श्रवणम्

3.31.6
वि॒दद्यदी᳚ स॒रमा᳚ रु॒ग्णमद्रे॒र्महि॒ पाथः᳚ पू॒र्व्यं स॒ध्र्य᳚क्कः ।
अग्रं᳚ नयत्सु॒पद्यक्ष᳚राणा॒मच्छा॒ रवं᳚ प्रथ॒मा जा᳚न॒ती गा᳚त् ॥
▶ पदपाठः (Word-by-word)
वि॒दत् । यदि᳚ । स॒रमा᳚ । रु॒ग्णम् । अद्रेः᳚ । महि᳚ । पाथः᳚ । पू॒र्व्यम् । स॒ध्र्य᳚क् । क॒रिति᳚ कः ।
अग्र᳚म् । न॒य॒त् । सु॒॑पदी᳚ । अक्ष᳚राणाम् । अच्छ᳚ । रव᳚म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदि यदा सरमेन्द्रेण गवान्वेषनार्थं प्रेषिता सरमा नाम देवशुन्यद्रेरुग्णं भग्नं द्वारं विदत् अलभत तदानीमिन्द्रो महि महत्पूर्व्यं पूर्वं प्रेषण कालेऽन्नादिनीं ते प्रजां करिष्यामीति प्रतिज्ञातं सध्र्यक् इतरैरपि भोज्यैः सद्रीचीनं पाथो गव्यादिलक्षणमन्नं कः । अकार्षीत् । तस्मै दत्तवान् । ततः सुपदी शोभनपादयुक्ता सा सरमाक्षराणां क्षयरहितानां गवामग्रं प्रान्तं नयत् । प्राप्नोत् । कुत इत्यत आह । यतो रवं तेषां हंभारवं प्रथमा प्रथमं जानती सती अच्छ शब्दाभिमुख्येन गात् । जगाम । विदत् । व्द्लृ लाभ इत्यस्य लुङि लृदित्त्वात् च्लेरङादेशः । तस्य स्वरः । सरमा । सृ गतौ । औणादिकोऽमप्रत्ययः । सरतीति । सरमा सरणादिति यास्कः । प्रत्ययस्वरः । रुग्णम् । रुजो भङ्ग इत्यस्य निश्ठायामोदितश्चेति नत्वम् । प्रत्ययस्वरः । पाथः । पा रक्षणे । अन्ने च । उ. ४-२०४ । इत्यसुन्प्रत्ययः । थुडागमः । पातीति पाथोऽन्नम् । नित्स्वरः । सध्र्यक् । अञ्चु गतिपूजनयोः । ऋत्विगित्यादिना क्विन् । सहाञ्चतिति । सहस्य सध्रिति सध्र्यादेशः । क्विन्प्रत्ययस्य कुत्वम् । अद्रि सध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थमिति सध्रि इत्यादेशोऽन्तोदात्तः । यणादेशे कृत उदात्तस्वरितयोर्यणः स्वरित इति यणः स्वरितत्वम् । कः । करोतेर्लुङि सिपि च्लेर्मन्त्रे घसह्वरेत्यादिना लुक् । गुणे कृते हल्ण्यादिना सिपो लोपः । विसर्जनीयः । निघातः नयत् । नयतेर्लङि रूपम् । सुपदी । पादोऽन्यतरस्याम् । पा. ४-१-८ । इति ङीप् । गात् । इणो लुङि रूपम् ॥ ६ ॥