श्रवणम्

3.7.8
दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः᳚ स्व॒धया᳚ मदन्ति ।
ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र᳚त॒पा दीध्या᳚नाः ॥
▶ पदपाठः (Word-by-word)
दैव्या᳚ । होता᳚रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः᳚ । स्व॒धया᳚ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस᳚न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु᳚ । व्र॒तम् । व्र॒त॒॑पाः । दीध्या᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैव्या दैव्यौ देवातारूपौ होतारा होतारौ होमनिष्पादकौ प्रथमा प्रथमौ मुख्याविमं चामुं चाग्नीन्यृन्जे । ऋन्जतिः प्रसाधनकर्मेति यास्कः । मन्त्रद्रष्टा विश्वामित्रोऽहं प्रसाधयामि । सप्त पृक्षासः सप्त होत्रकाः स्वधया सोमेन मदन्ति । ह्यष्यन्ति । ऋतं स्तोत्रं शंसन्तो व्रतपा व्रतस्य यज्ञ कर्मणो रक्षितारो दीध्याना दीप्यमानास्ते होत्रका अनुव्रतं यज्ञे कर्मणि ऋतमित् सत्यमेवाग्निमाहुः । वदन्ति । ऋन्जे । ऋजि भृजी भर्जने । निपोर्वोऽयं धातुः प्रसाधने वर्तते । निघातः । स्वधया स्वं लोकं यजमानस्य दधाति विदधातीति स्वधा सोमः । अतोनुपसर्गे क इति कः । कृदुत्तरपदप्रकृतिस्वरत्वम् । आहुः । ब्रूञ् व्यक्तायां वाचीत्यस्य लटि ब्रुवः पञ्चानामादित आहो ब्रुव इति झेरुसादेशो ब्रुवश्च आहादेशः । निघातः । दीध्यानाः । दीधीङ् दीप्ति देवनयोरित्यस्माच्छानच् । तस्य चित्त्वादंतोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्त्याद्युदात्तत्वं ॥ ८ ॥