श्रवणम्

3.31.18
पति᳚र्भव वृत्रहन्त्सू॒नृता᳚नां गि॒रां वि॒श्वायु᳚र्वृष॒भो व᳚यो॒धाः ।
आ नो᳚ गहि स॒ख्येभि᳚ः शि॒वेभि᳚र्म॒हान्म॒हीभि᳚रू॒तिभि᳚ः सर॒ण्यन् ॥
▶ पदपाठः (Word-by-word)
पतिः᳚ । भ॒व॒ । वृ॒त्र॒॑ह॒न् । सू॒नृता᳚नाम् । गि॒राम् । वि॒श्व॑आ᳚युः । वृ॒ष॒भः । व॒यः॒॑धाः ।
आ । नः॒ । ग॒हि॒ । स॒ख्येभिः᳚ । शि॒वेभिः᳚ । म॒हान् । म॒हीभिः᳚ । ऊ॒ति॑भिः᳚ । स॒र॒ण्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्निन्द्र विश्वायुः विश्वं सम्पूर्णमायुर्यस्यासौ विश्वायुः । अविनाशी वृषभः कामानां वर्षिता वयोधा अन्नस्य दाता तादृशस्त्वं सूनृतानां गिरामस्माभिः क्रियमाणानां प्रियतमानां वाचां पतिः स्वामी भव । तथा सरण्यन् सरण यज्ञार्थं गमनमिच्छन् महान्महीभिर्महतीभिरूतिभी रक्षाभिः शिवेभिः कल्याणैः सख्येभिः फलप्रदानरूपोपकारलक्षणैः सख्यैश्चसहितस्त्वं नोऽस्मान्प्रत्यागहि । यज्ञार्थमागच्छ । सून्रतानाम् । ऊन परिहाणे । सुतरामूनयत्यप्रियमिति सूनिति प्रियमुच्यते । तच्च तदृतं सत्यं चेति सूनृतम् । परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । वयोधाः । वयस्युपपदे दधातेर्विच् । गहि । गमेर्लोटि बहुलं छन्दसीति शपो लुक् । सेर्हिरादेशः । अपिच्च । तस्य ङित्त्वादनुदात्तोपदेशेत्यादिना मलोपः । तस्यासिद्धत्वादतो हेरिति होर्लुक् न भवति । निघातः । सरण्यन् । सरण शब्दात्क्यच् । एकादेशस्वरः ॥ १८ ॥