श्रवणम्

3.7.11
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श᳚श्वत्त॒मं हव᳚मानाय साध ।
स्यान्न᳚ः सू॒नुस्तन᳚यो वि॒जावाग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
इळा᳚म् । अ॒ग्ने॒ । पु॒रु॒॑दंस᳚म् । स॒निम् । गोः । श॒श्व॒त्॑त॒मम् । हव᳚मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन᳚यः । वि॒जा॑वा᳚ । अ॒ग्ने॒ । सा । ते॒ । सु॒॑म॒तिः । भू॒तु॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पुरुदंसम् । आपोऽप्नो वेष इति कर्मनाममसु पठितत्वाद्दंसः शब्दः कर्मवाची । पुरूणि बहूनि दंसांसि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमन्निरन्तरं हवमानाय यजमानाय मह्यं साधः साधय । किञ्चनोस्ऽमाकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवत्विति ते तव या सुमतिः शोधना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटव्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनी प्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यंत इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतम् । भू सत्तायाम् । बहुलं छन्दसीति शपो लुक् । भूसुवोस्तीङीति गुणप्रतिषेधः ॥ ११ ॥