श्रवणम्

3.31.8
स॒तःस᳚तः प्रति॒मानं᳚ पुरो॒भूर्विश्वा᳚ वेद॒ जनि᳚मा॒ हन्ति॒ शुष्ण᳚म् ।
प्र णो᳚ दि॒वः प᳚द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखी{4}᳚रमुञ्च॒न्निर᳚व॒द्यात् ॥
▶ पदपाठः (Word-by-word)
स॒तः॑स᳚तः । प्र॒ति॒॑मान᳚म् । पु॒रः॒॑भूः । विश्वा᳚ । वे॒द॒ । जनि᳚म । हन्ति᳚ । शुष्ण᳚म् ।
प्र । नः॒ । दि॒वः । प॒द॒॑वीः । ग॒व्युः । अर्च᳚न् । सखा᳚ । सखी᳚न् । अ॒मु॒ञ्च॒त् । निः । अ॒व॒द्यात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयमिन्द्रः सतः सत उत्तमस्य वस्तुनः प्रतिमानम् । प्रतिमीयत उपमीयतेऽनेन सर्वमिति प्रतिमानं प्रतिनिधिः यद्वा सतः सतो जातस्य सर्वस्य प्रतिमानं स्वस्य महत्त्वेन प्रतिमातीयत्तया सर्वं परिच्छिनत्तीत्यर्थः । पुरोभूर्युद्धे पुरतः शत्रूनवाप्नोतीति पुरोभूश्च विश्वा जनिम सर्वाणि जातानि वेद जानाति शुष्णं शुष्णनामानमसुरं हन्ति । पदवीः कवितमो गव्युर्गोधनमङ्गिरसामिच्छन् अस्माकं सुखेन्द्रः सखीन्नोस्मान् दिवो म्यलोकादागत्य प्रार्चन् प्रकर्षेण पूजयन् अवद्याद्पृत्रबाधरूपाद्दोषान्निरमुञ्चत् । नितरां मुञ्चतु । प्रतिमानम् । मातीति मानम् । औणादिको नन्प्रत्ययः । यद्वा करणे ल्युट् । पुरोभूः भू प्राप्तौ क्विप् । वेद । वेत्तेर्लिटि रूपम् । जनिम जनी प्रादुर्भावे जनिहृभ्यामिमनिन्नितीमनिन्प्रत्ययः । भूतकाले जातानीति जनिम । सुपां सुलुगिति सुपो लुक् । नित्स्वरः हन्ति । हन्तेर्लटि रूपम् । वाक्यभेदादनिघातः । शुष्णं शोषयतीति शुष्ण प्रणम् । उपसर्गाद्बहुलमिति सम्हितायां णत्वम् । पदवीः । वी कान्त्यादिषु । क्विप् पदानि वेत्ति परस्परसङ्गतानि करोतिति पदवीः कविः । गव्युः । गोशब्दात्परेच्छायां छन्दसीति क्यच् । वान्तो यि प्रत्यय इति वान्तादेशः । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । अर्चन् । अर्चतेः शतरि रूपम् । सखीन् । सम्हितायां नकारस्य दीर्घादटीति रुः । पूर्वस्य वर्णस्य अत्रानुनासिक इत्यनुनासिकादेशः । अमुञ्चत् । मुच्लृ मोक्षण इत्यस्य लङे ते मुचादीनामिति नुमागमः । निघातः । अवद्यात् । वद व्यक्तायां वाचीत्यस्य नञ्पूर्वस्य गर्ह्यार्थेऽवद्यपण्यवर्या इति निपातनात् । पा. ३-१-१०१ । यत्प्रत्ययः ॥ ८ ॥