तृतीयं मण्डलम् - सूक्तम् 16

6 ऋचः

ऋषिः: उत्कीलः कात्यः देवता: अग्निः छन्दः: बृहती

सूक्तम् 3.16 - सम्पूर्णम्

1 / 6
ऋक्: 3.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
3.16.1 समानपद
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे᳚ म॒हः सौभ᳚गस्य ।
रा॒य ई᳚शे स्वप॒त्यस्य॒ गोम᳚त॒ ईशे᳚ वृत्र॒हथा᳚नाम् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒ग्निः । सु॒॑वीर्य᳚स्य । ईशे᳚ । म॒हः । सौभ᳚गस्य ।
रा॒यः । ई॒शे॒ । सु॒॑अ॒प॒त्यस्य᳚ । गो॑म᳚तः । ईशे᳚ । वृ॒त्र॒॑हथा᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्कील स्तौति । अयं यजनीयत्वेनाङ्गुल्या निर्दिश्यमानोग्निः सुवीर्यस्य शोभनसामर्थ्योपेतस्य महो महतः सौभगस्य सौभाग्यस्येशे । ईष्टे । ईश्वरो भवति । सर्वस्य बालारोग्यहेतुतया सौभागकारित्वात् । तथा गोमतो गवादिपशुयुक्तस्य स्वपत्यस्य शोभनापत्यस्य रायो धनस्येशे । ईष्टे । पुत्रपश्वाद्युद्देशेन क्रियमाण कर्मफलसम्पादकत्वेन तत्स्वामित्वात् । तथैवंभूतोऽग्निर्वृत्रहथानाम् । हननं हथः । शत्रुभूतपापविनाशनानामपीशे । ईष्टे । त्वयि समर्पितकर्मणामस्माकं त्वत्प्रसादात्पापक्षयो भवतीति तस्यापि स्वामी ॥ ईशे । ईश ऐश्वर्ये । आदादित्वाच्छल्प् लुक् । लोपस्य आत्मने पदेष्टिति तलोपः । पादादित्वादनिघातः । सौभगस्य सुभगस्य भावः सौभगम् । उद्गात्रादित्वादञ् । सर्वविधीनां छन्दसि विकल्पितत्वादत्रहृद्भगेत्यादिना प्राप्ताया उत्तरपदवृद्धेरभावः । रायः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ईशे । निघातः । स्वप्त्यस्य । नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । वृत्रहथानाम् । वृतु वर्तने । अस्मात् स्फायितञ्चिवञ्चीत्यादिना रक् प्रत्ययः । कित्त्वादगुणः । हन हिंसागत्योरित्यस्मात् हनिकुषिनीरमिकाशिभ्य इति क्थन् । कित्त्वादनुनासिक लोपः । कृदुत्तरपदप्रकृतिस्वरः ॥ १ ॥

3.16.2 समानपद
इ॒मं न᳚रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्राय॒ः शेवृ᳚धासः ।
अ॒भि ये सन्ति॒ पृत᳚नासु दू॒ढ्यो᳚ वि॒श्वाहा॒ शत्रु᳚माद॒भुः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध᳚म् । यस्मि᳚न् । रायः᳚ । शे॑वृ᳚धासः ।
अ॒भि । ये । सन्ति᳚ । पृत᳚नासु । दुः॒॑ध्यः᳚ । वि॒श्वाहा᳚ । शत्रु᳚म् । आ॒॑द॒भुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः कर्मणां नेतारो हे मरुतो देवा यूयं वृधं पशुपुत्रादिवर्धकमिममस्माभिः स्तूयमानमिममग्निं सश्चत । हविरानयनार्थं सेवध्वम् । कीदृशोऽग्निरित्याकाङ्क्षायामाह । यस्मिन्देवे रायो धनानि शेव्धासो दानभोगाद्युपयोगेन सखस्य वर्धकानि सन्ति । ये च देवाः पृतनासु सेनासु तदुपलक्षितेषु सङ्ग्रामेषु दूढ्यो दुष्ट ध्यानोपेतानात्मनो हिम्सकाञ्छत्रूनभिसन्ति । अभिभवन्ति । ये च विश्वाहा विश्वान्यहानि यस्मिन्नखण्डे काले तस्मिन्सर्वदा शत्रुमात्मनो द्वेष्टारमादभुः । आदभ्नुवन्ति । हिंसन्ति । एवं भूतास्ते सर्वे मरुतो यूयं तमिममग्निं सेवध्वमिति पूर्वेणान्वयः ॥ सश्चत । षस्ज सङ्ग इत्यस्माल्लोटि रूपम् । जकारस्य व्यत्ययेन चकारः । निघातः । शेवृधासः । वर्णव्यत्ययः । शं सुखं वर्धयतीति । असुन्नित्यसुन् । गुणाभावश्छान्दसः । सन्ति । अस भुवि । दूध्यः । ध्यै चिन्तायाम् । अन्येभ्योऽपि दृश्यत इति क्विप् । कृशिग्रहणात्सम्प्रसारणम् । दुरो दाशनाशदभध्येषूत्वं अक्त्व्यमुत्तरपदादेश्च ष्टुत्वमिति ऊत्वटत्वे । छन्दस्युभयथेति शसीयङादेशं जाधिश्वा यणादेशः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । शसः सुप्त्वादनुदात्तत्वे कृते उदात्तस्वरितयोर्यण इति शसः स्वरितत्वम् । आदभुः । दन्भु दम्भे । अस्माल्लिट्युसि रूपं श्रन्थिग्रन्थिदम्भिस्वञ्जीनामुपसंख्यानमिति किद्वद्भावादनुनासिकलोपः । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यमिति द्विर्वचनाभाव यद्वृत्तयोगादनिघातः । सति शिष्टस्वरो बलीयानिति प्रत्ययस्वरः ॥ २ ॥

3.16.3
स त्वं नो᳚ रा॒यः शि᳚शीहि॒ मीढ्वो᳚ अग्ने सु॒वीर्य᳚स्य ।
तुवि᳚द्युम्न॒ वर्षि᳚ष्ठस्य प्र॒जाव᳚तो॑नमी॒वस्य᳚ शु॒ष्मिणः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । रा॒यः । शि॒शी॒हि॒ । मीढ्वः᳚ । अ॒ग्ने॒ । सु॒॑वीर्य᳚स्य ।
तुवि᳚॑द्युम्न । वर्षि᳚ष्ठस्य । प्र॒जा॑व᳚तः । अ॒न॒मी॒वस्य᳚ । शु॒ष्मिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स तथाविधस्त्वं नोऽस्मान्रायः । तृतीयार्थे षष्ठी । धनेन शिशीहि । तीक्ष्णान् कुरु । अस्मान्थनसमृद्धान्कुरु । किञ्च तुविद्युम्न बहुधनोपेत अत एव मीध्वो मीध्वन् कामानां सेक्तः हे अग्ने त्वं वर्षिठ्ठस्य वृद्धतमस्य प्रभूतस्य प्रजावतोऽपत्ययुक्तस्यानमीवस्यारोग्यहेतोरत एव शुष्मिणो बलहेतोः सुवीर्यस्य शोभनसामर्थ्ययुक्तस्यान्नस्य सम्बन्धिनोऽस्मान्कुरु । यद्वा । एतत्सर्वं विशेषणतया योजनीयम् । एताः शष्ठ्यस्तृतीयार्थे । एतदुक्तं भवति । धेनानापत्यारोग्यशरीरबलोपेतेनान्नेनास्मान्समृद्धान्कुर्विति ॥ शिशीहि । शिञ् निशान इत्यस्य लोटी बहुलं छन्दसीति विकरणस्य श्लुः । वा छन्दसीति विकल्पेन ङित्वादङितश्चेति हेर्धिरादेशो नभवति । दीर्घश्छान्दसः । निघातः । मीढ्वः । मिह सेचन इत्यस्य क्वसौ दाश्वान् साह्वान् मीध्वांश्चेति निपातनात् ढत्वं उपधादीर्घश्च । सम्बुद्धौ छन्दसीति रुः । पादादित्वादाद्युदात्तः ॥ ३ ॥

3.16.4
चक्रि॒र्यो विश्वा॒ भुव᳚ना॒भि सा᳚स॒हिश्चक्रि᳚र्दे॒वेष्वा दुवः᳚ ।
आ दे॒वेषु॒ यत᳚त॒ आ सु॒वीर्य॒ आ शंस᳚ उ॒त नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
चक्रिः᳚ । यः । विश्वा᳚ । भुव᳚ना । अ॒भि । स॒स॒हिः । चक्रिः᳚ । दे॒वेषु᳚ । आ । दुवः᳚ ।
आ । दे॒वेषु᳚ । यत᳚ते । आ । सु॒॑वीर्ये᳚ । आ । शंसे᳚ । उ॒त । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽयमग्निश्चक्रिः सर्वस्य जगतः कर्ता स च विश्वा भुवना विश्वानि भवनान्यभि अभिविशति । तत्सृष्ट्वा तदेवानुप्राविशदिति श्रुतेः । चक्रिः कर्ता सोऽग्निः सासहिः पुरोडशादि हविर्भारसहनशीलः सन् दुवोऽस्माभिर्दत्तं हविर्देवेषु यजनीयदेवेष्वा । आनयति । स चाग्निर्देवेषु देवनशीलेषु स्तोतृष्वा यतते । अभिमुख्येन गच्छ्ति । यद्वा विश्वानि भुवनानि चक्रिरभिसासहिरभिभवनशीलः । आकारश्चार्थे देवेषु च दुवः परिचरणं चक्रिः कर्ता । य एवं भूतः स आयतत इत्यादि पूर्ववत् । उत अपि च नृणां यज्ञस्य नेतॄणां शस्त्रिणां शंसे । शंसनं शंसः शस्त्रं तस्मिन् सोऽग्निरागच्छति । तथा नृणां मनुष्याणां सुवीर्ये शोभनवीर्योपेत युद्धे तद्रक्षणार्घमागच्छति । अनेनाग्नेः सर्वव्यापकता प्रतिपादिता भवति ॥ चक्रिः । डुकृञ् करणे । आदृगमहनजनः किकिनौ लिट् चेति किन् प्रत्ययः । लिड्वद्भावाद्द्विर्वचनम् । कित्त्वाद्गुणाभावः । नित् स्वरः । सासहिः । षह मर्षण इत्यस्माद्यङंतात्सहिवहि चलिपतिभ्यो यङंतेभ्यः किकिनौ । पा. ३-२-१७१-४ । इति किः । प्रत्ययस्वरः । यतते । यती प्रयत्ने । यद्वृत्तयोगादनिघातः । शंसे । भावे घञ् । ञित्स्वरः । नृणां नृ चेति विकल्पेन दीर्घाभावः । नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । विश्वेत्यादिषु न लोकाव्ययेति षष्ठीप्रतिषेधः ॥ ४ ॥

3.16.5
मा नो᳚ अ॒ग्ने॑म᳚तये॒ मावीर᳚तायै रीरधः ।
मागोता᳚यै सहसस्पुत्र॒ मा नि॒दे॑प॒ द्वेषां॒स्या कृ᳚धि ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अ॒ग्ने॒ । अम᳚तये । मा । अ॒वीर᳚तायै । री॒र॒धः॒ ।
मा । अ॒गोता᳚यै । स॒ह॒सः॒ । पु॒त्र॒ । मा । नि॒दे । अप᳚ । द्वेषां᳚सि । आ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसस्पुत्र बलस्य पुत्र हे अग्ने त्वंनोऽस्मान् आमतये शत्रुभूताय दारिद्र्याय मा रीरधः । संसिद्धान्विषयभूतान्मा कुरु । तथावीरतया अपुत्रतायै । आवीरशब्देन तद्वान् लक्ष्यते । वीरस्य भावो वीरता । नवीरता आवीरता । तस्यै अस्मानपुत्रताया विषयभूतान्मा कुरु । तथा त्वमस्मानगोतायै गवादिपशुसम्पत्त्य भावस्य विषयभूतान्मा कुरु । किञ्चास्मान्निदे निन्दाया विषयभुत्मान्मा कुरु । मा विधेहि । तथा त्वं द्वेषांसि कर्मापराधनिमित्तान् द्वेषांश्चापाकृधि । अपाकुरु । निवारय ॥ अवीरतायै । वीरा अस्य सन्तीति वीरः । आर्शाअदित्वादच् । तस्य भावो वीरता । तस्य भावस्त्वतलाविति तल् । न वीरता आवीरता । नञः स्वरे प्राप्ते परादिश्छन्दसि बहुलमिति नञुत्तरस्यादेरुदात्तता । रीरधः । राध साध संसिद्धौ । अस्माण्ण्यन्ताच्छान्दसे लुङु णिश्रिद्रुस्रुभ्य इति च्लेश्चङादेशः । णेरनिटीति णिलोपः । णौ चङ्युपधाया इत्युपधाह्रस्वः । चङीति द्विर्वचनम् । सन्वल्लघिनि चङ् पर इति सन्वद्भावः । सन्यत इत्यभ्यासस्येत्वम् । तस्य दीर्घो लघोरिति दीर्घः । न माङ् योग इत्यडभावः । निघातः । अगोतायै । गोशब्देन गोमान् लक्ष्यते । न गौरगौः । अगोर्भावोऽगोता । तस्य भाव इति तल् । लित्स्वरः । सहसस्पुत्र । सुबामन्त्रिते पराङ्गवत्स्वर इति पराङ्गवद्भावात्सहसपुत्र इत्येतयोः सर्वानुदात्तत्वम् । निदे । णिदि कुत्सायाम् । अस्मात्संपदादित्वाद्भावे क्विप् । अनित्यमागमशासनमिति नुमभावः । सावेकाच इति विभक्तेरुदात्तता ॥ ५ ॥

3.16.6 समानपद
श॒ग्धि वाज᳚स्य सुभग प्र॒जाव॒तो॑ग्ने᳚ बृह॒तो अ᳚ध्व॒रे ।
सं रा॒या भूय᳚सा सृज मयो॒भुना॒ तुवि᳚द्युम्न॒ यश᳚स्वता ॥
▶ पदपाठः (Word-by-word)
श॒ग्धि । वाज᳚स्य । सु॒॑भ॒ग॒ । प्र॒जा॑व᳚तः । अग्ने᳚ । बृ॒ह॒तः । अ॒ध्व॒रे ।
सम् । रा॒या । भूय᳚सा । सृ॒ज॒ । म॒यः॒॑भुना᳚ । तुवि᳚॑द्युम्न । यश᳚स्वता ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुभग शोभनधनोपेत हे अग्ने त्वमध्वरेऽस्माभिः क्रियमाणेऽस्मिन्नग्निष्टोमादिकर्मणि बृहतो महतः व्रभूतस्य प्रजावतोऽपत्योपेतस्य वाजस्यान्नस्य शग्चि । ईशिषे । तादृशमन्नमस्मिन्नध्वरेऽस्मभ्यं देहि । किञ्च तुविद्युम्न बहुधनयुक्त हे अग्ने मयोधुना । मय इति सुखनाम शेवृधं मय इति तन्नामसु पाठात् । तद्दानाद्युपयोगहेतुतया सुखस्य भावकेनात एव यशस्वता कीर्तिमता भूयसातिप्रभूतेन रायैवं विधेन धनेनास्मान् संसृज । संयोजय ॥ शग्धि । शक्लृ शक्ता वित्यस्य लोटि बहुलं छन्दसीति विकरणस्य लुक् । हुझल्भ्यो हेर्धिरिति धिरादेशः । हेरपित्त्वादुदात्तता । राया । ऊडिदमिति विभक्तेरुदात्तत्वम् । भूयसा । बहुशब्दात् द्विवचनविभज्योपपद इतीयसुन् । बहोरोपो भू च बहोरितीयसुनः सर्वस्य लोपे प्राप्त अदेः परस्य । पा. १-१-५४ । इति प्रत्ययस्यादेर्लोपो बहोर्भूरादेशश्च । नित्स्वरः । सृज । सृज विसर्गे । तुदादिः । लोटि रूपम् । निघातः । मयोघुना । भूसत्तायामित्यस्मादौणादिको डु प्रत्ययः । तुविद्युम्न । पादादित्वादनिघातः ॥ ६ ॥