तृतीयं मण्डलम् - सूक्तम् 5

11 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.5 - सम्पूर्णम्

1 / 11
ऋक्: 3.5.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
3.5.1 समानपद
प्रत्य॒ग्निरु॒षस॒श्चेकि᳚ता॒नो॑बो᳚धि॒ विप्र᳚ः पद॒वीः क᳚वी॒नाम् ।
पृ॒थु॒पाजा᳚ देव॒यद्भि॒ः समि॒द्धो॑प॒ द्वारा॒ तम᳚सो॒ वह्नि᳚रावः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । अ॒ग्निः । उ॒षसः᳚ । चेकि᳚तानः । अबो᳚धि । विप्रः᳚ । प॒द॒॑वीः । क॒वी॒नाम् ।
पृ॒थु॒॑पाजाः᳚ । दे॒व॒यत्॑भिः᳚ । सम्॑इ᳚द्धः । अप᳚ । द्वारा᳚ । तम᳚सः । वह्निः᳚ । आ॒व॒रित्या᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषसः चेकितानोजानन् विप्रः मेधावीकवीनां क्रान्तदृशां पदवीः मार्गान् गच्छन् योग्निः प्रत्यबोधिप्रतिबुध्यते पृथुपाजाः पृथुतेजाः देवयद्भिर्देवकामैः समिद्धः सम्यक् दीप्तः सवह्निः तमसः अज्ञानस्यद्वारा आगमनद्वाराणिअपावः अपावृणोतु ॥ १ ॥

3.5.2
प्रेद्व॒ग्निर्वा᳚वृधे॒ स्तोमे᳚भिर्गी॒र्भिः स्तो᳚तॄ॒णां न᳚म॒स्य᳚ उ॒क्थैः ।
पू॒र्वीरृ॒तस्य᳚ सं॒दृश᳚श्चका॒नः सं दू॒तो अ᳚द्यौदु॒षसो᳚ विरो॒के ॥
▶ पदपाठः (Word-by-word)
प्र । इत् । ऊं॒ इति᳚ । अ॒ग्निः । व॒वृ॒धे॒ । स्तोमे᳚भिः । गीः॒॑भिः । स्तो॒तॄ॒णाम् । न॒म॒स्यः᳚ । उ॒क्थैः ।
पू॒र्वीः । ऋ॒तस्य᳚ । स॒म्॑दृशः᳚ । च॒का॒नः । सम् । दू॒तः । अ॒द्यौ॒त् । उ॒षसः᳚ । वि॒॑रो॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

नमस्यः पूज्योयोग्निः स्तोतॄणांस्तोमेभिः स्तोत्रैर्गीर्भिर्वाग्भिरुक्थैः शस्त्रैश्चप्रववृधेवृद्धिं प्राप्नोति दूतःदेवानांदूतः सःपूर्वीः बह्वीः ऋतस्यादित्यस्यसंदृशः दीप्तीः चकानः कामयमानः सन् उषसः विरोकेविरोचनेप्रातः कालेसमद्यौत् सम्यक् द्योतते इत् उपूरणौ ॥ २ ॥

3.5.3
अधा᳚य्य॒ग्निर्मानु᳚षीषु वि॒क्ष्व१॒᳚पां गर्भो᳚ मि॒त्र ऋ॒तेन॒ साध᳚न् ।
आ ह᳚र्य॒तो य᳚ज॒तः सान्व᳚स्था॒दभू᳚दु॒ विप्रो॒ हव्यो᳚ मती॒नाम् ॥
▶ पदपाठः (Word-by-word)
अधा᳚यि । अ॒ग्निः । मानु᳚षीषु । वि॒क्षु । अ॒पाम् । गर्भः᳚ । मि॒त्रः । ऋ॒तेन᳚ । साध᳚न् ।
आ । हि॒र्य॒तः । य॒ज॒तः । सानु᳚ । अ॒स्था॒त् । अभू᳚त् । ऊं॒ इति᳚ । विप्रः᳚ । हव्यः᳚ । म॒ती॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रः यजमानानांमित्रभूतः ऋतेनसत्येनसाधन् कामान् साधयन् अपांगर्भोग्निः मानुषीषुमनोः संबन्धिनीषुविक्षुप्रजासु अधायिदेवैराहितः किंच हर्यतः स्पृहणीयः यजतोयष्टव्यः सः सानुउच्छ्रि तंधिष्ण्यं उत्तरवेद्याख्यं आस्थात् अध्यतिष्ठत् विप्रःप्राज्ञःअग्निः मतीनांमातॄणांस्तोतॄणांहव्यः स्तुत्यः अभूत् उःपूरणः ॥ ३ ॥

3.5.4
मि॒त्रो अ॒ग्निर्भ᳚वति॒ यत्समि᳚द्धो मि॒त्रो होता॒ वरु᳚णो जा॒तवे᳚दाः ।
मि॒त्रो अ᳚ध्व॒र्युरि᳚षि॒रो दमू᳚ना मि॒त्रः सिन्धू᳚नामु॒त पर्व᳚तानाम् ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्॑इ᳚द्धः । मि॒त्रः । होता᳚ । वरु᳚णः । जा॒त॑वे᳚दाः ।
मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू᳚नाः । मि॒त्रः । सिन्धू᳚नाम् । उ॒त । पर्व᳚तानाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमृक् अग्निंसर्वात्मकत्वेनस्तौति यद्यदासमिद्धोग्निः तदामित्रोभवतिसूर्योभवति मित्रएवसन् होताभवति वरुणोभवति जातवेदाः जातप्रज्ञः समित्रः अध्वर्युर्भवति दमूनाःदानमनाः दान्त मनावासएवइषिरः प्रेरकोवायुर्भवति उतअपिच सिन्धूनांनदीनां पर्वतानांचमित्रः सहायो भवति ॥ ४ ॥

3.5.5
पाति᳚ प्रि॒यं रि॒पो अग्रं᳚ प॒दं वेः पाति᳚ य॒ह्वश्चर᳚णं॒ सूर्य᳚स्य ।
पाति॒ नाभा᳚ स॒प्तशी᳚र्षाणम॒ग्निः पाति᳚ दे॒वाना᳚मुप॒माद᳚मृ॒ष्वः ॥
▶ पदपाठः (Word-by-word)
पाति᳚ । प्रि॒यम् । रि॒पः । अग्र᳚म् । प॒दम् । वेः । पाति᳚ । य॒ह्वः । चर᳚णम् । सूर्य᳚स्य ।
पाति᳚ । नाभा᳚ । स॒प्त॑शी᳚र्षाणम् । अ॒ग्निः । पाति᳚ । दे॒वाना᳚म् । उ॒प॒॑माद᳚म् । ऋ॒ष्वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋष्वोदर्शनीयोग्निः वेःगंत्र्याः सर्वव्याप्तायाः रिपोभूम्याः प्रियंअग्रं प्रथमंपदंस्थानं पाति रक्षति यह्वोमहान् सूर्यस्यचरणंचरत्यत्रेतिचरणमन्तरिक्षंपाति नाभानाभौ अन्तरिक्षस्यमध्ये सप्तशीर्षाणंमरुद्गणं पातिदेवानां उपमादं उपमादकं यज्ञंपातिरक्षति ॥ ५ ॥

3.5.6
ऋ॒भुश्च᳚क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा᳚नि दे॒वो व॒युना᳚नि वि॒द्वान् ।
स॒सस्य॒ चर्म᳚ घृ॒तव᳚त्प॒दं वेस्तदिद॒ग्नी र᳚क्ष॒त्यप्र᳚युच्छन् ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुः । च॒क्रे॒ । ईड्य᳚म् । चारु᳚ । नाम᳚ । विश्वा᳚नि । दे॒वः । व॒युना᳚नि । वि॒द्वान् ।
स॒सस्य᳚ । चर्म᳚ । घृ॒त॑व᳚त् । प॒दम् । वेः । तत् । इत् । अ॒ग्निः । र॒क्ष॒ति॒ । अप्र᳚॑युच्छन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुर्महान् विश्वानिसर्वाणिवयुनानि ज्ञातव्यान् पदार्थान् विद्वान् जानन् देवोग्निः ईड्यं स्तुत्यंचारुमनोज्ञंनामजलंचक्रे करोति नामेतिउदकनामसुपाठात् वेर्व्याप्तस्यससस्यस्वपतः शांत- ज्वालस्याप्यग्नेः चर्मरूपंघृतवद्दीप्तिमद्भवति सोग्निः तज्जलमप्रयुच्छन् अप्रमाद्यन् पदंस्थानं र- क्षतिपालयति इदितिपूरणः ॥ ६ ॥

3.5.7 समानपद
आ योनि᳚म॒ग्निर्घृ॒तव᳚न्तमस्थात्पृ॒थुप्र᳚गाणमु॒शन्त᳚मुशा॒नः ।
दीद्या᳚न॒ः शुचि᳚रृ॒ष्वः पा᳚व॒कः पुनः᳚पुनर्मा॒तरा॒ नव्य᳚सी कः ॥
▶ पदपाठः (Word-by-word)
आ । योनि᳚म् । अ॒ग्निः । घृ॒त॑व᳚न्तम् । अ॒स्था॒त् । पृ॒थु॑प्र᳚गानम् । उ॒शन्त᳚म् । उ॒शा॒नः ।
दीद्या᳚नः । शुचिः᳚ । ऋ॒ष्वः । पा॒व॒कः । पुनः᳚॑पुनः । मा॒तरा᳚ । नव्य᳚सी॒ इति᳚ । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशानः कामयमानोग्निः घृतवन्तं दीप्तिमन्तंपृथुप्रगाणंपृथुगीतिं उशन्तंकामयमानंयोनिंस्थान मायतनं आअस्थात् आतिष्ठति दीद्यानोद्योतमानः शुचिर्दर्शनीयः शुद्धोवा ऋष्वोमहान् पावकः अन्येषांशोधयिताग्निः मातरामातरौद्यावापृथिव्यौपुनःपुनःनव्य सीनवतरे कः करोति ॥ ७ ॥

3.5.8
स॒द्यो जा॒त ओष᳚धीभिर्ववक्षे॒ यदी॒ वर्ध᳚न्ति प्र॒स्वो᳚ घृ॒तेन᳚ ।
आप᳚ इव प्र॒वता॒ शुम्भ᳚माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । जा॒तः । ओष᳚धीभिः । व॒व॒क्षे॒ । यदि᳚ । वर्ध᳚न्ति । प्र॒॑स्वः᳚ । घृ॒तेन᳚ ।
आपः᳚॑इव । प्र॒॑वता᳚ । शुम्भ᳚मानाः । उ॒रु॒ष्यत् । अ॒ग्निः । पि॒त्रोः । उ॒प॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सद्योजातोग्निः यदियदाओषधीभिः ववक्षेउह्यते तदाप्रवताप्रवणेनमार्गेणगच्छन्त्यः आपइवशुं भमानाः शोभमानास्ताओषध्यः प्रस्वः फलानिप्रसुवानाः घृतेनोदकेनवर्धन्तिवर्धयन्ति आत्मस्थ मग्निम् पित्रोर्द्यावापृथिव्योरुपस्थेमध्यप्रदेशेवर्धमानोग्निः उरुष्यत् आस्मान् रक्षतु ॥ ८ ॥

3.5.9
उदु᳚ ष्टु॒तः स॒मिधा᳚ य॒ह्वो अ᳚द्यौ॒द्वर्ष्म᳚न्दि॒वो अधि॒ नाभा᳚ पृथि॒व्याः ।
मि॒त्रो अ॒ग्निरीड्यो᳚ मात॒रिश्वा दू॒तो व᳚क्षद्य॒जथा᳚य दे॒वान् ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्तु॒तः । स॒म्॑इधा᳚ । य॒ह्वः । अ॒द्यौ॒त् । वर्ष्म᳚न् । दि॒वः । अधि᳚ । नाभा᳚ । पृ॒थि॒व्याः ।
मि॒त्रः । अ॒ग्निः । ईड्यः᳚ । मा॒त॒रिश्वा᳚ । आ । दू॒तः । व॒क्ष॒त् । य॒जथा᳚य । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उइतिपादपूरणः स्तुतः अस्माभिःस्तुतः समिधासमिन्धनेनयह्वोमहान् अग्निः प्रुथिव्याअधि उत्तरवेद्यां नाभानाभौमध्यप्रदेशे स्थितःसन् दिवःअन्तरिक्षस्य वर्ष्मन् वर्ष्मणिरूपे उदद्यौत् द्योतते मित्रः सर्वेषांमित्रभुतः ईड्यःस्तुत्यः मारिश्वा मातरिअन्तरिक्षे श्वसितिप्राणिति सूर्यरूपेण चेष्टते इतिमातरिश्वा अथवा मातरिअरण्यां श्वसितिनिवसतीतिमातरिश्वा यथाहयास्कः—मातर्य न्तरिक्षेश्वसितिमातर्याश्वनितीतिवा । दूतः देवानांदूतःसन् यजथाय यज्ञायदेवानावक्षत् आवहतु ॥ ९ ॥

3.5.10
उद᳚स्तम्भीत्स॒मिधा॒ नाक᳚मृ॒ष्वो॒३॒᳚॑ग्निर्भव᳚न्नुत्त॒मो रो᳚च॒नाना᳚म् ।
यदी॒ भृगु᳚भ्य॒ः परि᳚ मात॒रिश्वा॒ गुहा॒ सन्तं᳚ हव्य॒वाहं᳚ समी॒धे ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒स्त॒म्भी॒त् । स॒म्॑इधा᳚ । नाक᳚म् । ऋ॒ष्वः । अ॒ग्निः । भव᳚न् । उ॒त्॑त॒मः । रो॒च॒नाना᳚म् ।
यदि᳚ । भृगु᳚॑भ्यः । परि᳚ । मा॒त॒रिश्वा᳚ । गुहा᳚ । सन्त᳚म् । ह॒व्य॒॑वाह᳚म् । स॒म्॑ई॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋष्वोमहानग्निः समिधातेजसानाकंस्वर्गं उदस्तंभीत् उदस्तभ्रात् रोचनानांशोभनानांतेजसां मध्ये उत्तमोभवन् उत्कृष्टतमोभवन् मातरिश्वावायुः भृगुभ्यः आदित्यस्यरश्मिभ्यः परिपरितः गुहागुहायांसन्तं हव्यवाहं हव्यानांवोढारमग्निं यदियदासमीधेसमैधत तदानाकंअस्तभ्नादिति संबन्धः ॥ १० ॥

3.5.11
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श᳚श्वत्त॒मं हव᳚मानाय साध ।
स्यान्न᳚ः सू॒नुस्तन᳚यो वि॒जावाग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
इळा᳚म् । अ॒ग्ने॒ । पु॒रु॒॑दंस᳚म् । स॒निम् । गोः । श॒श्व॒त्॑त॒मम् । हव᳚मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन᳚यः । वि॒जा॑वा᳚ । अ॒ग्ने॒ । सा । ते॒ । सु॒॑म॒तिः । भू॒तु॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वंव्याख्याता ॥ ११ ॥

प्रकारवइत्येकादशर्चंषष्ठंसूक्तंवैश्वामित्रमाग्नेयं प्रकारवइत्यनुक्रान्तत्वात् प्रातरनुवाकाश्विन शस्त्रयोःसूक्तविनियोगःपूर्वसूक्तएवप्रत्यग्निरुषसस्त्रीणीत्यनेनोक्तः आद्याग्नेयेपशौहविषोयाज्या सूत्रितंच—प्रकारवोमननावच्यमानाएकाचेतत्सरस्वतीनदीनामिति ऎभिरग्नइतिपात्नीवतग्रहस्य याज्या सूत्रितंच—आग्निध्रः पात्नीवतस्ययजत्यैभिरग्नेसरथंयाह्यर्वाङितीति