श्रवणम्

3.31.4
अ॒भि जैत्री᳚रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम᳚सो॒ निर᳚जानन् ।
तं जा᳚न॒तीः प्रत्युदा᳚यन्नु॒षास॒ः पति॒र्गवा᳚मभव॒देक॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । जैत्रीः᳚ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि᳚ । ज्योतिः᳚ । तम᳚सः । निः । अ॒जा॒न॒न् ।
तम् । जा॒न॒तीः । प्रति᳚ । उत् । आ॒य॒न् । उ॒षसः᳚ । पतिः᳚ । गवा᳚म् । अ॒भ॒व॒त् । एकः᳚ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जैत्रीर्जित्वर्यो विशो मरुतः स्पृधानं वृत्रेण सह स्पर्धमानमिन्द्रमभ्यसचन्त । सर्वतः समगच्छन् । ते च मरुतस्तस्मिन्वृत्रे हते महि महत् ज्योतिः सूर्याख्यं तेजस्तमसस्तमोरूपाद्बृत्रान्निरजानन् । निर्गतमज्ञासिषुः । तत इन्द्रं वृत्रहन्तारमुदितं सूर्यं जानतीर्जानाना उषसस्तं प्रत्युत् अभिलक्ष्यैव आयन् प्राप्नुवन् । अथ तत्रोद्भूतानां गवां रश्मीनामेकोऽद्वितीय एवेन्द्रः पतिरभवत् । जैत्रीः । जयतेस्तृनि रूपम् । गुणस्य स्थाने व्यत्ययेन वृद्धिः । नित्स्वरः । असचन्त । षच समवाय इत्यस्य लङि रूपम् । स्पृधानम् । स्पर्ध सङ्घर्षे । छन्दसि कानजादेशः । छन्दसि द्विर्वचनस्य विकल्पितत्वाद्द्विर्वचनाभावः । चित्स्वरः । अजानन् । ज्ञा अवबोहन इत्यस्य लङि रूपम् । निघातः । आयन् । अय प गतावित्यस्य लङि रूपं ॥ ४ ॥