श्रवणम्

3.5.10
उद᳚स्तम्भीत्स॒मिधा॒ नाक᳚मृ॒ष्वो॒३॒᳚॑ग्निर्भव᳚न्नुत्त॒मो रो᳚च॒नाना᳚म् ।
यदी॒ भृगु᳚भ्य॒ः परि᳚ मात॒रिश्वा॒ गुहा॒ सन्तं᳚ हव्य॒वाहं᳚ समी॒धे ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒स्त॒म्भी॒त् । स॒म्॑इधा᳚ । नाक᳚म् । ऋ॒ष्वः । अ॒ग्निः । भव᳚न् । उ॒त्॑त॒मः । रो॒च॒नाना᳚म् ।
यदि᳚ । भृगु᳚॑भ्यः । परि᳚ । मा॒त॒रिश्वा᳚ । गुहा᳚ । सन्त᳚म् । ह॒व्य॒॑वाह᳚म् । स॒म्॑ई॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋष्वोमहानग्निः समिधातेजसानाकंस्वर्गं उदस्तंभीत् उदस्तभ्रात् रोचनानांशोभनानांतेजसां मध्ये उत्तमोभवन् उत्कृष्टतमोभवन् मातरिश्वावायुः भृगुभ्यः आदित्यस्यरश्मिभ्यः परिपरितः गुहागुहायांसन्तं हव्यवाहं हव्यानांवोढारमग्निं यदियदासमीधेसमैधत तदानाकंअस्तभ्नादिति संबन्धः ॥ १० ॥