वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु᳚हद्दि॒वस्पृ॒ष्ठं भन्द᳚मानः सु॒मन्म᳚भिः ।
स पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒ धनं᳚ समा॒नमज्मं॒ पर्ये᳚ति॒ जागृ᳚विः ॥
स पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒ धनं᳚ समा॒नमज्मं॒ पर्ये᳚ति॒ जागृ᳚विः ॥
पदपाठः (Word-by-word)
वै॒श्वा॒न॒रः । प्र॒त्न॑था᳚ । नाक᳚म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द᳚मानः । सु॒मन्म᳚॑भिः ।
सः । पू॒र्व॒॑वत् । ज॒नय᳚न् । ज॒न्तवे᳚ । धन᳚म् । स॒मा॒नम् । अज्म᳚म् । परि᳚ । ए॒ति॒ । जागृ᳚विः ॥
सः । पू॒र्व॒॑वत् । ज॒नय᳚न् । ज॒न्तवे᳚ । धन᳚म् । स॒मा॒नम् । अज्म᳚म् । परि᳚ । ए॒ति॒ । जागृ᳚विः ॥
सायणभाष्यम् (Sayana Commentary)
सुमन्मभिः स्तोतृभिः भन्दमानः स्तूयमानः वैश्वानरः जातमावएवप्रत्नथा प्रत्नइव चिरंतन इव नाकं कंसुखं अकंदुःखं नविद्यतेअकंयस्मिन् तत् नाकं दिवः अन्तरिक्षस्यपृष्ठं उपरितनप्रदेशं स्वशोचिभिः आरुहत् आरोहति सवैश्वानरः पूर्ववत् पूर्वेभ्यऋषिभ्यइव जन्तवे स्तोत्रेयजमानाय धनंपश्वादिलक्षणं जनयन् स्ंपादयन् जागृविःसदाप्रबुद्धः समानं सर्वेषां देवाणंसाधारणं अज्मं आकाशमार्गं पर्येति सूर्यरूपेणगच्छति ॥ १२ ॥