अदे᳚दिष्ट वृत्र॒हा गोप᳚ति॒र्गा अ॒न्तः कृ॒ष्णा{4} अ᳚रु॒षैर्धाम᳚भिर्गात् ।
प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर᳚श्च॒ विश्वा᳚ अवृणो॒दप॒ स्वाः ॥
प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर᳚श्च॒ विश्वा᳚ अवृणो॒दप॒ स्वाः ॥
पदपाठः (Word-by-word)
अदे᳚दिष्ट । वृ॒त्र॒॑हा । गो॑प᳚तिः । गाः । अ॒न्तरिति᳚ । कृ॒ष्णान् । अ॒रु॒षैः । धाम᳚॑भिः । गा॒त् ।
प्र । सू॒नृताः᳚ । दि॒शमा᳚नः । ऋ॒तेन᳚ । दुरः᳚ । च॒ । विश्वाः᳚ । अ॒वृ॒णो॒त् । अप᳚ । स्वाः ॥
प्र । सू॒नृताः᳚ । दि॒शमा᳚नः । ऋ॒तेन᳚ । दुरः᳚ । च॒ । विश्वाः᳚ । अ॒वृ॒णो॒त् । अप᳚ । स्वाः ॥
सायणभाष्यम् (Sayana Commentary)
वृत्रहा वृत्रस्य हन्ता गोपतिर्गवां स्वामी सन्निन्द्रो गा अदेदिष्ट । अस्मभ्यं दिशतु । तथा कृष्णान् कर्मविघ्नकारिणोऽसुरानरुषैरारोचमानैर्धामभिस्तेजोभिरन्तरन्तर्धानं विनाशं गात् । गमयतु । तथा सूनृताः प्रियतमा गा ऋतेन प्रतारणवर्जितेन सत्येन वाक्येन प्रदिशमानोऽङ्गिरोभ्यः प्रदिशन्निन्द्रो विश्वाः सर्वाणि दुरो गवां स्वेच्छया निर्गमनद्वाराणि स्वाः स्वकीया गाश्चापावृणोत् । व्रजे गाः स्थापियित्वा तानि द्वाराण्याच्छादितवानित्यर्थः ॥ अदेदिष्ट । दित अतिसर्जन इत्यस्माद्यङ्लुङिलङि व्यत्ययेनात्मनेपदम् । अडागमस्वरः । गोपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः । गात् । इण् गतौ । अन्तर्भावितण्यर्थः । दिशमान । दिशेर्व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे शस्वरः । आवृणोत् । वृञ् वरण इत्यस्य लङि रूपम् ॥ २१ ॥