तृतीयं मण्डलम् - सूक्तम् 45

5 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 3.45 - सम्पूर्णम्

1 / 5
ऋक्: 3.45.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.45.1
आ म॒न्द्रैरि᳚न्द्र॒ हरि᳚भिर्या॒हि म॒यूर᳚रोमभिः ।
मा त्वा॒ के चि॒न्नि य᳚म॒न्विं न पा॒शिनो॑ति॒ धन्वे᳚व॒ ता{4} इ᳚हि ॥
▶ पदपाठः (Word-by-word)
आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि᳚॑भिः । या॒हि । म॒यूर᳚रोम॑भिः ।
मा । त्वा॒ । के । चि॒त् । नि । य॒म॒न् । विम् । न । पा॒शिनः᳚ । अति᳚ । धन्व᳚॑इव । तान् । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मन्द्रैर्मादयितृभिर्मयूररोमभिर्मयूररोमसदृशरोमयुक्तैर्हरिभिरश्वैरुपेतस्त्वमा याहि । यज्ञं प्रत्यागच्छ । केचिदपि जनास्त्वा त्वां मानि यमन् । मानियच्छन्तु । गमनप्रतिबन्धं मा कुर्वन्त्वित्यभिप्रायः । प्रतिबन्धे दृष्टान्तः । मिंन । यथा पाशिनः पाशहस्ता व्याधा विं गच्छन्तं पक्षिणं नियच्छन्ति तद्वन्मा नियच्छन्तु । किञ्च धन्वेव । यथा पन्था धन्व मरुदेशं शीघ्रमतिगच्छन्ति । तद्वद्गमनप्रतिबन्धकानतीत्य शीघ्रमिहि । आगच्छ । मन्द्रैः । मदि स्तुत्यादिष्वित्यस्य स्फायितञ्चीत्यादिना रक्प्रत्ययः । इदित्त्वान्नुम् । प्रत्य्त्यस्वरः । मयूररोमभिः । मयूररोमवद्रोमाणि येशामिति सप्तम्युपमानपुर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्च । पा. २-२-२४-१२ । इति समास उत्तरपदलोपश्च । मयूर शब्दो मीनातेरूरन् उ. १-६८ । इत्यूरन्प्रत्ययान्तः । मीनाति सर्पानिति मयूरो बर्ही । नित्त्वादाद्युदात्तत्वे प्राप्ते मादीनाम् । फि. ३-४ । इति सूत्रेण मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । यमन् यम उपरम इत्यस्य लेट्यडागमे रूपम् । इहि । इण् गतावित्यस्य लोटि रुपं ॥ १ ॥

3.45.2
वृ॒त्र॒खा॒दो व᳚लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः ।
स्थाता॒ रथ᳚स्य॒ हर्यो᳚रभिस्व॒र इन्द्रो᳚ दृ॒ळ्हा चि᳚दारु॒जः ॥
▶ पदपाठः (Word-by-word)
वृ॒त्र॒॑खा॒दः । व॒ल॒म्॑रु॒जः । पु॒राम् । द॒र्मः । अ॒पाम् । अ॒जः ।
स्थाता᳚ । रथ᳚स्य । हर्योः᳚ । अ॒भि॒॑स्व॒रे । इन्द्रः᳚ । दृ॒ळ्हा । चि॒त् । आ॒॑रु॒जः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोयमिन्द्रो वृत्रखादः । वृत्रं खादति हिनस्तीति वृत्रखादः । वलंरुजः । वृणोत्याकाशमिति वलो मेघः । तस्य भञ्जकः । तथा च मन्त्रवर्णः । बिभेद वलम् । ऋग्वे. ३-३४-१० । इति । ततोऽपामजो मेघभेदनद्वाराऽपां प्रेरकः पुरां शत्रुसम्बन्धिनां पुराणां धरो दारकः । तथा हर्योरश्वयोरभिस्वरेऽस्मदाभिमुख्येन प्रेरणे निमित्तभूते सति रथस्य स्था रथमधिष्ठाता । तथा दृळ्हा चित् दृढानामति बलवतां शत्रूणामप्यारजः समन्ताद्भञ्जको भवति । वृत्रखादः । खादृ भक्षण इत्यस्मात्कर्मण्यण् । कृदुत्तरपदस्वरः । वलंरुजः । रुजो भङ्गे । कर्मण्य्पुपदे मूलविभुजादित्वात्कप्रत्ययः । तत्पुरुषे कृति बहुलमिति द्वितीयायां अलुक् । थाथादिस्वरः । आरुजः । रुजो भङ्ग इत्यास्मादिगुणफदलक्षण कः । समासे थाथादिस्वरः ॥ २ ॥

3.45.3
ग॒म्भी॒रा{4} उ᳚द॒धी{4}रि᳚व॒ क्रतुं᳚ पुष्यसि॒ गा इ᳚व ।
प्र सु᳚गो॒पा यव᳚सं धे॒नवो᳚ यथा ह्र॒दं कु॒ल्या इ᳚वाशत ॥
▶ पदपाठः (Word-by-word)
ग॒म्भी॒रान् । उ॒द॒धीन्॑इ᳚व । क्रतु᳚म् । पु॒ष्य॒सि॒ । गाः॑इ᳚व ।
प्र । सु॒॑गो॒पाः । यव᳚सम् । धे॒नवः᳚ । य॒था॒ । ह्र॒दम् । कु॒ल्याः॑इ᳚व । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं गम्भीरान्महावकाशानुदधीन् समद्रानुदकैर्यथा पोषयसि तद्वत्क्रतुं यज्ञस्य कर्तारमिमं यजमानमभिमतफलप्रदानेन पुष्यसि । पोषयसि । अत्र दृष्टान्तः । यथा सुगोपाः संईचीनो गोपालो यवसेन गाः पोषयति तद्वत् । यथा धेनवो यवसं तृणादिकं प्राप्नुवन्ति तद्वत्त्वं सोमान् प्राप्नोषि । ते च सोमाः कुल्या इव कृत्रिमसरितो ह्रदं महाजलाशयं यथा प्राप्नुवन्ति तद्वत्त्वामाशत । व्याप्नुवन्ति । गम्भीरान् । गाधृ प्रतिष्थालिप्सयोर्ग्रन्थे चेत्यस्माद्गंभीरगभीरावित्यनेन सूत्रेण इरच् प्रत्ययः । नुमागमोपधाह्रस्वभकाराः सर्वे निपात्यन्ते । चित्त्वादन्तोदात्तः । उदधीनिव । उदकशब्द उपपदे दधातेरधिकरणेऽर्थे कर्मण्यधिकरणे चेति किप्रत्ययः । उदकशब्दस्य पेषंवासवाहनधिषु च । पा. ६-३-५८ । इत्युदभावः । कृत्स्वरः । इवेन विभक्त्यलोपः । पुश्यस्त् । पुश पुश्वावित्यस्यान्तर्णीतण्यर्थस्य लटि रूपम् । निघातः । सुगोपाः । गोपायतेः । क्विपि रूपम् । यथा । यथेति पादान्ते । फो. ४-१७ । इति निघातः । आशत । आशू व्याप्तावित्यस्मालिङि बहुलं छन्दसीति विकरणस्य लुक् । निघातः ॥ ३ ॥

3.45.4 समानपद
आ न॒स्तुजं᳚ र॒यिं भ॒रांशं॒ न प्र᳚तिजान॒ते ।
वृ॒क्षं प॒क्वं फल᳚म॒ङ्कीव᳚ धूनु॒हीन्द्र᳚ स॒म्पार᳚णं॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । तुज᳚म् । र॒यिम् । भ॒र॒ । अंश᳚म् । न । प्र॒ति॒॑जा॒न॒ते ।
वृ॒क्षम् । प॒क्वम् । फल᳚म् । अ॒ङ्की॑इ᳚व । धू॒नु॒हि॒ । इन्द्र᳚ । स॒म्॑पार᳚णम् । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोऽस्माकं तुजं शत्रूणां बाधकं रयिं धनेनोपलक्षितं पुत्र मा भर । संपादय । तत्र दृष्टान्तः । अंशं न । यथा पिता प्रतिजानते व्यवहारज्ञाय पुत्राय स्वकीयस्य धनस्य भागं ददाति तद्वत् । कि~च पक्वं फलं प्रतिवृक्षमङ्गीवाङ्कुशी यथा धूनोति तथा त्वं संपारणमस्मदिच्छायाः सम्यक् पूरकं वसु धनं धूनुहि । चालय । प्रयच्छेत्यर्थः । प्रतिजानते । ज्ञा अवबोधन इत्यस्य शरति रूपम् । प्रादिसमासः । शतुरनुम इति विभक्तेरुदात्तत्वम् । धूनुहि । धूञ् कम्पन इत्यस्य लोटि रूपम् । संपारणम् । पॄ पालन पूरणयोरित्यस्य ण्यन्तस्य करणे ल्युट् । समासे कृत्स्वरः ॥ ४ ॥

3.45.5
स्व॒युरि᳚न्द्र स्व॒राळ᳚सि॒ स्मद्दि᳚ष्टि॒ः स्वय᳚शस्तरः ।
स वा᳚वृधा॒न ओज᳚सा पुरुष्टुत॒ भवा᳚ नः सु॒श्रव᳚स्तमः ॥
▶ पदपाठः (Word-by-word)
स्व॒॑युः । इ॒न्द्र॒ । स्व॒॑राट् । अ॒सि॒ । स्मत्॑दि᳚ष्टिः । स्वय᳚शः॑तरः ।
सः । व॒वृ॒धा॒नः । ओज᳚सा । पु॒रु॒॑स्तु॒त॒ । भव᳚ । नः॒ । सु॒श्रवः᳚॑तमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स्वयुर्धनवानसि । तथा स्वराट् स्वर्गस्य राजासि । स्मद्दिष्टिर्भद्रवाक्यः । स्वयशस्तरो‍ऽतिशयेन प्रभूतकीर्तिरसि । हे पुरुष्टुत बहुभिराहूतेन्द्र स त्वमोजसा बलेन वावृधानः वर्धमानः सन् नोऽस्मदर्थं सुश्रवस्तमोऽतिशयेन शोभनान्नोपेतो भव । स्वयुः स्वशब्दान्मत्वर्धीयो युः । स्वराट् । राजृ दीप्तौ । क्विप् । व्रश्चादिना षत्वम् । स्मद्दिष्टिः । स्मत् समदित्यर्थे । उकारलोपश्छान्दसः । बहुव्रीहौ पूर्वपदस्वरः । पुरुष्टुत । संहितायांस्तुतस्तोमयोश्छन्दसीतिषत्वम् । भव । भवतेर्लोटि रूपम् । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । सुश्रवस्तमः । श्रवः शब्दोऽनुनन्तः । बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । तदन्तादतिशायने तमप् । तस्य पित्त्वादनुदात्तत्वे बहुव्रीहि स्वरः ॥ ५ ॥