तृतीयं मण्डलम् - सूक्तम् 7

11 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.7 - सम्पूर्णम्

1 / 11
ऋक्: 3.7.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
3.7.1
प्र य आ॒रुः शि᳚तिपृ॒ष्ठस्य᳚ धा॒सेरा मा॒तरा᳚ विविशुः स॒प्त वाणी᳚ः ।
प॒रि॒क्षिता᳚ पि॒तरा॒ सं च᳚रेते॒ प्र स᳚र्स्राते दी॒र्घमायु᳚ः प्र॒यक्षे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ये । आ॒रुः । शि॒ति॒॑पृ॒ष्ठस्य᳚ । धा॒सेः । आ । मा॒तरा᳚ । वि॒वि॒शुः॒ । स॒प्त । वाणीः᳚ ।
प॒रि॒॑क्षिता᳚ । पि॒तरा᳚ । सम् । च॒रे॒ते॒ इति᳚ । प्र । स॒र्स्रा॒ते॒ इति᳚ । दी॒र्घम् । आयुः᳚ । प्र॒॑यक्षे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यन्नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

शितिपृष्ठस्य नीलपृष्ठस्य धासेः सर्वस्य धारयितुरग्नेः ये रश्मयः प्र आरुः प्रकर्षेणोद्गच्छन्ति ते रश्मयः मातरा मातरौ द्यावापृथिव्यौ आ विविशुः सर्वतः प्रविष्टाः । सप्त सर्पणस्वभावाः वाणीः वननीया निदिश्चाविविशुः । परिक्षिता परितो वर्तमाने पितरा पितरौ द्यावापृथिव्यौ तेनाग्निना सं चरेते सम्यक् व्यवहरतः । तथा प्रयक्षे प्रकर्षेण युष्टुं दीर्घमायुः अग्नेश्चिरं जीवनं प्रभूतमन्नं वा प्र सर्स्राते प्रसारयतः । संपादयत इत्यर्थः । यद्वा द्यावापृथिव्यौ प्रयक्षे प्रकर्षेण सततं युष्टुं यजमानस्य दीर्घमायुः संपादयतः ॥ प्र । निपातत्वेनाद्युदात्तः । तस्य छन्दसि ‘व्यवहिताश्च” इति आरुरित्यनेन संबन्धः । आरुः । ‘ऋ गतौ’ । लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । शितिपृष्ठस्य । पृष्ठशब्दस्थकूप्रत्ययान्तोऽन्तोदात्तः । ‘शितेर्नित्याबह्वज्बहुव्रीहावभसत्’ (पा. सू. ६.३.१३८) इत्युत्तरपदप्रकृतिस्वरत्वम् । धासेः । ‘डुधाञ् धारणपोषणयोः” । ‘धेट् पाने’ वा । तस्मात् कर्तर्यौणादिकः सिः । प्रत्ययस्वरः । मातरा । ‘नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृपितृजामातृदुहितृ’ ९उ.सू.३.१५३) इति तृजन्तत्वेन निपातनादन्तोदात्तः । ‘ऋतो डिं’ ९पा. सू. ७.३.११०) इति गुणः । ‘सुपां सुलुक्’ इति सुपो डादेशः । विविशुः । ‘विश प्रवेशने’ । लिटि ‘असंयोगाल्लिट्कित्’ इति किद्वद्भावाद्गुणाभावः । निधातः । सप्त । ‘सृप्लृ गतौ’ । ‘सप्तशूभ्यां तद् च ९उ.सू.१.१५५) इति सपेर्विधियमानः कनिन् तुडागमश्च बाहुलकादेतस्यापि भवति । ॠकारस्याकारश्च । नित्त्वेऽपि व्यत्ययेनान्तोदात्तत्वम् । परिक्षिता । ‘क्षि निवासगत्योः’ । ‘किप् च’ इति किप् । पित्त्वात तुगागमः । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्’ इति सुपो डादेशः । चेरेते । ‘चर गतिभक्षणयोः’ । संपूर्वाच्चरतेः ‘समस्तृतीयायुक्तात्’ (पा.सू.१.३.५४) इत्यात्मनेपदम् । निधातः । सर्स्राते । ‘सृगतौ’ । अयमन्तर्भावितण्यर्थः । रेफ्ल्श्छान्दसः । ‘ईदूदेत् ’ इतिप्रगृह्यसंञा । निधातः । आयुः । इण् गतौ । उसिन्नित्यनुवृत्तौ एतेणिच्चेत्युसिन् णित्त्वाद्वृद्धिः । नित्वादाद्युदात्तः प्रयक्षे यज देवपूजासंगतिकरणदानेष्वित्यस्मात्तुमर्र्थे सेन्प्रत्ययः । प्रदिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृन्मेजंत इत्यव्ययसंज्ञायां अप्ययादाप्सुप इति सुपो लुक् ॥

3.7.2 समानपद
दि॒वक्ष᳚सो धे॒नवो॒ वृष्णो॒ अश्वा᳚ दे॒वीरा त᳚स्थौ॒ मधु᳚म॒द्वह᳚न्तीः ।
ऋ॒तस्य᳚ त्वा॒ सद᳚सि क्षेम॒यन्तं॒ पर्येका᳚ चरति वर्त॒निं गौः ॥
▶ पदपाठः (Word-by-word)
दि॒वक्ष᳚सः । धे॒नवः᳚ । वृष्णः᳚ । अश्वाः᳚ । दे॒वीः । आ । त॒स्थौ॒ । मधु᳚॑मत् । वह᳚न्तीः ।
ऋ॒तस्य᳚ । त्वा॒ । सद᳚सि । क्षे॒म॒॑यन्त᳚म् । परि᳚ । एका᳚ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्णः कामानां वर्षितुरग्नेरश्वा वाहनरूपा रोहिता दिवक्षसो दिवं व्यापरिवर्तमाना धेनवोऽग्नेः प्रीणयित्र्यो भवंति । सोऽयमग्निर्मधुमत् माधुर्योपेतमुदकं वहंतीर्देविर्द्योतनशीला नदीरातस्थौ । आतिष्ठति । प्राप्नोतीत्यर्थः । गोशब्दो माध्यमिकवाग्वाचे माध्यमिकां वाचमिति नैरुक्ता इत्यभिधानात् । एका गौः काचिदुक्तविधा वाक् ऋतस्योदकस्य सदसि स्थानेऽन्तरिक्षे क्षेमयंतं क्षेममावासमिच्छंतं वर्तनिं ज्वलाः प्रवर्तयंतं त्वा हे अग्ने त्वां परिचरति । सेवते ॥ दिवक्षसः । अक्षू व्याप्तौ । दिवं व्याप्न्य्वंतीति दिवक्षसः । वक्ष शोषे । रोषार्थोऽप्ययं धातुरत्र व्याप्तौ वर्तते । दिवं वक्षंति व्याप्नुवंतीति । असुन्नित्यसुन् प्रत्ययः । लोपो व्योर्वलीति वलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । धेनवः । नुरित्यनुवृत्तौ धेट इच्चेति अनुप्रत्ययः । इकारस्य गुणः । प्रत्ययस्वरः । वृष्णः । वृषसेचने । कनिन्युवृषितक्षिराजीत्यादिना कनिन् । कित्त्वद्गुणाभावः । नित्त्वादाद्युदात्तः । अश्वाः । अशू व्याप्तौ । अशिप्रषिलटिकणीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तस्थौ । ष्ठा गतिनिवृत्तौ । छंदसि लुङ्ल ङ्लिट इति वर्तमाने लित् । अत औ णल इत्यौकारः । निघातः । मधुमत् । निदित्यनुवृत्तौ फलिपाटिनमिमनिजनामित्यादिना मनेरुप्रत्ययः । तत्सन्नियोगेन नकारस्य धकारः नित्त्वादाद्युदात्तः । त्वा । यष्छच्छब्दस्य द्वितीयैक वचनांतस्य त्वामाविति त्वादेशः । अनुदात्तश्च । क्षेमयंतम् । क्षि निवासगत्योः । अर्तिस्तुसुहुसृधृक्षीत्यादिना मन् । क्षेममावासमात्मन इच्छंतम् । सुप आत्मनः क्यजिति कृच् । क्यचि जेतीत्वं अकृत्सार्वधातुकयोर्दीर्घ इति दीर्घत्वं च न छंदस्य पुत्रस्येति प्रतिषिध्यते । क्यचश्चित्त्वादंतोदात्तः । तदंताच्छतृप्रत्ययः । तप् । तपः पित्त्वादनुदात्तत्वं शतुश्च सार्वधातुकस्वरेण । तयोः क्यचा सहैकादेशे कृते ऎकादेश उदात्तेनोदात्त इत्येकादेश उदात्तः । अम् । सुप्त्वादनुदात्तः । उदात्तादनुदात्तस्येत्यमः स्वरितत्वम् । एका । इण् गतौ । इण्छीकापेत्यादिना कन् । तदंतादाप् । नित्स्वरः । वर्तनिम् । वृतु वर्तने । अंतर्भावितण्यर्थः । वृतेश्च (उ २-१०७) इत्यनिः गुणः । व्यत्ययेनांतोदात्तत्वम् । गौः । ग्म्लृगतौ गमेर्डोः (उ २-६७) इति डो प्रत्ययः । डित्त्वाट्टिलोपः । गोतो णिदिति सुपोणित्त्वाद्वृद्धिः । प्रत्ययस्वरः ॥ २ ॥

3.7.3
आ सी᳚मरोहत्सु॒यमा॒ भव᳚न्ती॒ः पति᳚श्चिकि॒त्वान्र᳚यि॒विद्र᳚यी॒णाम् ।
प्र नील᳚पृष्ठो अत॒सस्य᳚ धा॒सेस्ता अ᳚वासयत्पुरु॒धप्र᳚तीकः ॥
▶ पदपाठः (Word-by-word)
आ । सी॒म् । अ॒रो॒ह॒त् । सु॒॑यमाः᳚ । भव᳚न्तीः । पतिः᳚ । चि॒कि॒त्वान् । र॒यि॒॑वित् । र॒यी॒णाम् ।
प्र । नील᳚॑पृष्ठः । अ॒त॒सस्य᳚ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒ध॑प्र᳚तीकः ॥
▶ सायणभाष्यम् (Sayana Commentary)

रयीणां रयिवित् धानानां मध्ये विशिष्ट धनस्य संभयिता चिकित्वान् ज्ञानवान् पतिरश्वानां पतिरग्निः सीं सर्वतः सुयमाण् सुखेन नियंतुं शक्या भवंतीर्यावडवा आरोहत् आरोहयति स्म नीलपृष्ठः पुरुधप्रतीको बहुधाविक्षिप्तांगः सोऽग्निरतसस्य सततगमनस्य धासेः पोषणार्थं ता अश्वाः प्रावासयत् । प्रकर्षेण वासयति स्म । निवासेन शरमेऽपनीते सततगमनं पोषयितुं शक्यमित्यर्थः ॥ सीम् । जादयोऽनुदात्ता इत्यनुदात्तः । आरोहत् रुह प्रादुर्भावे । लङ् रूपम् । निघातः सुयमाः । यम उपरमे । अस्माच्छक्यार्थ ईषद्दुसुष्विति खल् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पति । पा रक्षणे । पातेर्डतिरिति डित्त्वाट्टिलोपः प्रत्ययस्वरः । चिकित्वान् । चिति संज्ञाने । क्वसौ रूपम् । रयिवित् । विद्लृलाभे क्विप् । रयीणां नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । नीलपृष्ठः । नीलशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अतसस्य । अत सातत्यगमन इत्यस्मादत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्यः । उ-११२ । इत्यसच् । चित्स्वरः । अवासयत् । वस निवासे । हेतुमतीति णिच् । लुङ् लृङ् क्ष्वडित्यडागमः । तिङ्ग तिङ इति निघतः । पुरुधप्रतीकः । पुशब्द इह संख्यावाची । संख्याया विधार्थे धेति धाप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ह्रस्वश्छांदसः ॥ ३ ॥

3.7.4
महि᳚ त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं स्त᳚भू॒यमा᳚नं व॒हतो᳚ वहन्ति ।
व्यङ्गे᳚भिर्दिद्युता॒नः स॒धस्थ॒ एका᳚मिव॒ रोद᳚सी॒ आ वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
महि᳚ । त्वा॒ष्ट्रम् । ऊ॒र्जय᳚न्तीः । अ॒जु॒र्यम् । स्त॒भु॒॑यमा᳚नम् । व॒हतः᳚ । व॒ह॒न्ति॒ ।
वि । अङ्गे᳚भिः । दि॒द्यु॒ता॒नः । स॒ध॑स्थे᳚ । एका᳚म्॑इव । रोद᳚सी॒ इति᳚ । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उर्जयंतीरबलं बलिनं कुर्वंत्यो वहतो वहनपरा नद्यो महि महांतम् त्वाष्ठ्रं त्वष्ट्रुः सुतमजुर्यं जरयितुमनर्हं स्तभूयमानं लोकानां स्तंभनं धारणमिच्छंतमग्निं वहंति । धारयंति । सधस्थेऽपां समीपेंऽगेभिरवयवैर्दिद्युतानो दीप्यमानः सन् अग्नी रोदसी द्यावा पृथिव्यौ व्याविवेश । विविधं प्रविष्टवान् । रोदस्योर्दृष्टांतः । एकामिव । यथा पुमानेकां स्त्रियं प्रविशति । तद्वत् ॥ त्वाष्ट्रम् । त्वष्टुरपत्यमित्यर्थे तस्यापत्यमित्यण् । प्रत्ययस्वरः । स्तभूयमानम् । स्तुभु स्तंभनम् । तदिच्छंतम् । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः । तदंताद्व्यत्ययेन शानच् । अकारांतत्वादाने मुक् । शानचोलसार्वधातुकस्वरेणातुदात्तत्वे कृते क्यजंताद्धातुस्वरः शिष्यते । अंगेभिः । बहुलं चंदसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । दिद्युशानः । द्युत दीप्तौ । छंदसि लिट् । तस्य कानजादेश । द्विर्वचनं हलादिशेषे कृते द्यु इत्यसाभ्यासस्य द्युतिस्य्व्व्प्योः संप्रसारनम् । पा. ७-४-६७ । इति संप्रसारणम् । संप्रसारणाच्चेति पूर्वरूपत्वम् । चित्त्वादंतोदात्तत्वम् । एकामिव । इवेन विभक्त्यलोपः पुर्व पदप्रकृति स्वरत्वं चेति वचनात्पूर्वपदप्रकृतिस्वरः । विवेश विश प्रवेशन इत्यस्माल्लिटि रूपम् । निघातः ॥ ४ ॥

3.7.5 समानपद
जा॒नन्ति॒ वृष्णो᳚ अरु॒षस्य॒ शेव᳚मु॒त ब्र॒ध्नस्य॒ शास᳚ने रणन्ति ।
दि॒वो॒रुचः᳚ सु॒रुचो॒ रोच᳚माना॒ इळा॒ येषां॒ गण्या॒ माहि᳚ना॒ गीः ॥
▶ पदपाठः (Word-by-word)
जा॒नन्ति᳚ । वृष्णः᳚ । अ॒रु॒षस्य᳚ । शेव᳚म् । उ॒त । ब्र॒ध्नस्य᳚ । शास᳚ने । र॒ण॒न्ति॒ ।
दि॒वः॒॑रुचः᳚ । सु॒॑रुचः᳚ । रोच᳚मानाः । इळा᳚ । येषा᳚म् । गण्या᳚ । माहि᳚ना । गीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्णः कामानां वर्षितुरुरुषस्य रुषा हिंसकाः । तद्रहितस्य । शत्रुराहित्येन रोचमानस्येत्यर्थः । तथाविधस्याग्नेः शेवमाश्रयविषयं सुखं जना जानंति । उत अपि च जानंतस्ते ब्रध्नस्य महतोग्नेः शासन आज्ञायां सर्वे जना रणंति । रमंते । तथा च मंत्रः । म १-६०-२ । अस्य शासुरुभयासः सचंते हविष्मंत तीळा गीः स्तुतिरूपा वाक् गण्या गणनीया पूज्या ते दिवोरुचो द्युलोकस्य रोचकाः सुरुचः शोभनदीप्ययो रोचमाना देदीप्यमाना भवंति ॥ जानंति । ज्ञा अवरोधने । क्र्यादित्वात्तस्य ज्ञा जनोर्जेति जादेशः । प्रत्ययस्वरः । आरुषस्य । रुष रिष हिंसार्थाः । रोशंतीति रुशा हिंसकाः । इगुपधज्ञेति कः । न संति रुषा यस्यासावरुषः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । शेवम् । शीङ् स्वप्ने । इण् शीङ्भ्यां वन्निति वन् नित्स्वरः । शासने शासु अनुशिष्टौ । अस्माद्भावे स्युट् । लिटीति प्रत्ययात्पूर्वस्योदात्तत्त्वं रणंति । निघातः । दिवोरुचः । रुच दीप्तौ । अस्मात्क्विप् । तत्पुरुषे कृति बहुलमिति षष्ठ्या आलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुरुचः । बहुव्रीहौ न ञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । इळा । ईळ स्तुतौ । ह्रस्वश्छांदसः । यथा वाक्यब्दष्ट्वाबंतस्तद्वत् । पित्त्वदनुदात्तत्वे धातुस्वरह् । गण्या । गणसंख्याने । स्वार्थे ण्यंतादचोयत् । यतोऽनाव इत्याद्युदात्तत्वम् । महिना । मनेरिनण् चेति इनण् । णित्त्वादुपधावृद्धिः । व्यत्ययेनाद्युदात्तः । गीः । गॄ शब्दे । अस्मात्क्विप् । ॠत इद्धातोरितीत्वम् । र्वोरुपधाया इति दीर्घः । प्रातिपदिक स्वरः ॥ ५ ॥

3.7.6
उ॒तो पि॒तृभ्यां᳚ प्र॒विदानु॒ घोषं᳚ म॒हो म॒हद्भ्या᳚मनयन्त शू॒षम् ।
उ॒क्षा ह॒ यत्र॒ परि॒ धान᳚म॒क्तोरनु॒ स्वं धाम᳚ जरि॒तुर्व॒वक्ष᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । पि॒तृ॑भ्या᳚म् । प्र॒॑विदा᳚ । अनु᳚ । घोष᳚म् । म॒हः । म॒हत्॑भ्या᳚म् । अ॒न॒य॒न्त॒ । शू॒षम् ।
उ॒क्षा । ह॒ । यत्र᳚ । परि᳚ । धान᳚म् । अ॒क्तोः । अनु᳚ । स्वम् । धाम᳚ । ज॒रि॒तुः । व॒वक्ष᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपि च महतो महद्भ्यां पितृभ्यां द्यावापृथिवीभ्यां प्रविदा प्रवेदनेनानु घोषमनु घुष्यमाणं शूषं सुखम् । शूषं शुनमिति श्खनामसु पाठात् । तत्सुखं यजमाना अग्निमनयंत । अग्निं प्रपितवंतः । सोऽग्निर्यत्र यजमानेषूक्षा वृष्ट्युत्पादनेनोदकस्य सेक्ताक्तोः । अक्तुशब्दो रात्रमाचष्टे शर्वरी अक्तुरिति तन्नामसु पाठात् आज्यते सिच्यते नीहारेण जगदस्यामिति व्युत्पत्तेश्च । तस्या रात्रेः परिधानं परितो धारकं स्वमात्मियं धामतेजो जरितुः स्तोतुः स्तुतिश्रवणार्थमनु ववक्ष ह । समीपे वहति खलु । सन्निहितं करोतीत्यर्थः । उतो । ऊदिति प्रगृह्यसंज्ञा । एवमादित्वादंतोदात्तः । घोषं घुषिर् शब्दे अस्मात्कर्मणि घञ् । सघूपधगुणः । ङित्स्वरः । महः । अकारतकारयोर्लोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । अनयम्त णीञ् प्रापण इत्यस्य लङि रूपं निघातः । उक्षा । उक्षसेचने । स्वन्नुक्षन्नित्यादिना कनिप्रत्ययांतत्वेनोक्शन् शब्दो निपातितः । व्यत्ययेनांतोदात्तः । ह चादित्वानुदात्तः । यत्र लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अक्तोः । अंजू व्यक्तिगतिम्रक्षणेष्वित्यस्मात् व्याज्यर्तिभ्यः क्तुरिति क्तुः । कित्त्वादनिदितामिति नलोपः । प्रत्ययस्वरः । ववक्ष । वह प्रापणे । छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । सकारश्छांदसः । तिपो णलादेशः । लितीति प्रत्ययात्पूर्वस्यो दात्तत्वं ॥ ६ ॥

3.7.7
अ॒ध्व॒र्युभि᳚ः प॒ञ्चभि᳚ः स॒प्त विप्रा᳚ः प्रि॒यं र᳚क्षन्ते॒ निहि᳚तं प॒दं वेः ।
प्राञ्चो᳚ मदन्त्यु॒क्षणो᳚ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥
▶ पदपाठः (Word-by-word)
अ॒ध्व॒र्यु॑भिः᳚ । प॒ञ्च॑भिः᳚ । स॒प्त । विप्राः᳚ । प्रि॒यम् । र॒क्ष॒न्ते॒ । नि॑हि᳚तम् । प॒दम् । वेरिति॒ वेः ।
प्राञ्चः᳚ । म॒द॒न्ति॒ । उ॒क्षणः᳚ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना᳚म् । अनु᳚ । हि । व्र॒ता । गुरिति॒ गुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उद्गातृवर्गव्यतिरिक्ता द्वादशर्त्विजो भवंति । तत्र सप्त वष्ट्कर्तारः । पंचान्येऽध्वरं नयंति । तैः पंचभिरध्वर्युभिः सह सप्त विप्रा मेधाविनो होत्रका वेर्गमनस्वभावस्याग्नेः प्रियं निहितमाहवनीयाख्यं पदं रक्षंते । पालयंति । प्रांचः सोमपानार्थं प्राङ्मुखा गच्छंतोऽजुर्या जरयितुमशक्या उक्षणः सोमरसस्य सेक्तारो देवाः स्तोतारो मदंति । हृष्यन्ति । किंच ते देवा देवानां संबन्धीनि व्रता व्रतानि यज्ञानुगुः । अन्वगच्छन् । हि प्रसिद्धौ । अग्नेः प्रसादाद्देवा यज्ञान् लब्धवन्त इत्यर्थः । रक्षन्ते । रक्श पलने । व्यत्ययेनात्मने पदम् । निघातः । निहितम् । डुधाञ् धारण पोषणयोरित्यस्य कर्मणि निष्ठायां दधातेर्हितिरि हिरादेशः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । वेः । वी कांतिगत्यादिषु । अस्माद्विच् । सार्वधातुकार्धधातुकयोः । पा. ७-३-८४ । इति गुणः । ङसि ङिसोश्चेति पूर्वरुपत्वम् । प्रांचः । अनिगंतोऽञ्चचाविति पूर्वपदप्रकृतिस्वरत्वम् । मदन्ति । मदी हर्षे । निघातः । गुः । इण् गतावित्यस्माल्लुङि रूपम् । इणो गा लुङीति गादेशः । अत इति झेर्जुसादेशः । बहुलं छन्दसीत्यडभानः । हितब्दयोगान्ननिहन्यते ॥ ७ ॥

3.7.8
दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः᳚ स्व॒धया᳚ मदन्ति ।
ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र᳚त॒पा दीध्या᳚नाः ॥
▶ पदपाठः (Word-by-word)
दैव्या᳚ । होता᳚रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः᳚ । स्व॒धया᳚ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस᳚न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु᳚ । व्र॒तम् । व्र॒त॒॑पाः । दीध्या᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैव्या दैव्यौ देवातारूपौ होतारा होतारौ होमनिष्पादकौ प्रथमा प्रथमौ मुख्याविमं चामुं चाग्नीन्यृन्जे । ऋन्जतिः प्रसाधनकर्मेति यास्कः । मन्त्रद्रष्टा विश्वामित्रोऽहं प्रसाधयामि । सप्त पृक्षासः सप्त होत्रकाः स्वधया सोमेन मदन्ति । ह्यष्यन्ति । ऋतं स्तोत्रं शंसन्तो व्रतपा व्रतस्य यज्ञ कर्मणो रक्षितारो दीध्याना दीप्यमानास्ते होत्रका अनुव्रतं यज्ञे कर्मणि ऋतमित् सत्यमेवाग्निमाहुः । वदन्ति । ऋन्जे । ऋजि भृजी भर्जने । निपोर्वोऽयं धातुः प्रसाधने वर्तते । निघातः । स्वधया स्वं लोकं यजमानस्य दधाति विदधातीति स्वधा सोमः । अतोनुपसर्गे क इति कः । कृदुत्तरपदप्रकृतिस्वरत्वम् । आहुः । ब्रूञ् व्यक्तायां वाचीत्यस्य लटि ब्रुवः पञ्चानामादित आहो ब्रुव इति झेरुसादेशो ब्रुवश्च आहादेशः । निघातः । दीध्यानाः । दीधीङ् दीप्ति देवनयोरित्यस्माच्छानच् । तस्य चित्त्वादंतोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्त्याद्युदात्तत्वं ॥ ८ ॥

3.7.9
वृ॒षा॒यन्ते᳚ म॒हे अत्या᳚य पू॒र्वीर्वृष्णे᳚ चि॒त्राय᳚ र॒श्मयः᳚ सुया॒माः ।
देव᳚ होतर्म॒न्द्रत᳚रश्चिकि॒त्वान्म॒हो दे॒वान्रोद᳚सी॒ एह व᳚क्षि ॥
▶ पदपाठः (Word-by-word)
वृ॒ष॒॑यन्ते᳚ । म॒हे । अत्या᳚य । पू॒र्वीः । वृष्णे᳚ । चि॒त्राय᳚ । र॒श्मयः᳚ । सु॒॑या॒माः ।
देव᳚ । हो॒तः॒ । म॒न्द्र॑त᳚रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद᳚सी॒ इति᳚ । आ । इ॒ह । व॒क्षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव देदीप्यमाना होतर्देवानामाह्वातः हे अग्ने महे महतेऽथाय सर्वानप्यतिक्रम्य वर्तमानाय चित्राय नानाविधवणाय । यद्वा चित्राय देवैश्चायनीयाय पूज्याय । वृष्णे कामानां वर्षित्रे तुभ्यं त्वदर्थं पूर्वीः प्रभूताः सुयामा अतिशयेन विस्तृता रश्मयः सर्वतो व्याप्ता ज्वाला वृषयन्ते । वृषेमचरन्ति । सेचका इव भवन्ति होतारो ज्वालाभिः समिद्धमग्निं दृष्ट्वा सोमाज्यपयः प्रभृतीनि हवींषि तत्र प्रक्षिपन्तीति ज्वालानां वृषत्वं यद्वा षष्ट्यर्थे चतुर्थी । तथा च महतोऽत्यस्य चित्रस्य वृय्ष्णोऽग्नेर्बहवो रश्मयो वृषेवाचरन्ति । वृष्ट्युत्पादनद्वारा पर्जन्यवदाचरन्तीत्यर्थः अपि च । मन्द्रतरो यजमानस्य मादयितृतमश्चिकित्वान् ज्ञानोपेतः स त्वं महो महतः पूज्यान् यष्टव्यान् देवान् रोदसी द्यावापृथिव्यौ चेह वैदिकेऽस्मिन्कर्मण्यावक्षि । आवह । वृषायंते । उपमानादित्यनुवृत्तौ कर्तु क्यङ् सलोपश्चेति क्यङ् । अकृत्सार्वधातुकयोरिति दीर्घः । पादादित्वान्न निघातः । धातुस्वरः । महे । अकारतकारयोर्लोपश्छान्दसः । बृहन्महतोरिति विभक्तेरुदात्तत्वम् । पूर्वीः । पॄ पालनपूरणयोरित्यस्मात् कुरित्यनुवृत्तौ पॄभिदिव्यधिग्धीत्यादिना कुप्रत्ययः । कित्त्वद्गुणप्रतिषेधे उदोष्ठ्यपूर्वस्येत्युत्त्वम् । उरण् रपरः । तस्माद्वोतो गुणवचनादिति ङीष् । यणादेशे कृते हलि चेति दीर्घः । वा छंदसीति सवर्णदीर्घः । रश्मयह् । अशू व्याप्तौ । अश्नुवते सर्वं जगदिति मिरित्यनुवृत्तौ अश्नोते रश्च । उ. ४-४६ । इति विप्रत्ययो रशादेशश्च । प्रत्ययस्वरः । सुमयाः । यमनं यामः । भावे घङ् । बहुव्रीहौ नङ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । देव । अपादादाविति पर्युदासात्षाष्ठिकमाद्युदात्तत्वम् । होतः । ह्वयतेस्ताच्छीलिकस्तृन् । बहुलं छंदसीति संप्रसारणम् । अपादाद्यामन्त्रितत्वान्निन्नुम् । तरपः पित्त्वादनुदात्तेत्वे रक्प्रत्ययस्वरह् । वक्षि । वह प्रापण इत्यस्य बहुलं छन्दसीति शपो लुक् । टत्वकत्वषत्वानि । निघातः ॥ ९ ॥

3.7.10
पृ॒क्षप्र᳚यजो द्रविणः सु॒वाचः᳚ सुके॒तव᳚ उ॒षसो᳚ रे॒वदू᳚षुः ।
उ॒तो चि᳚दग्ने महि॒ना पृ᳚थि॒व्याः कृ॒तं चि॒देन॒ः सं म॒हे द᳚शस्य ॥
▶ पदपाठः (Word-by-word)
पृ॒क्ष॑प्र᳚यजः । द्र॒वि॒णः॒ । सु॒॑वाचः᳚ । सु॒॑के॒तवः᳚ । उ॒षसः᳚ । रे॒वत् । ऊ॒षुः॒ ।
उ॒तो इति᳚ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः᳚ । सम् । म॒हे । द॒श॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्रविणः । द्रवति सततम् गच्छतीति द्रविणः शब्देनाग्निरभिधीयते । द्रविणः सततगमनस्वभाव हे अग्ने पृक्षप्रयजः पृक्षाणि हविर्लक्षणान्यन्नानि प्रकर्षेण यष्टुं प्रक्रम्यते यासूषःसु ताः पृक्षप्रयजः सुवाचः प्रातरनुवाकादिशोभना वाचोवासान्ताः । सुकेतवो वयसां मनुष्याणां च शब्दैः सुप्रज्ञानाः । एवं विधा उषसो रेवत् अस्माकं धनयुक्तं यथा भवति तथोषुः व्युच्छंति । उतो चित् अपि च हे अग्ने पृघिव्या विस्तीर्णाया ज्वालाया महिना महत्त्वेन कृतं संपादितं चित् यत्किंचिदेनः प्राण्युपघातादिलक्षणं पापं महे महते यजमानाय मह्यं मदर्थं संदशस्य । संक्षपय । पृक्षप्रयजः अन्येभ्योऽपि दृश्यंत इतिकर्मणि विच् दृशिग्रहणादधिकृतो भवतीत्युक्तम् । बहुव्रीहित्वात्पूर्वपद प्रकृतिस्वरत्वम् । द्रविणः । द्रु गतावित्यस्मात् द्रुदक्षिभ्यामिनन्नितीनप्रत्ययः । गुणावादेशौ । संबुद्धौ सोर्लोपाभावश्छान्दसः आमन्त्रितत्वान्निघातः । सुवाचः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । रेवत् रयिर्धनमस्मिन्विद्यत इति मशुप् । ह्रस्वनुड्भ्यामिति मतुबुदात्तः । छन्दसीर इति वत्वम् । रयेर्मतौ बहुलं छन्दसीति सम्प्रसारारणम् । परपूर्वत्वे गुणः । ऊषुः । उष दाहे । दाहार्थोऽप्ययं धातुरत्र प्रकाशने वर्तते । छन्दसि लुङ्गिति वर्तमाने लिट् । उसि रूपम् । निघातः । पृथिव्याः । प्रथ प्रख्यान इत्यस्मात्प्रथेः षिवन् सम्प्रसारणं चेति षिवन्प्रत्ययः । तत्सन्नियोगेन धातोः सम्प्रसारणम् । षिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । उदात्तयणो हल्प्र्वादिति विभक्तेरुदात्तत्वम् । दशस्य । निघातः ॥ १० ॥

3.7.11
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श᳚श्वत्त॒मं हव᳚मानाय साध ।
स्यान्न᳚ः सू॒नुस्तन᳚यो वि॒जावाग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
इळा᳚म् । अ॒ग्ने॒ । पु॒रु॒॑दंस᳚म् । स॒निम् । गोः । श॒श्व॒त्॑त॒मम् । हव᳚मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन᳚यः । वि॒जा॑वा᳚ । अ॒ग्ने॒ । सा । ते॒ । सु॒॑म॒तिः । भू॒तु॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पुरुदंसम् । आपोऽप्नो वेष इति कर्मनाममसु पठितत्वाद्दंसः शब्दः कर्मवाची । पुरूणि बहूनि दंसांसि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमन्निरन्तरं हवमानाय यजमानाय मह्यं साधः साधय । किञ्चनोस्ऽमाकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवत्विति ते तव या सुमतिः शोधना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटव्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनी प्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यंत इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतम् । भू सत्तायाम् । बहुलं छन्दसीति शपो लुक् । भूसुवोस्तीङीति गुणप्रतिषेधः ॥ ११ ॥