तृतीयं मण्डलम् - सूक्तम् 17

5 ऋचः

ऋषिः: कतो वैश्वामित्रः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.17 - सम्पूर्णम्

1 / 5
ऋक्: 3.17.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.17.1
स॒मि॒ध्यमा᳚नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि᳚रज्यते वि॒श्ववा᳚रः ।
शो॒चिष्के᳚शो घृ॒तनि᳚र्णिक्पाव॒कः सु᳚य॒ज्ञो अ॒ग्निर्य॒जथा᳚य दे॒वान् ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इ॒ध्यमा᳚नः । प्र॒थ॒मा । अनु᳚ । धर्म᳚ । सम् । अ॒क्तु॑भिः᳚ । अ॒ज्य॒ते॒ । वि॒श्व॑वा᳚रः ।
शो॒चिः॑के᳚शः । घृ॒त॑नि᳚र्निक् । पा॒व॒कः । सु॒॑य॒ज्ञः । अ॒ग्निः । य॒जथा᳚य । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कशः स्तौति । धर्म । धारनाद्धर्म । अग्नेर्यज्ञनिर्वाहकतया तद्धारकत्वाद्धर्माग्निः । तथा च मन्त्रः । धर्माणमग्मिं विदथस्य साधनम् । ऋग्वे-१०-९२-२ । इति । ताद्शोऽग्निः प्रथमा प्रथमं यज्ञोपक्रमे अनु अग्यायतनेष्वनुक्रमणे समिध्यमानः सम्यक् प्रज्वाल्यमानः । यद्वा । अनु धर्म धर्मसाधनभूतेषु यज्ञेषु प्रथमं समिध्यमानो विश्ववारो विश्व्यैः सर्वैर्यजमानैर्यष्टव्यतया वरणीयः शोचिष्केशः । शोचींषि ज्वालाः केशा यस्य स तथोक्तः । घृतनिर्णिक् । घृतस्य तापनद्वारा विलापनेन शोधकः । पावकोऽस्मदीयपापशोधकः । सुयज्ञः शोभनयज्ञोपेतः । एवंभूतोऽग्निर्देवानस्माभिर्यजनीयान्देवान्यजथाय यष्टुमक्तुभिरञ्जसाधनैर्घ्हृतादिभिः समज्यते । सम्यक् सिच्यते ॥ प्रथमा । सुपां सुलिगिति सुपो डादेशः । धर्म । धृञ् धारण इत्यस्मादन्येभ्योऽपि दृश्यन्त इति मनिन् । ह्रस्वत्वं छान्दसम् । नित्स्वरः । अक्तुभिः । अञ्जू व्यक्तिगतिम्रक्षणेषु । आज्यत एभिरिति बाहुलकत्वात् क्तुः करणे । कित्त्वादुपधालोपः । प्रत्यय स्वरः । आज्यते । स एव धातुः । कर्मणि यक् । अनिदितामित्युपधालोपः । विश्ववारः । विश्वैर्यजमानैर्होतृद्वारा वारो वारणं यस्येत्यत्र वृञ् वरण् इत्यस्य ण्यन्तस्य रूपं वारः । बहुव्रीहौ विश्वं संज्ञायामिति पुर्वपदान्तोदात्तत्वम् । घृतनिर्णिक् । णिजिर् शौचपोषणयोः । क्विप् । घृतं नेनेक्तीति द्वितीयातत्पुरुशत्वात्पूर्वपदस्वरः । यजथाय । यज देवपूजासङ्गतिकरणदानेषु । अस्मादौणादिकोऽथप्रत्ययः । तादर्थ्ये चतुर्थी । प्रत्ययस्वरः ॥ १ ॥

3.17.2
यथाय᳚जो हो॒त्रम᳚ग्ने पृथि॒व्या यथा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ।
ए॒वानेन᳚ ह॒विषा᳚ यक्षि दे॒वान्म᳚नु॒ष्वद्य॒ज्ञं प्र ति᳚रे॒मम॒द्य ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । अय᳚जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा᳚ । दि॒वः । जा॒त॒॑वे॒दः॒ । चि॒कि॒त्वान् ।
ए॒व । अ॒नेन᳚ । ह॒विषा᳚ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं यथा पृथिव्या यजमानभूतयाः पृघिवीदेवतायाः पूर्वं होता सन् होत्रं होमसाधनं हविरयजोऽयाजीः जातवेदो जातप्रज्ञ हे अग्ने चिकित्वान् कर्मविषयज्ञानवान् त्वं यथा च दिवो यजमानभूतायाद्युदेवताया होता भूत्वा हविरजः । एव एवं त्वमस्मिन्कर्मणि होता सन् अनेनास्माभिर्दीयमानेन हविषा देवान् यक्षि । यज किञ्च त्वमद्येदानीमस्माभिः क्रियमाणमिमं यज्ञं प्र शिर । अनिष्ठ्गान संपूर्त्या पारं गमय । तत्र दृष्ठान्तो मनुश्वदिति । यथा मनोर्यज्ञमनुष्ठानसंपूर्त्या पारमनैषीस्तद्वदिमं यज्ञं पारं नयेत्यर्थः ॥ यथा । प्रकारवचने थालिति थाल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अयजः । यजेर्लङ् रूपम् । यच्छब्दयोगादनिघातः । होत्रम् । हु दानादनयोः । हुयामाश्रुभसिभ्यस्त्रन्निति त्रन्प्रत्ययेनान्तोदात्तः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । चिकित्वान् । कित ज्ञान इत्यस्य क्वसौ रूपम् । प्रत्यय स्वरः । अनेन । इदंशब्दस्य तृतीयैकवचन अनाप्यकः । पा. ७-२-११२ । इत्यनादेशः । यक्षि । यजेर्लोटि रूपम् । मनुष्वत् । तत्र सस्येवेति वतिः । नभोऽङ्गिरो मनुषां वत्युपसङ्ख्यानमिति भसंज्जात्वाद्रुत्वाभावः । प्रत्ययस्वरः । तिर । तरतेर्लोटि व्यत्ययेन शः । ॠत इद्धातोरितीत्वम् । निघातः ॥ २ ॥

3.17.3
त्रीण्यायूं᳚षि॒ तव᳚ जातवेदस्ति॒स्र आ॒जानी᳚रु॒षस᳚स्ते अग्ने ।
ताभि᳚र्दे॒वाना॒मवो᳚ यक्षि वि॒द्वानथा᳚ भव॒ यज᳚मानाय॒ शं योः ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । आयूं᳚षि । तव᳚ । जा॒त॒॑वे॒दः॒ । ति॒स्रः । आ॒॑जानीः᳚ । उ॒षसः᳚ । ते॒ । अ॒ग्ने॒ ।
ताभिः᳚ । दे॒वाना᳚म् । अवः᳚ । य॒क्षि॒ । वि॒द्वान् । अथ᳚ । भ॒व॒ । यज᳚मानाय । शम् । योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो जातप्रज्ञ तव त्रीण्यायूंषि त्रिविधान्याऔषधिसोमात्मकान्यन्नान्याहारतया कलोप्तानि हे अग्ने तिस्र उषस एकाहाहीनसत्रगता उषस उषोऽभिमानिन्यस्तिस्तो देवतास्ते तवजानीर्जनयित्र्यो मातरः । यद्वा उषऽभिमानिन्यो देवतास्तवाजानीस्त्वामनुजातास्तिस्रः स्वसारः । तथा च स्वसॄः प्रकृत्य मन्त्रः । प्रजामेका रक्षत्यूर्जमेका राष्ट्रमेका रक्षतीति । ताभिरुषोऽभिमानिनीभिर्देवताभिः सहितस्त्वमवोऽस्माभिर्दीयमानं हविर्लक्षणमन्नि देवानां यक्षि । यष्टव्य देवानां प्रयच्छ । अथ अनन्तरां विद्वान् जानन्स्त्वं यजमानाय शम्भव । सुख हेतुर्भव । योश्च सुखस्य मिश्रयिता च भव ॥ तव युष्मदस्मदोर्ङसीत्याद्युदात्तः । तिस्रः । त्रिशब्दस्य स्त्र्यर्थे त्रिचचुतुरोः स्त्रियामिति तिश्रु इत्यादेशः । अचि र ऋत इति रेफादेशः । तिसृभ्यो जस इति विभक्तेरुदात्तत्वम् । आजानिः । जन जनने । जनिज्घसिभ्यामिण् इति कर्तरि इण् । णित्त्वादुपधावृद्धिः । वाछदसीति वर्नदीर्घः । कृदुत्तरपदप्रकृतिस्वरः । अवः । अव रक्षणे । असुन्नित्यसुन् । नित्स्वरः । यक्षि । यजेर्दानार्थस्य लेटि रूपम् । यजमानाय । पूङ्यजोः शानन् । पा. ३-२-१२८ । इति यजेः शानन् नित्स्वरः । योः । यु मिश्रण इत्यस्मादन्येभ्योऽपि दृश्यन्त इति विच् । आर्धधातुक लक्षणो गुणः । कृदुत्तरपदप्रकृति स्वरः ॥ ३ ॥

3.17.4 समानपद
अ॒ग्निं सु᳚दी॒तिं सु॒दृशं᳚ गृ॒णन्तो᳚ नम॒स्याम॒स्त्वेड्यं᳚ जातवेदः ।
त्वां दू॒तम᳚र॒तिं ह᳚व्य॒वाहं᳚ दे॒वा अ᳚कृण्वन्न॒मृत᳚स्य॒ नाभि᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । सु॒॑दी॒तिम् । सु॒॑दृश᳚म् । गृ॒णन्तः᳚ । न॒म॒स्यामः᳚ । त्वा॒ । ईड्य᳚म् । जा॒त॒॑वे॒दः॒ ।
त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒॑वाह᳚म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत᳚स्य । नाभि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदो जातस्य सर्वस्य वेदितर्हे अग्ने गृणन्तस्त्वद्विषयां स्तुतिं कुर्वाणा वयमग्निमङ्गनादिगुणोपेतं सुदीतिं शोभनदीप्तिं अत एव सुदृशं सर्वैः सुदर्शनमीड्यं स्तुत्यं एवं विधं त्वा त्वां नमस्यामः । हविर्भिः पूजयामः । किञ्च देवा अस्माभिर्यजनीया इन्द्रादयो देवा अरतिम् । न विद्यते विषयेषु रतिः प्रीतिर्यस्यासावरतिः । विषयेष्वसक्तं अत एवामृतस्य देवान्नभूताया सुधाया नाभिं नाभिस्थानं त्वां तादृशं हव्यवाहं दूतमकृण्वन् । हविषां वोढारं दूतमकुर्वन् । दूतो हि द्विधो वार्ताहारी कार्यकारी चेति । तत्र त्वां कार्यकारिणं दूतमकाष्रुरिति भावः ॥ सुदीतिम् । दीङ् क्षये । दीयते विनाश्यत आभिस्तम इतिकरणे क्तिन् । दीतयो दीप्तयः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । सुदृशम् । दृशिर् प्रेक्षणे । तस्माच्छक्यार्थे खल् । संज्ञापूर्वको विघिरनित्य इति गुणाभावः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । गृणन्तः । गृणातिरर्चतिकर्मा । नमस्यामः । नमस् पूजायाम् । नमो वरिवश्चित्रङः क्यजिति क्यच् । तदन्ताल्लटि रूपम् । पादादित्वान्न निघातः । दूतम् । टुदु उपतापे । दुतनिभ्यां दीर्घश्च । उ. २-९० । इति क्तः । तत्सन्नियोगेन धातोर्दीर्घः । दूत इतस्ततः सञ्चारीत्यर्थः । प्रत्ययस्वरः । अरतिम् । रमु क्रीडायाम् । भावे क्तिन् । अकृण्वन् । कृवि हिंसाकरणयोरित्यस्य लङि धिन्विकृण्व्योरच्चेत्युप्रत्ययोऽकारश्चान्तादेशः । निघातः ॥ ४ ॥

3.17.5
यस्त्वद्धोता॒ पूर्वो᳚ अग्ने॒ यजी᳚यान्द्वि॒ता च॒ सत्ता᳚ स्व॒धया᳚ च श॒म्भुः ।
तस्यानु॒ धर्म॒ प्र य᳚जा चिकि॒त्वो॑थ᳚ नो धा अध्व॒रं दे॒ववी᳚तौ ॥
▶ पदपाठः (Word-by-word)
यः । त्वत् । होता᳚ । पूर्वः᳚ । अ॒ग्ने॒ । यजी᳚यान् । द्वि॒ता । च॒ । सत्ता᳚ । स्व॒धया᳚ । च॒ । श॒म्॑भुः ।
तस्य᳚ । अनु᳚ । धर्म᳚ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ᳚ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒व॑वी᳚तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वत् त्वत्तोऽपि पूर्वः प्रथमभावी यजीयान् अतिशयेन यष्टा यो यः कश्चिद्धोता होमनिष्पादको द्विता द्वैध मध्यमे चोत्तमे च स्थाने स्वधया सोमाख्येनान्नेन सह सत्ता नोषण्णः सन् शम्भुर्यष्टॄणां सुखभूरभूत् । द्वितीयपादमेवं यास्को व्याचख्यौ । द्विता च सत्ता स्वधया च शम्भुः । द्वेधं सत्ता मध्यमे च स्थान उत्तमे च शम्भुः सुखभूः । नि. ५-३ । इति चिकित्वो धर्मविषयचेतनावन् हे अग्ने तस्य यस्त्वत्तोऽपि पूर्वभावी होता निरूपितस्तस्य होतुरुनुधर्म धर्माननु तेनानुष्ठितधर्मानुपलक्ष्य प्रयज । प्रकर्षेण देवान्पूजय । अथ आन्तरं हे अग्ने त्वं नोऽस्माकं सम्बन्धिनमध्वरमिमं यज्ञं देववीतौ देवानां प्रीत्यर्थः धाः । विधेहि ॥ यजीयान् । यष्टृ शब्दस्य तुश्छन्दसीतियसुन् । तस्मिन् तुरिष्ठेमेयःस्विति तृचो लोपः । नोत्त्वादाद्युदात्तः । द्विता । द्विशब्दात्संख्याया विधार्थे धेति धाप्रत्ययः । धकारस्य तकारश्छान्दसः । प्रत्ययस्वरः । सत्ता । शद् लृ विशरणगत्यवसादनेषु । अस्य ताच्छीलिकस्तृन् । नित्स्वरः । स्वधया । स्वर्गं लोकं दधाति यजमानस्येति स्वधा । आतोऽन्बुपसर्गे क इति प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शम्भुः । शं सुखमस्माद्भवतीति भूई सत्तायां विप्रसम्भ्यो । ड्वसंज्ञायामित्यत्र मितद्र्वादेरुपसंख्यानात् डुप्रत्ययः । डित्त्वाट्टिलोपः । यज । यजेर्लोटि रूपम् । चिकित्वः । कित ज्ञान इत्यस्य क्वसौ रूपं मतुवसो रुः सम्बुद्धौ छन्दसीति नकारस्य रुः । अथा नः । निपातस्येति दीर्घः । धाः । डुधाञ् धारणपोषणयोरित्यस्य छान्दसे लुङि रूपम् । अडभावश्छान्दसः । देवानां वीतिरशनं यत्र प्रीतौ सा प्रीतिर्देववीतिः । वी कान्त्यादिष्वित्यस्माद्भावे क्तिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ॥ ५