श्रवणम्

3.5.4
मि॒त्रो अ॒ग्निर्भ᳚वति॒ यत्समि᳚द्धो मि॒त्रो होता॒ वरु᳚णो जा॒तवे᳚दाः ।
मि॒त्रो अ᳚ध्व॒र्युरि᳚षि॒रो दमू᳚ना मि॒त्रः सिन्धू᳚नामु॒त पर्व᳚तानाम् ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्॑इ᳚द्धः । मि॒त्रः । होता᳚ । वरु᳚णः । जा॒त॑वे᳚दाः ।
मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू᳚नाः । मि॒त्रः । सिन्धू᳚नाम् । उ॒त । पर्व᳚तानाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमृक् अग्निंसर्वात्मकत्वेनस्तौति यद्यदासमिद्धोग्निः तदामित्रोभवतिसूर्योभवति मित्रएवसन् होताभवति वरुणोभवति जातवेदाः जातप्रज्ञः समित्रः अध्वर्युर्भवति दमूनाःदानमनाः दान्त मनावासएवइषिरः प्रेरकोवायुर्भवति उतअपिच सिन्धूनांनदीनां पर्वतानांचमित्रः सहायो भवति ॥ ४ ॥