण्ड्वादिः । नव्यं णु स्तुतावित्यस्मादचो यदिति यत्प्रत्ययः । धातोस्तन्निमित्तस्येति वान्तादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । कृणोमि । कृवेर्लटि रूपम् । सन्यसे । सनतेर्भावे क्विप् । यसु प्रयत्ने । अस्मात् क्विप् । सनः सम्भजनस्य यसे यत्नाय । सम्भजनार्थमित्यर्थः । पुराजाम् । जनेर्विट्याते े रूपम् । याहि । यातेर्लोटि रूपम् । स्वः । स्वरादिनिपातमव्ययमित्यव्ययसंज्ञायामव्ययादाप्सुप इति सपो लुक् । सातये । षण सम्भक्तौ । भावे क्तिन् । जनसनेत्यादिना आत्वम् । ऊतियूतीत्यादिना निपातनादुदात्तः ॥ १९ ॥

3.31.20
मिहः᳚ पाव॒काः प्रत᳚ता अभूवन्त्स्व॒स्ति नः᳚ पिपृहि पा॒रमा᳚साम् ।
इन्द्र॒ त्वं र᳚थि॒रः पा᳚हि नो रि॒षो म॒क्षूम᳚क्षू कृणुहि गो॒जितो᳚ नः ॥
▶ पदपाठः (Word-by-word)
मिहः᳚ । पा॒व॒काः । प्र॑त᳚ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् ।
इन्द्र᳚ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षु॑म᳚क्षु । कृ॒णु॒हि॒ । गो॒॑जितः᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते पावकाः पापानां शोधयित्र्योमिह सेचनसाधनान्यापः प्रततालोके प्रकर्षेण विस्तृता अभूवन् । आसामपां स्वस्ति विनाशरहितं पारं तीरं नोऽस्मदर्थं पिपृहि । जलैः सम्पुर्णं कुरु । जलमवारपारीणं कुर्वित्यर्थः । रथिरो रथवांस्त्वं रिशो हिंसकाच्छत्रोः सकाशान्नोऽस्मान्पाहि । पालय । अनन्तरं नोऽस्मान् मक्शु मक्षु अतिशीघ्रं गोजितो गवादिपशूनां जेत्रून् कृणिहि । कुरु । वृष्टिप्रदानेन तटाकादिजलाशयान् सम्पूर्णान् कृत्वा गवादिधनयुक्तान् कुर्वितिभावः ॥ आभूवन् । भू सत्तायामित्यस्य लुङि रूपम् । निघातः । पिपृहि । पॄ पालनपूरणयोः । जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । हेर्ङित्त्वादगुणः । निघातः । रथिरः । मत्वर्थे मेधारधाभ्यामिरनिरचावितीरच् प्रत्ययः । रिषः । रिश हिम्सायाम् । क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मक्षू मक्षू । नित्यवीप्सयोरिति द्विर्वचनम् । सम्हितायामृचि तनुघमक्शुतङ्गिति दीर्घः ॥ २० ॥

3.31.21
अदे᳚दिष्ट वृत्र॒हा गोप᳚ति॒र्गा अ॒न्तः कृ॒ष्णा{4} अ᳚रु॒षैर्धाम᳚भिर्गात् ।
प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर᳚श्च॒ विश्वा᳚ अवृणो॒दप॒ स्वाः ॥
▶ पदपाठः (Word-by-word)
अदे᳚दिष्ट । वृ॒त्र॒॑हा । गो॑प᳚तिः । गाः । अ॒न्तरिति᳚ । कृ॒ष्णान् । अ॒रु॒षैः । धाम᳚॑भिः । गा॒त् ।
प्र । सू॒नृताः᳚ । दि॒शमा᳚नः । ऋ॒तेन᳚ । दुरः᳚ । च॒ । विश्वाः᳚ । अ॒वृ॒णो॒त् । अप᳚ । स्वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहा वृत्रस्य हन्ता गोपतिर्गवां स्वामी सन्निन्द्रो गा अदेदिष्ट । अस्मभ्यं दिशतु । तथा कृष्णान् कर्मविघ्नकारिणोऽसुरानरुषैरारोचमानैर्धामभिस्तेजोभिरन्तरन्तर्धानं विनाशं गात् । गमयतु । तथा सूनृताः प्रियतमा गा ऋतेन प्रतारणवर्जितेन सत्येन वाक्येन प्रदिशमानोऽङ्गिरोभ्यः प्रदिशन्निन्द्रो विश्वाः सर्वाणि दुरो गवां स्वेच्छया निर्गमनद्वाराणि स्वाः स्वकीया गाश्चापावृणोत् । व्रजे गाः स्थापियित्वा तानि द्वाराण्याच्छादितवानित्यर्थः ॥ अदेदिष्ट । दित अतिसर्जन इत्यस्माद्यङ्लुङिलङि व्यत्ययेनात्मनेपदम् । अडागमस्वरः । गोपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः । गात् । इण् गतौ । अन्तर्भावितण्यर्थः । दिशमान । दिशेर्व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे शस्वरः । आवृणोत् । वृञ् वरण इत्यस्य लङि रूपम् ॥ २१ ॥

3.31.22
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जलक्ष्मीमनेन योद्धार इति भरः । सङ्ग्रामः । तस्मिन्सङ्गामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नैतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयंकरं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रो पलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसंतं धनानां शत्रुसम्बन्धिना सञ्चितं समग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । धरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । भौव्रीहौ पूर्वपदस्वरः । समत्सु । आद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिम्साअगत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ २२ ॥