ति॒स्रो य॒ह्वस्य᳚ स॒मिध॒ः परि᳚ज्मनो॒॑ग्नेर᳚पुनन्नु॒शिजो॒ अमृ᳚त्यवः ।
तासा॒मेका॒मद᳚धु॒र्मर्त्ये॒ भुज᳚मु लो॒कमु॒ द्वे उप᳚ जा॒मिमी᳚यतुः ॥
तासा॒मेका॒मद᳚धु॒र्मर्त्ये॒ भुज᳚मु लो॒कमु॒ द्वे उप᳚ जा॒मिमी᳚यतुः ॥
पदपाठः (Word-by-word)
ति॒स्रः । य॒ह्वस्य᳚ । स॒म्॑इधः᳚ । परि᳚॑ज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः᳚ । अमृ᳚त्यवः ।
तासा᳚म् । एका᳚म् । अद᳚धुः । मर्त्ये᳚ । भुज᳚म् । ऊं॒ इति᳚ । लो॒कम् । ऊं॒ इति᳚ । द्वे इति᳚ । उप᳚ । जा॒मिम् । ई॒य॒तुः॒ ॥
तासा᳚म् । एका᳚म् । अद᳚धुः । मर्त्ये᳚ । भुज᳚म् । ऊं॒ इति᳚ । लो॒कम् । ऊं॒ इति᳚ । द्वे इति᳚ । उप᳚ । जा॒मिम् । ई॒य॒तुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
उशिजः कामयमानाः अमृत्यवोमृत्युरहिताः येदेवाः यह्वस्यमहतः अग्नेः परिज्मनः परि तोगन्तुः समिधः समिन्धिकाः प्रकाशिकास्तिस्रः पार्थिववैद्युतसूर्यरूपास्तिस्रस्तनूः अपुनन् अशो धयन् तेदेवाः भुजंसर्वेषांपालयित्रीं तासांतनूनांमध्ये एकांपार्थिवींतनुं मर्त्येमर्त्यलोके अदधुः न्यदधुः उइतिपादपूरणः इतरेद्वेतनू जामिंलोकं आसन्नमन्तरिक्षं उपेयतुः गच्छतः अथवातिस्रः समिधः आधारसमिधौद्वेअनूयाजसमिच्चैकेति तासांसमिधांएकां अनूयाजसमिधं मर्त्येइहलोके भोगहेतुमनूयाजपर्यन्तमदधुः धारयन्ति प्रजावाअनूयाजइति प्रजात्वेनानूयाजानांस्रष्टृत्वात् तदा श्रयत्वाच्चानूयाजसमिधः इतरेद्वेसमिधौ अन्तरिक्षेदिव्यभोगहेतू उपेयतुः उपगच्छतः त्रीन् परिधीं स्तिस्रः समिधइतिहिनिगमः ॥ ९ ॥