श्रवणम्

3.2.14 समानपद
शुचिं॒ न याम᳚न्निषि॒रं स्व॒र्दृशं᳚ के॒तुं दि॒वो रो᳚चन॒स्थामु᳚ष॒र्बुध᳚म् ।
अ॒ग्निं मू॒र्धानं᳚ दि॒वो अप्र᳚तिष्कुतं॒ तमी᳚महे॒ नम᳚सा वा॒जिनं᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
शुचि᳚म् । न । याम᳚न् । इ॒षि॒रम् । स्वः॒॑दृश᳚म् । के॒तुम् । दि॒वः । रो॒च॒न॒॑स्थाम् । उ॒षः॒॑बुध᳚म् ।
अ॒ग्निम् । मू॒र्धान᳚म् । दि॒वः । अप्र᳚ति॑स्कुतम् । तम् । ई॒म॒हे॒ । नम᳚सा । वा॒जिन᳚म् । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नेतिसंप्रत्यर्थे शुचिंदीप्तं यामन् यामनियज्ञे इषिरंएषणीयं स्वर्दृशंसर्वदृशंसर्वपदार्थविज्ञानयुक्तं दिवः द्युलोकस्यकेतुं प्रज्ञापकं रोचनस्थांरोचनस्थं रोचनःसूर्यः तस्मिन् तिष्ठन्तं उषर्बुधं अग्निहो त्रिकरूपेण उषसिप्रबुध्यमानं दिवःस्वर्गस्यमूर्धानंप्रधानं अप्रतिष्कुतंअप्रतिहतशब्दं वाजिनमन्न वन्तं बृहत् महान्तं तमग्निं नमसास्तोत्रेण ईमहेयाचामहे ॥ १४ ॥