इ॒दं चि॒न्नु सद᳚नं॒ भूर्ये᳚षां॒ येन॒ मासा{4}॒ असि᳚षासन्नृ॒तेन᳚ ॥
पदपाठः (Word-by-word)
इ॒दम् । चि॒त् । नु । सद᳚नम् । भूरि᳚ । ए॒षा॒म् । येन᳚ । मासा᳚न् । असि᳚सासन् । ऋ॒तेन᳚ ॥
सायणभाष्यम् (Sayana Commentary)
गव्यता गा इच्छता मनसा युक्ता अर्कैरर्चनीयैः स्तोत्रैरमृतत्वाय देवत्वप्राप्त्यर्थं गातुम् । गच्छन्त्यनेनेति गातुर्मार्गः । अमृतत्वप्राप्त्युपाय भूतं मार्गं कृण्वानासः कुर्वाणास्तेऽङ्गिरसो निषेदुः । सत्राख्ये कर्मण्यासीदन् । एषामङ्गिरसामिदं चित्सदनं इदमेव सत्राख्ये कर्मण्यासदनं भुरि नु । प्रभूतम् । अमृतत्वप्राप्त्यर्थं महानुपायः खलु । कुत इत्यत आह । ऋतेन सत्यभूतेन येन सत्रकर्मणा तेऽङ्गिरसो मासानभिप्लवपृष्ट्यषडहैः कल्पितान् मासान् असिसासन् । सम्भक्तुमैच्छन् ॥ गव्यता । गोशब्दात् क्यचि रूपम् । वान्तो यि प्रत्यय इति वान्तादेशः । एकादेशस्वरः । सेमः । सदेर्लिटि अत एकहल्मध्येऽनादेशादेर्लिटीत्येत्वाभासलोपौ । निघातः । कृण्वानासः । कृवि हिम्सा करणयोरित्यस्य ताच्छिलिकश्चानश् । धिन्विकृण्व्योरच्छेत्युप्रत्ययः । चित्स्वरः । गातुम् । गाङ् गतौ । कमिमनिजनिगाभापायाहिभ्य इति करणे तु प्रत्ययः । प्रत्ययस्वरः । असिषासन् । षण सम्भक्तावित्यस्य सनि जनसनखनां सन्झलोरित्यात्वम् । आभ्यासस्य सन्यत इतीत्वम् । सनोतेरन इति सम्हितायां षत्वम् । तदन्ताल्लङि रूपम् । यद्वृत्तयोगादनिघातः ॥ ९ ॥