तृतीयं मण्डलम् - सूक्तम् 2

15 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: वैश्वानरोग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.2 - सम्पूर्णम्

1 / 15
ऋक्: 3.2.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
3.2.1
वै॒श्वा॒न॒राय᳚ धि॒षणा᳚मृता॒वृधे᳚ घृ॒तं न पू॒तम॒ग्नये᳚ जनामसि ।
द्वि॒ता होता᳚रं॒ मनु᳚षश्च वा॒घतो᳚ धि॒या रथं॒ न कुलि᳚श॒ः समृ᳚ण्वति ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒राय᳚ । धि॒षणा᳚म् । ऋ॒त॒॑वृधे᳚ । घृ॒तम् । न । पू॒तम् । अ॒ग्नये᳚ । ज॒ना॒म॒सि॒ ।
द्वि॒ता । होता᳚रम् । मनु᳚षः । च॒ । वा॒घतः᳚ । धि॒या । रथ᳚म् । न । कुलि᳚शः । सम् । ऋ॒ण्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतवृधे ऋतस्योदकस्य यज्ञस्यवावर्धयित्रेवैश्वानराय वैश्वानरशब्दोयास्केनव्याख्यातः—वैश्व नरः कस्माद्विश्वान्नरान्नयतिविश्वएवंनरानयंतीतिवाअपिवाविश्वानरएवस्यात् प्रत्यृतः सर्वाणिभूता नितस्यवैश्वानरस्तस्यैषाभवतीति । तस्मैअग्नये पूतघृतंन घृतमिव धिषणांस्तुतिंजनामसिजनया मः यथाघृतंप्रीतिंजनयति तथाप्रीतिंकरोमीत्यर्थः द्विताद्विधागार्हपत्याहवनीयरूपाभ्यांयुक्तं होता रंदेवानामाह्वातारमग्निंमनुषः मनुष्याः वाघतश्चऋत्विजश्च धियाकर्मणाकुलिशोवास्यादिः रथंन रथमिव समृण्वतिसंस्कुर्वन्ति ॥ १ ॥

3.2.2
स रो᳚चयज्ज॒नुषा॒ रोद᳚सी उ॒भे स मा॒त्रोर᳚भवत्पु॒त्र ईड्य᳚ः ।
ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो दू॒ळभो᳚ वि॒शामति᳚थिर्वि॒भाव᳚सुः ॥
▶ पदपाठः (Word-by-word)
सः । रो॒च॒य॒त् । ज॒नुषा᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । सः । मा॒त्रोः । अ॒भ॒व॒त् । पु॒त्रः । ईड्यः᳚ ।
ह॒व्य॒॑वाट् । अ॒ग्निः । अ॒जरः᳚ । चनः᳚॑हितः । दुः॒॑दभः᳚ । वि॒शाम् । अति᳚थिः । वि॒भा॑व᳚सुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोग्निर्जनुषा जन्मनाउभेरोदसी द्यावापृथिव्यौ रोचयत् अरोचयत् प्रकाशयति समात्रोर्द्या वापृथिव्योः ईड्यः स्तुत्यः पुत्रोभवत् हव्यवाट् हव्यानां वोढा अग्निः अङ्गनादिगुणयुक्तः अजरः जरारहितः चनोहितः चनोन्नंहितंयजमानेनिहितंयेनासौचनोहितः दूळभः हिंसितुम शक्यः सोयंविभावसुः प्रभाधनः विशांमनुष्याणां अतिथिरिवपूज्योभवति ॥ २ ॥

3.2.3
क्रत्वा॒ दक्ष᳚स्य॒ तरु᳚षो॒ विध᳚र्मणि दे॒वासो᳚ अ॒ग्निं ज᳚नयन्त॒ चित्ति᳚भिः ।
रु॒रु॒चा॒नं भा॒नुना॒ ज्योति᳚षा म॒हामत्यं॒ न वाजं᳚ सनि॒ष्यन्नुप᳚ ब्रुवे ॥
▶ पदपाठः (Word-by-word)
क्रत्वा᳚ । दक्ष᳚स्य । तरु᳚षः । वि॑ध᳚र्मणि । दे॒वासः᳚ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । चित्ति᳚॑भिः ।
रु॒रु॒चा॒नम् । भा॒नुना᳚ । ज्योति᳚षा । म॒हाम् । अत्य᳚म् । न । वाज᳚म् । स॒नि॒ष्यन् । उप᳚ । ब्रु॒वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चित्तिभिर्ज्ञानैः उपलक्षितादेवासः देवाः तरुषः व्यसनेभ्यस्तारकस्यदक्षस्यबलस्य क्रत्वाकर्म णा विधर्मणि विधारकेयज्ञे अग्निंजनयन्त अजनयन् भानुनाभासमानेन ज्योतिषारुरुचानं रोच मानं महां महान्तं अग्निंअत्यंन भारसहमश्वमिव वाजमन्नं सनिष्यन् लिप्समानोहं उपब्रुवे स्तौमि ॥ ३ ॥

3.2.4 समानपद
आ म॒न्द्रस्य᳚ सनि॒ष्यन्तो॒ वरे᳚ण्यं वृणी॒महे॒ अह्र᳚यं॒ वाज᳚मृ॒ग्मिय᳚म् ।
रा॒तिं भृगू᳚णामु॒शिजं᳚ क॒विक्र᳚तुम॒ग्निं राज᳚न्तं दि॒व्येन᳚ शो॒चिषा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । म॒न्द्रस्य᳚ । स॒नि॒ष्यन्तः᳚ । वरे᳚ण्यम् । वृ॒णी॒महे᳚ । अह्र᳚यम् । वाज᳚म् । ऋ॒ग्मिय᳚म् ।
रा॒तिम् । भृगू᳚णाम् । उ॒शिज᳚म् । क॒वि॑क्र᳚तुम् । अ॒ग्निम् । राज᳚न्तम् । दि॒व्येन᳚ । शो॒चिषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्द्रस्यस्तुत्यस्य वैश्वानरस्य संबन्धिनंवरेण्यंवरणीयं अह्रयंअलज्जावहं ऋग्मियंप्रशस्यं वाज मन्नं सनिष्यन्तः लिप्समानावयं भृगूणांऋषीणां रातिं अभिलषितार्थप्रदातारं उशिजं आभिल ष्यं तं कविक्रतुंक्रान्तप्रज्ञं दिव्येनदिविभवेन शोचिषारोचिषा राजन्तंभ्राजमानमग्निंआवृणीमहे संभजामहे ॥ ४ ॥

3.2.5
अ॒ग्निं सु॒म्नाय᳚ दधिरे पु॒रो जना॒ वाज᳚श्रवसमि॒ह वृ॒क्तब᳚र्हिषः ।
य॒तस्रु᳚चः सु॒रुचं᳚ वि॒श्वदे᳚व्यं रु॒द्रं य॒ज्ञानां॒ साध᳚दिष्टिम॒पसा᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । सु॒म्नाय᳚ । द॒धि॒रे॒ । पु॒रः । जनाः᳚ । वाज᳚॑श्रवसम् । इ॒ह । वृ॒क्त॑ब᳚र्हिषः ।
य॒त॑स्रु᳚चः । सु॒॑रुच᳚म् । वि॒श्व॑दे᳚व्यम् । रु॒द्रम् । य॒ज्ञाना᳚म् । साध᳚त्॑इष्टिम् । अ॒पसा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृक्तबर्हिषः स्तीर्णबर्हिषः यतस्रुचःप्राप्तस्रुचः ऋत्विजः सुम्नायसुखार्थं वाजश्रवसंमनुष्येभ्यः प्रेरितान्नं सुरुचं प्रशस्तदीप्तिमन्तं विश्वदेव्यं विश्वेभ्योदेवेभ्योहितं रुद्रंदुःखानांद्रावकं अपसांकर्म वतांयज्ञानां यजन्तीतियज्ञायजमानाः तेषां साधदिष्टिं साधितयज्ञं तादृशमग्निं इहयज्ञे जनाः स्तोतारः पुरोदधिरे स्तुवन्ति ॥ ५ ॥

3.2.6 समानपद
पाव᳚कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत᳚र्य॒ज्ञेषु᳚ वृ॒क्तब᳚र्हिषो॒ नरः᳚ ।
अग्ने॒ दुव᳚ इ॒च्छमा᳚नास॒ आप्य॒मुपा᳚सते॒ द्रवि᳚णं धेहि॒ तेभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
पाव᳚क॑शोचे । तव᳚ । हि । क्षय᳚म् । परि᳚ । होतः᳚ । य॒ज्ञेषु᳚ । वृ॒क्त॑ब᳚र्हिषः । नरः᳚ ।
अग्ने᳚ । दुवः᳚ । इ॒च्छमा᳚नासः । आप्य᳚म् । उप᳚ । आ॒स॒ते॒ । द्रवि᳚णम् । धे॒हि॒ । तेभ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपावकशोचे शोधकदीप्ते हेहोतः देवानामाह्वातः हेअग्ने यज्ञेषुपरिपरितः व्रुक्तबर्हिषः स्तीर्णबर्हिषः दुवःपरिचरणमिच्छमानासः इच्छन्तोनरोनेतारोयजमानाः आप्यं आप्तुंयोग्यं तवत्वत्संबन्धिनंक्षयं निवासं यागगृहं उपासते उपविशति हियस्मात् तेभ्योद्रविणंधनंधेहि विधेहि ॥ ६ ॥

3.2.7
आ रोद᳚सी अपृण॒दा स्व᳚र्म॒हज्जा॒तं यदे᳚नम॒पसो॒ अधा᳚रयन् ।
सो अ᳚ध्व॒राय॒ परि᳚ णीयते क॒विरत्यो॒ न वाज᳚सातये॒ चनो᳚हितः ॥
▶ पदपाठः (Word-by-word)
आ । रोद᳚सी॒ इति᳚ । अ॒पृ॒ण॒त् । आ । स्वः᳚ । म॒हत् । जा॒तम् । यत् । ए॒न॒म् । अ॒पसः᳚ । अधा᳚रयन् ।
सः । अ॒ध्व॒राय᳚ । परि᳚ । नी॒य॒ते॒ । क॒विः । अत्यः᳚ । न । वाज᳚॑सातये । चनः᳚॑हितः ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोदसी द्यावापृथिव्यौ आपृणात् आपूरयत् तथामहत्प्रभूतंस्वः अन्तरिक्षं आपृणच्च अपसः कर्मवन्तोयजमानाः जातंयत् यंएनमग्निं अधारयन् अत्योन अश्वइव कविःक्रान्तः सर्वत्रव्याप्तः चनोहितः निहितान्नः सोयमग्निः वाजसातये वाजस्य अन्नस्यकीर्तेर्वासातये लाभाय अध्वराय परिणीयते यज्ञार्थंनीयते ॥ ७ ॥

3.2.8
न॒म॒स्यत᳚ ह॒व्यदा᳚तिं स्वध्व॒रं दु᳚व॒स्यत॒ दम्यं᳚ जा॒तवे᳚दसम् ।
र॒थीरृ॒तस्य᳚ बृह॒तो विच᳚र्षणिर॒ग्निर्दे॒वाना᳚मभवत्पु॒रोहि᳚तः ॥
▶ पदपाठः (Word-by-word)
न॒म॒स्यत᳚ । ह॒व्य॑दा᳚तिम् । सु॒॑अ॒ध्व॒रम् । दु॒व॒स्यत᳚ । दभ्य᳚म् । जा॒त॑वे᳚दसम् ।
र॒थीः । ऋ॒तस्य᳚ । बृ॒ह॒तः । वि॑च᳚र्षणिः । अ॒ग्निः । दे॒वाना᳚म् । अ॒भ॒व॒त् । पु॒रः॑हि᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथीर्नेताबृहतोमहतः ऋतस्ययज्ञस्यविचर्षणिः द्रष्टायोग्निः देवानांपुरोहितः पुरस्ताद्द्रष्टव्यतया स्थापितोभवत् हव्यदातिं देवेभ्योहविषांदातारं स्वध्वरं शोभनयज्ञं दम्यं दमेभ्योगृहेभ्य़ोहितं जातवेदसं जातप्रज्ञं तमग्निं नमस्यतपूजयत दुवस्यतपरिचरत ॥ ८ ॥

3.2.9
ति॒स्रो य॒ह्वस्य᳚ स॒मिध॒ः परि᳚ज्मनो॒॑ग्नेर᳚पुनन्नु॒शिजो॒ अमृ᳚त्यवः ।
तासा॒मेका॒मद᳚धु॒र्मर्त्ये॒ भुज᳚मु लो॒कमु॒ द्वे उप᳚ जा॒मिमी᳚यतुः ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । य॒ह्वस्य᳚ । स॒म्॑इधः᳚ । परि᳚॑ज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः᳚ । अमृ᳚त्यवः ।
तासा᳚म् । एका᳚म् । अद᳚धुः । मर्त्ये᳚ । भुज᳚म् । ऊं॒ इति᳚ । लो॒कम् । ऊं॒ इति᳚ । द्वे इति᳚ । उप᳚ । जा॒मिम् । ई॒य॒तुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिजः कामयमानाः अमृत्यवोमृत्युरहिताः येदेवाः यह्वस्यमहतः अग्नेः परिज्मनः परि तोगन्तुः समिधः समिन्धिकाः प्रकाशिकास्तिस्रः पार्थिववैद्युतसूर्यरूपास्तिस्रस्तनूः अपुनन् अशो धयन् तेदेवाः भुजंसर्वेषांपालयित्रीं तासांतनूनांमध्ये एकांपार्थिवींतनुं मर्त्येमर्त्यलोके अदधुः न्यदधुः उइतिपादपूरणः इतरेद्वेतनू जामिंलोकं आसन्नमन्तरिक्षं उपेयतुः गच्छतः अथवातिस्रः समिधः आधारसमिधौद्वेअनूयाजसमिच्चैकेति तासांसमिधांएकां अनूयाजसमिधं मर्त्येइहलोके भोगहेतुमनूयाजपर्यन्तमदधुः धारयन्ति प्रजावाअनूयाजइति प्रजात्वेनानूयाजानांस्रष्टृत्वात् तदा श्रयत्वाच्चानूयाजसमिधः इतरेद्वेसमिधौ अन्तरिक्षेदिव्यभोगहेतू उपेयतुः उपगच्छतः त्रीन् परिधीं स्तिस्रः समिधइतिहिनिगमः ॥ ९ ॥

3.2.10
वि॒शां क॒विं वि॒श्पतिं॒ मानु᳚षी॒रिष॒ः सं सी᳚मकृण्व॒न्त्स्वधि᳚तिं॒ न तेज᳚से ।
स उ॒द्वतो᳚ नि॒वतो᳚ याति॒ वेवि᳚ष॒त्स गर्भ᳚मे॒षु भुव᳚नेषु दीधरत् ॥
▶ पदपाठः (Word-by-word)
वि॒शाम् । क॒विम् । वि॒श्पति᳚म् । मानु᳚षीः । इषः᳚ । सम् । सी॒म् । अ॒कृ॒ण्व॒न् । स्व॑धि᳚तिम् । न । तेज᳚से ।
सः । उ॒त्॑वतः᳚ । नि॒॑वतः᳚ । या॒ति॒ । वेवि᳚षत् । सः । गर्भ᳚म् । ए॒षु । भुव᳚नेषु । दी॒ध॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इषः पश्वादिलक्षणंधनमिच्छन्त्यः मानुषीः मनुष्यप्रजाः विशांप्रजानां विश्पतिंप्रभुंकविंमेधा विनं सर्वितंयमग्निं स्वधितिन असिमिव तेजसे तैक्ष्ण्यार्थं समकृण्वन् समस्कुर्वन् सोग्निः उद्वतः उच्छ्रायवतः निवतोनीचैर्भाववतश्चप्रदेशान् वेविषत् व्याप्नुवन् यातिगच्छति सएषुभुवनेषु गर्भंगर्भत्वेनात्मानंदीधरत् अधारयत् ॥ १० ॥

3.2.11
स जि᳚न्वते ज॒ठरे᳚षु प्रजज्ञि॒वान्वृषा᳚ चि॒त्रेषु॒ नान᳚द॒न्न सिं॒हः ।
वै॒श्वा॒न॒रः पृ᳚थु॒पाजा॒ अम᳚र्त्यो॒ वसु॒ रत्ना॒ दय᳚मानो॒ वि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
सः । जि॒न्व॒ते॒ । ज॒ठरे᳚षु । प्र॒ज॒ज्ञि॒॑वान् । वृषा᳚ । चि॒त्रेषु᳚ । नान᳚दत् । न । सिं॒हः ।
वै॒श्वा॒न॒रः । पृ॒थु॒॑पाजाः᳚ । अम᳚र्त्यः । वसु᳚ । रत्ना᳚ । दय᳚मानः । वि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रजज्ञिवान् जातः वृषावर्षकः सवैश्वानरः चित्रेषुनानाप्रकारेषु प्राणिनां भेदात् जठराणां भेदः तेषुजिन्वतेवर्धते चित्रेषुनानाविधेष्वरण्येषु नानदत् अत्यर्थं शब्दंकुर्वन् सिंहोन सिंहइव किंविधोवैश्वानरः पृथुपाजाः पृथुतेजाः अथवा पृथुवेगः अमर्त्यः मनणधर्मरहितः दाशुषेहवि षांप्रदात्रे यजमानाय रत्नारमणीयानि वसुवसूनि धनानि वि विशेषेण दयमानः प्रयच्छन् ॥ ११ ॥

3.2.12
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु᳚हद्दि॒वस्पृ॒ष्ठं भन्द᳚मानः सु॒मन्म᳚भिः ।
स पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒ धनं᳚ समा॒नमज्मं॒ पर्ये᳚ति॒ जागृ᳚विः ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒रः । प्र॒त्न॑था᳚ । नाक᳚म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द᳚मानः । सु॒मन्म᳚॑भिः ।
सः । पू॒र्व॒॑वत् । ज॒नय᳚न् । ज॒न्तवे᳚ । धन᳚म् । स॒मा॒नम् । अज्म᳚म् । परि᳚ । ए॒ति॒ । जागृ᳚विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुमन्मभिः स्तोतृभिः भन्दमानः स्तूयमानः वैश्वानरः जातमावएवप्रत्नथा प्रत्नइव चिरंतन इव नाकं कंसुखं अकंदुःखं नविद्यतेअकंयस्मिन् तत् नाकं दिवः अन्तरिक्षस्यपृष्ठं उपरितनप्रदेशं स्वशोचिभिः आरुहत् आरोहति सवैश्वानरः पूर्ववत् पूर्वेभ्यऋषिभ्यइव जन्तवे स्तोत्रेयजमानाय धनंपश्वादिलक्षणं जनयन् स्ंपादयन् जागृविःसदाप्रबुद्धः समानं सर्वेषां देवाणंसाधारणं अज्मं आकाशमार्गं पर्येति सूर्यरूपेणगच्छति ॥ १२ ॥

3.2.13
ऋ॒तावा᳚नं य॒ज्ञियं॒ विप्र᳚मु॒क्थ्य१॒᳚मा यं द॒धे मा᳚त॒रिश्वा᳚ दि॒वि क्षय᳚म् ।
तं चि॒त्रया᳚मं॒ हरि᳚केशमीमहे सुदी॒तिम॒ग्निं सु᳚वि॒ताय॒ नव्य᳚से ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚नम् । य॒ज्ञिय᳚म् । विप्र᳚म् । उ॒क्थ्य᳚म् । आ । यम् । द॒धे । मा॒त॒रिश्वा᳚ । दि॒वि । क्षय᳚म् ।
तम् । चि॒त्र॑या᳚मम् । हरि᳚॑केशम् । ई॒म॒हे॒ । सु॒॑दी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय᳚ । नव्य᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावानं बलवन्तं यज्ञियंयज्ञार्हं विप्रंमेधाविनं उक्थ्यं स्तुत्यं दिविद्युलोकेक्षयं निवसन्तं यमग्निं मातरिश्वावायुः द्युलोकादाहृत्यपृथिव्यां आदधे आहितवान् चित्रयानं नानाविधगमनं हरिकेशं पिंगलार्चिषं सुदीतिं शोभनदीप्तिंतमग्निं नव्यसेनवतराय सुविताय सुष्ठुप्राप्तव्यायध नाय तदर्थंईमहेयाचामहे ॥ १३ ॥

3.2.14 समानपद
शुचिं॒ न याम᳚न्निषि॒रं स्व॒र्दृशं᳚ के॒तुं दि॒वो रो᳚चन॒स्थामु᳚ष॒र्बुध᳚म् ।
अ॒ग्निं मू॒र्धानं᳚ दि॒वो अप्र᳚तिष्कुतं॒ तमी᳚महे॒ नम᳚सा वा॒जिनं᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
शुचि᳚म् । न । याम᳚न् । इ॒षि॒रम् । स्वः॒॑दृश᳚म् । के॒तुम् । दि॒वः । रो॒च॒न॒॑स्थाम् । उ॒षः॒॑बुध᳚म् ।
अ॒ग्निम् । मू॒र्धान᳚म् । दि॒वः । अप्र᳚ति॑स्कुतम् । तम् । ई॒म॒हे॒ । नम᳚सा । वा॒जिन᳚म् । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नेतिसंप्रत्यर्थे शुचिंदीप्तं यामन् यामनियज्ञे इषिरंएषणीयं स्वर्दृशंसर्वदृशंसर्वपदार्थविज्ञानयुक्तं दिवः द्युलोकस्यकेतुं प्रज्ञापकं रोचनस्थांरोचनस्थं रोचनःसूर्यः तस्मिन् तिष्ठन्तं उषर्बुधं अग्निहो त्रिकरूपेण उषसिप्रबुध्यमानं दिवःस्वर्गस्यमूर्धानंप्रधानं अप्रतिष्कुतंअप्रतिहतशब्दं वाजिनमन्न वन्तं बृहत् महान्तं तमग्निं नमसास्तोत्रेण ईमहेयाचामहे ॥ १४ ॥

3.2.15
म॒न्द्रं होता᳚रं॒ शुचि॒मद्व᳚याविनं॒ दमू᳚नसमु॒क्थ्यं᳚ वि॒श्वच᳚र्षणिम् ।
रथं॒ न चि॒त्रं वपु᳚षाय दर्श॒तं मनु᳚र्हितं॒ सद॒मिद्रा॒य ई᳚महे ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रम् । होता᳚रम् । शुचि᳚म् । अद्व᳚याविनम् । दमू᳚नसम् । उ॒क्थ्य᳚म् । वि॒श्व॑च᳚र्षणिम् ।
रथ᳚म् । न । चि॒त्रम् । वपु᳚षाय । द॒र्श॒तम् । मनुः᳚॑हितम् । सद᳚म् । इत् । रा॒यः । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्द्रं स्तुत्यंहोतारंदेवानामाह्वातारं शुचिंसर्वदाशुद्धं अद्वयाविनंद्वयहीनं अकुटिलं दमूनसंदा- नमनसं उक्थ्यंश्रेष्ठं विश्वचर्षणिंविश्वस्यद्रष्टारं चित्रं नानाविधवर्णं रथंन रथमिव वपुषाय रूपार्थं दर्शतंदर्शनीयं सदमित् सदैवमनुर्हितं सर्वेभ्योमनुष्येभ्योहितं तमग्निंरायोधनानिईमहेयाचामहे अत्रताच्चार्थत्वादस्यद्विकर्मकत्वम् ॥ १५ ॥

वैश्वानरायेत्येकादशर्चंतृतीयंसुक्तं वैश्वामित्रं अत्रेयमनुक्रमणिका—वैश्वानरायैकादशेति । पूर्व सूक्तेवैश्वानरीयंतुजागतंत्वित्युक्तत्वादस्यापिसूक्तस्यजगतीछन्दः वैश्वानरोग्निर्देवता अस्य सूक्तस्य अग्निष्टोमेआग्निमारुतशस्त्रेविनियोगः सूत्र्यतेहि—वैश्वानरायपृथुपाजसेशंनः—करत्यर्वतइति ।