इन्द्रो॒ नृभि᳚रजन॒द्दीद्या᳚नः सा॒कं सूर्य᳚मु॒षसं᳚ गा॒तुम॒ग्निम् ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । नृ॑भिः᳚ । अ॒ज॒न॒त् । दीद्या᳚नः । सा॒कम् । सूर्य᳚म् । उ॒षस᳚म् । गा॒तुम् । अ॒ग्निम् ॥
सायणभाष्यम् (Sayana Commentary)
योऽयमिन्द्रो महि महत् क्षेत्रं केदारादि पुरु प्रभूतं चन्द्रं हिरण्यं च विविद्वान् आर्थिभ्यः सखिभ्योऽस्मभ्यं लंभयन् । आदित् अनन्तरं चरथं चरात्मकं गवादिकं च समैरत् सम्यक् प्रैरयत् । दत्तवानित्यर्थः । दीद्यानो दीप्यमानः सोऽयमिन्द्रो नैभिर्नेतृभिः कर्मसहायभूतैर्मरुद्भिः साकं सहितः सन् सूर्यं कालस्य निर्वाहकमादित्यं उषसमुषः कालं गातुम् । गायन्ति स्तुवन्त्यस्यामिन्द्रादिदेवानिति गातुः पृघिवी । ताम् । अग्निमग्निहोत्रादिकर्मसाधनभूतमावहनीयादिलक्षणमग्निं जाजनत् । अजनयत् । पुरु चन्द्र । संहितायां ह्रस्राच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः । तस्य श्चुत्वेन शकारः । पदकाले नास्ति सुडागमः पुरु । कुप्रत्ययस्वरः । चन्द्रम् । रक् । प्रत्ययस्वरः चरथं चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । प्रत्ययस्वरः । ऐरत् । ईर गतावित्यस्य लङि आडजादीनामित्याडागमः । निघातः । अजनत् । जनेर्ण्यन्तस्य लङि रूपम् । बहुलमन्यत्रापि संज्ञाच्छन्दसोरिति णिलुक् । गातुम् । गृ शब्दे । गापायाहिभ्य इति तुप्रत्ययः । प्रत्ययस्वरः ॥ १५ ॥