श्रवणम्

3.2.4 समानपद
आ म॒न्द्रस्य᳚ सनि॒ष्यन्तो॒ वरे᳚ण्यं वृणी॒महे॒ अह्र᳚यं॒ वाज᳚मृ॒ग्मिय᳚म् ।
रा॒तिं भृगू᳚णामु॒शिजं᳚ क॒विक्र᳚तुम॒ग्निं राज᳚न्तं दि॒व्येन᳚ शो॒चिषा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । म॒न्द्रस्य᳚ । स॒नि॒ष्यन्तः᳚ । वरे᳚ण्यम् । वृ॒णी॒महे᳚ । अह्र᳚यम् । वाज᳚म् । ऋ॒ग्मिय᳚म् ।
रा॒तिम् । भृगू᳚णाम् । उ॒शिज᳚म् । क॒वि॑क्र᳚तुम् । अ॒ग्निम् । राज᳚न्तम् । दि॒व्येन᳚ । शो॒चिषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्द्रस्यस्तुत्यस्य वैश्वानरस्य संबन्धिनंवरेण्यंवरणीयं अह्रयंअलज्जावहं ऋग्मियंप्रशस्यं वाज मन्नं सनिष्यन्तः लिप्समानावयं भृगूणांऋषीणां रातिं अभिलषितार्थप्रदातारं उशिजं आभिल ष्यं तं कविक्रतुंक्रान्तप्रज्ञं दिव्येनदिविभवेन शोचिषारोचिषा राजन्तंभ्राजमानमग्निंआवृणीमहे संभजामहे ॥ ४ ॥