परि॒ यत्ते᳚ महि॒मानं᳚ वृ॒जध्यै॒ सखा᳚य इन्द्र॒ काम्या᳚ ऋजि॒प्याः ॥
पदपाठः (Word-by-word)
परि᳚ । यत् । ते॒ । म॒हि॒मान᳚म् । वृ॒जध्यै᳚ । सखा᳚यः । इ॒न्द्र॒ । काम्याः᳚ । ऋ॒जि॒प्याः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र सूर्यस्य सुष्ठु जगतः प्रेरकस्य तव मंहना महत्त्वेन सामर्थ्येन वसुधिती वस्तव्यपदार्थधारणोपेते यजत्रे यजनार्हे ते उभे कृश्णे अहोरात्रे अनु जिहाते । पुनः पुनरावृत्य वर्तेते । किञ्च । ऋजिप्या ऋजुगतयः सखायस्ते मित्रभूताः काम्याः कमनीया मरुतो वृभध्यै । कर्मविघ्नकारिणामसुराणां वर्जनाय परिभवाय । यद्यस्य ते तव महिमानं सामर्थ्यमनुसृत्य परि परितः प्रभवन्ति ॥ जिहाते । ओहाङ् गतौ । जुहोत्यादिः । भृञामिदित्यभ्यासस्येत्वम् । निघातः । मंहना । महि वृद्धौ । ल्युट् । लित्स्वरः । वृजध्यै । वृजी वर्जने । तुमर्थे कध्यैप्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । काम्याः । कमेण्यन्तस्याचो यदिति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वम् । ऋजप्याः । ओप्यायी वृद्धौ । क्विप् । लोपोऽव्योर्वलीति यलोपः । पूर्वपदस्योकारस्येकारो व्यत्ययेन । बहुवचनस्यैकवचनं छान्दसम् । कृदुत्तरपदप्रकृतिस्वरः ॥ १७ ॥