इ॒च्छन्ति᳚ त्वा सो॒म्यास॒ः सखा᳚यः सु॒न्वन्ति॒ सोमं॒ दध᳚ति॒ प्रयां᳚सि ।
तिति᳚क्षन्ते अ॒भिश᳚स्तिं॒ जना᳚ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र᳚के॒तः ॥
इ॒च्छन्ति᳚ । त्वा॒ । सो॒म्यासः᳚ । सखा᳚यः । सु॒न्वन्ति᳚ । सोम᳚म् । दध᳚ति । प्रयां᳚सि ।
तिति᳚क्षन्ते । अ॒भि॑श᳚स्तिम् । जना᳚नाम् । इन्द्र᳚ । त्वत् । आ । कः । च॒न । हि । प्र॒॑के॒तः ॥
विश्वामित्र स्तौति । हे इन्द्र सोम्यासः सोमार्हा ब्राह्मणास्त्वा त्वां शंसितुमिच्छन्ति । अत एव सखायस्ते ब्राह्मणास्त्वदर्थं सोमं सुन्वन्ति । अभिषुण्वन्ति । प्रयांसीतराण्यपि हविंषि दधति । त्वदर्थं धारयन्ति । त्वया प्रेरिताः सन्तोजनानां सपत्नानामभिशस्तिं तत्कृतां हिम्सां तितिक्षन्ते । सहन्ते । एवमनुग्राहकस्त्वत् त्वत्तोऽन्यः कश्चन हि को नाम पुरुष खलु आ प्रकेतः । सर्वतो जगति । प्रकेत्यते ज्ञाप्यत इति प्रकेतः । प्रज्ञापितो विद्यते ॥ सोम्यासः । सोममर्हतीत्यर्थे सोममर्हति य इति यः । प्रत्ययस्वरः । सुन्वन्ति । षुञ् अभिषवे । स्वादित्वात् श्नुः । सति शिष्टस्वरो बलीयानिति झिप्रत्ययस्वरः । दधति । दधातेर्लटिरुपम् । समानवाक्ये युष्मदस्मदादेशनिघाताः । पा. ८-१-१८-५ ॥ इति सोमपदस्येतरवाक्येनान्वयान्न निघातः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । तितिक्षन्ते । तिज निशान इत्यस्य क्षमायां गुप्तिङ्किद्भ्यः सन्निति सन् । अभ्यस्तस्वरः । अभिशस्तिम् । शसु हिम्सायामित्यस्माद्भावे क्तिन् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । प्रकेतः । कितज्ञाने । कर्मणि घञन्तः । थाथघञ्क्तीत्यन्तोदात्तत्वं ॥ १ ॥
न ते᳚ दू॒रे प᳚र॒मा चि॒द्रजां॒स्या तु प्र या᳚हि हरिवो॒ हरि᳚भ्याम् ।
स्थि॒राय॒ वृष्णे॒ सव᳚ना कृ॒तेमा यु॒क्ता ग्रावा᳚णः समिधा॒ने अ॒ग्नौ ॥
न । ते॒ । दू॒रे । प॒र॒मा । चि॒त् । रजां᳚सि । आ । तु । प्र । या॒हि॒ । ह॒रि॒॑वः॒ । हरि᳚॑भ्याम् ।
स्थि॒राय᳚ । वृष्णे᳚ । सव᳚ना । कृ॒ता । इ॒मा । यु॒क्ताः । ग्रावा᳚णः । स॒म्॑इ॒धा॒ने । अ॒ग्नौ ॥
हरिवः । हरिवर्णावश्वौ यस्य सोऽयं हरिवानिन्द्रः । हे हरिवः परमाचित् परमाणि दूरे वर्तमानान्यपि राजाम्सि स्थानानि ते तव दूरे न भवन्ति । तस्माद्भरिभ्यामुपेतस्त्वं तु क्षिप्रमा प्रयाहि । अस्मदीयं यज्ञमभिलक्ष्यागच्छ । स्थिराय फलप्रदाने दृढचित्तायात एव वृष्णे कामानां वर्षित्रे तुभ्यमिमा इमानि सवना सवननि प्रातरादीनि कृता । कृतानि । किञ्च । अग्नावाहवनीये समिधान आहुत्यधिकरणतया सम्यग्दीप्यमाने सति ग्रावान उपला युक्ताः । सोमाभिषवार्थमुद्युक्ताः । अतस्त्वं क्षिप्रमागच्छेति भावः ॥ यहि । या प्रापण इत्यस्य लोटि रूपम् । हरिवः । हरी अस्य स्त इति मतुप् । छन्दसीर इति तस्य वत्वम् । आमन्त्रितत्वान्निघातः । स्थिराय ष्ठा गतिनिवृत्तावित्यस्मादचिरशिशिरेत्यादिना किरच् । प्रत्ययान्तत्वेन निपातनादाकारलोपः । चित्स्वरः । सवना । षुञ् अभिषव इत्यस्मादधिकरणे ल्युट् चेति ल्युट् । सूयरे सोमो यत्रेति सवानि प्रातरादीनि । लित्स्वरः । समिधाने । ञि इन्धी दीप्तावित्यस्य कानचि रूपम् । कित्वान्नकारलोपः । चित्स्वरः ॥ २ ॥
इन्द्र᳚ः सु॒शिप्रो᳚ म॒घवा॒ तरु᳚त्रो म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् ।
यदु॒ग्रो धा बा᳚धि॒तो मर्त्ये᳚षु॒ क्व१॒᳚ त्या ते᳚ वृषभ वी॒र्या᳚णि ॥
इन्द्रः᳚ । सु॒॑शिप्रः᳚ । म॒घ॑वा᳚ । तरु᳚त्रः । म॒हा॑व्रा᳚तः । तु॒वि॒॑कू॒र्मिः । ऋघा᳚वान् ।
यत् । उ॒ग्रः । धाः । बा॒धि॒तः । मर्त्ये᳚षु । क्व᳚ । त्या । ते॒ । वृ॒ष॒भ॒ । वी॒र्या᳚णि ॥
वृषभ कामानां वर्षक हे इन्द्र यस्त्वमिन्द्रः परमैश्वर्यसम्पन्नः सुशिप्रः । शिप्रशब्देन शिरस्त्राणमभिधीयते । शोभनशिरस्त्राणोपेतः । यद्वा शोभनहनुमान् । शिप्रे हनू नासिके वा । नि. ६-१७ ॥ इति यास्कः । मघवा धनवान् तरुत्रः । तरन्त्यनेन शत्रून्देवा इति तरुत्र इन्द्रः । महव्रातः । मरुद्भिर्महान्व्रातः सुमूहो यस्येति स तथोक्तः । तुविकुर्मिः सङ्ग्रामे नानाविधकर्माणां कर्ता ऋघावान् शत्रुविषय हिम्सावान् अत एवोग्रः शत्रूणां भयङ्करः स तादृशस्त्वं बाधितोऽसुरैः सङ्रामे बाधितः सन् मर्त्येषु मारयितृष्व सुरेषु यत् यानि वीर्याइ धा व्यधा इदानीं ते तव त्या तानि वीर्याणि क्व । क्वासते वद । सुशिप्रः ॥ सृप्लृ गतौ । औणादिको रन्प्रत्ययः । बाहुलकात्सृ इत्यस्य शि इत्यादेशः । बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । महाव्रातः । आन्महत इत्याकारादेशो महतस्तकारस्य । तुविकूर्मिः । करोतेरौणादिको मिप्रत्ययः । गुणे कृतेऽकारस्योत्वं छान्दसम् । हलि चेति दीर्घः । ऋघावान् । ॠन् हन्तीत्यृघाः । अन्येभ्योऽपि दृश्यन्त इति विच् । दृशिग्रहणान्नलोपो हकारस्य घत्वम् । तदस्यास्तीति मतुबर्थे छन्दसीवनिपाविति वनिप् । व्यत्ययेनाद्युदात्तः । क्व । किम्शब्दस्य सप्तम्यर्थे किमोऽदित्यत्प्रत्ययः । तस्मिन् क्वातीति क्वादेशः । इत्त्स्वरः ॥ ३ ॥
त्वं हि ष्मा᳚ च्या॒वय॒न्नच्यु᳚ता॒न्येको᳚ वृ॒त्रा चर᳚सि॒ जिघ्न᳚मानः ।
तव॒ द्यावा᳚पृथि॒वी पर्व᳚ता॒सो॑नु᳚ व्र॒ताय॒ निमि᳚तेव तस्थुः ॥
त्वम् । हि । स्म॒ । च्य॒वय᳚न् । अच्यु᳚तानि । एकः᳚ । वृ॒त्रा । चर᳚सि । जिघ्न᳚मानः ।
तव᳚ । द्यावा᳚पृथि॒वी इति᳚ । पर्व᳚तासः । अनु᳚ । व्र॒ताय᳚ । निमि᳚ता॑इव । त॒स्थुः॒ ॥
हे इन्द्र त्वमेकोऽसहाय एवाच्युतानि च्युतिरहितानि दृढमूलान्यपि तदप्रतिपक्षभूतानि रक्षांसि च्यावयन् स्वस्वस्थानात्पातयन् तथा वृत्रा वृत्राणि पापानि जिघ्नमानो हिम्सन् चरसि हि स्म । वर्तसे खलु । किञ्च । एवंविधसामर्थ्योपेतस्य तव व्रताय कर्मण आज्ञायै द्यावापृथिवौ पर्वाताश्च निमितेव निखाता निश्चला इवानुतस्थुः । अनुकूलास्तिष्ठन्ति ॥ स्म । चादित्वादनुदात्तः । च्यावयन् । च्युङ् गतावित्यस्य ण्यन्तस्य शतरि रूपम् । णिच् स्वरः । चरसि । चर गतिभक्षणयोः । हियोगादनिघातः । जिघ्नमानः । हन हिंसागत्योरित्यस्य घञर्थे कविधानमिति कः । तस्य छन्दस्युभयथेति सार्वधातुकत्वाच्छप् । तस्य श्लुः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । हन्तीति जिघ्नः । आचारार्थे क्विप् । अस्मात्ताच्छिल्यार्थे चानश् । शप् । व्यत्ययेनाद्युदात्तत्वम् । द्यावापृथिवी । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । निमितेव । डुमिञ् प्रक्षेपण इत्यस्य कर्मणि निष्ठा । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति सुपोडादेशः । विएन विभक्त्यलोप इत्युक्तत्वात्पूर्वपदस्वरः । तस्थुः । ष्ठा गतिनिवृत्तावित्यस्य लिट्युस्यातो लोपे कृते तस्य द्विर्वचनेऽचीति स्थानिवद्भावाद्द्विर्वचनं निघातः ॥ ४ ॥
उ॒ताभ᳚ये पुरुहूत॒ श्रवो᳚भि॒रेको᳚ दृ॒ळ्हम᳚वदो वृत्र॒हा सन् ।
इ॒मे चि᳚दिन्द्र॒ रोद᳚सी अपा॒रे यत्सं᳚गृ॒भ्णा म᳚घवन्का॒शिरित्ते᳚ ॥
उ॒त । अभ᳚ये । पु॒रु॒॑हू॒त॒ । श्रवः᳚॑भिः । एकः᳚ । दृ॒ळ्हम् । अ॒व॒दः॒ । वृ॒त्र॒॑हा । सन् ।
इ॒मे । चि॒त् । इ॒न्द्र॒ । रोद᳚सी॒ इति᳚ । अ॒पा॒रे इति᳚ । यत् । स॒म्॑गृ॒भ्णाः । म॒घ॒॑व॒न् । का॒शिः । इत् । ते॒ ॥
उतेत्यामन्त्रणे हे इन्द्र पुरुहूत पुरुभिर्बहुभिर्यज्वभिराहूत । यद्वादैवैरसुरेभ्यो रक्षार्थं बहुवारमाहूतः श्रवोभिर्वीर्यैरुपेत एकोऽसहायस्त्वं वृत्रहा वृत्रशत्रोर्हन्ता सन् अभयेऽसुरेभ्यः सकाशान्मा बिभीतेति देवान्प्रति यद्वाक्यमवदोऽवोचस्तद्वाक्यं दृढम् । सत्यमेव । किञ्च । मघवन्निन्द्र त्वमपारे चित् दूरपारेऽपीमे रोदसी द्यावापृथिवौ यद्यस्माक्कारणात्संगृभ्णाः सङ्गृह्णासि । परस्परमधरोत्तरभावेन संयोजिते करोषीति यावत् । एष ते तव महिमा काशितित् प्रकाशो लोके प्रसिद्ध एव । यद्वा यत् येन ते रोदसी संगृह्णासि ते तव काशिर्मुष्टिर्महान् । काशिर्मुष्टिः । नि.६-१ । इति यास्कः ॥ अभये । ञभी भय इत्यस्माद्भाव एरजित्यच् प्रत्ययः । न ञा समासे तस्य स्वरः । अवदः । वद व्यक्तायां चाचि । लङि रूपम् । निघातः । अपारे । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । संगृभ्णाः । ग्रह उपादाने । क्र्यादित्वात् श्ना । ग्रहज्यावयीत्यादिना सम्प्रसारणम् । हृग्रहोर्भश्छन्दसीति हकारस्य भकारः । इतश्चेति सिप इकारलोपः । बहुलं छन्दसीत्यडभावः । समासस्वरः । काशिः । काशृ दीप्तौ । औणादिक इप्रत्ययः । प्रत्ययस्वरः ॥ ५ ॥
प्र सू त᳚ इन्द्र प्र॒वता॒ हरि᳚भ्यां॒ प्र ते॒ वज्र᳚ः प्रमृ॒णन्ने᳚तु॒ शत्रू᳚न् ।
ज॒हि प्र᳚ती॒चो अ᳚नू॒चः परा᳚चो॒ विश्वं᳚ स॒त्यं कृ᳚णुहि वि॒ष्टम᳚स्तु ॥
प्र । सु । ते॒ । इ॒न्द्र॒ । प्र॒॑वता᳚ । हरि᳚॑भ्याम् । प्र । ते॒ । वज्रः᳚ । प्र॒॑मृ॒णन् । ए॒तु॒ । शत्रू᳚न् ।
ज॒हि । प्र॒ती॒चः । अ॒नू॒चः । परा᳚चः । विश्व᳚म् । स॒त्यम् । कृ॒णु॒हि॒ । वि॒ष्टम् । अ॒स्तु॒ ॥
हे इन्द्र ते तव हिरिभ्यामश्वाभ्यां युक्तो रथः शत्रूनभिलक्ष्य प्रवता प्रवणेन मार्गेण सु सुष्ठु प्रैतु । शीघ्रं गच्छतु । तथा ते वज्रोऽशनिः शत्रूनसुरान्प्रमृणन् हिंसन्प्रैतु । त्वं च प्रतीचस्त्वदाभिमुख्येनागच्छतः शत्रून् जहि । मरय । तथानूचोऽनुगच्छतः पार्षिग्राहानसुरान्पराचः पलायनपरांश्च जहि । एवं शत्रुषु बाधितेषु सत्सु विश्वं जगत्सत्यम् कृणुहि । सत्यभुताग्निहोत्रादिकर्मपरं कुरु । एवं विधं सामर्थ्यं त्वयि विष्टं निविष्टमस्तु ॥ प्रवता । प्रशब्दादुपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः । प्रमृणन् । मृण हिम्सायाम् । जहि । हन हिंसागत्योरित्यस्य लोटि सिपो हिरादेशः । तस्मिन्हन्तेर्ज इति जादेशः । अतो हेरिति लुकि प्राप्त आभाच्छास्त्रस्यासिद्धत्वान्निवृत्तिः । हेर्ङित्त्वादन्तोदात्तः । प्रतीचः । अञ्चु गति पूजनयोः । अञ्चेश्छन्दस्यसर्वानामस्थानमिति विभक्तेरुदात्तत्वम् । पराचः । अनिगन्तोऽञ्चतौ वप्रत्यय इति गतेः प्रकृतिस्वरत्वम् । कृणुहि । कृवि हिम्साकरणयोः । अस्तु । अस भुवि ॥ ६ ॥
यस्मै॒ धायु॒रद᳚धा॒ मर्त्या॒याभ᳚क्तं चिद्भजते गे॒ह्यं१॒᳚ सः ।
भ॒द्रा त᳚ इन्द्र सुम॒तिर्घृ॒ताची᳚ स॒हस्र᳚दाना पुरुहूत रा॒तिः ॥
यस्मै᳚ । धायुः᳚ । अद᳚धाः । मर्त्या᳚य । अभ᳚क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य᳚म् । सः ।
भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒॑म॒तिः । घृ॒ताची᳚ । स॒हस्र᳚॑दाना । पु॒रु॒॑हू॒त॒ । रा॒तिः ॥
हे इन्द्र धायुर्निरन्तरमैश्वर्यं दधानस्त्वं यस्मै मर्त्याय मनुष्यायादधा यद्वीर्यं दधासि स मर्त्योऽभक्तं चित् पूर्वमप्राप्तमपि गेह्यं गृहेषु भवं कनकपश्वादिकं भजते । प्राप्नोति । किञ्च । हे पुरुहूत बहुभिराहूतेन्द्र घृताची । घृतशब्दो हविर्मात्रमुपलक्षयति । तथा च सोमाज्यपुरोडाशादिलक्षणं हविरञ्चति प्राप्नोतीति घृताची ते तव सुमतिः शोभना बुद्धिर्भद्रा । कल्याणकरी । तथा तव रातिर्धनशक्तिः सहस्रदाना । अपरिमितधनदानसमेता । इन्द्रस्य बहुदातृत्वे मन्त्रवर्णः । भूरिदा भूरि देहि नो मा द्भ्रं भूर्या भर । ऋग्वे. ४=३२-२० । इति । चायुः । दधातेरौणादिक उण्प्रत्ययः । अदधाः । दधातेर्लङि रूपम् । यद्वृत्तयोगादनिघातः । मर्त्याय । मर्त एव मर्त्यः । वस्वादिषु पाठात् स्वार्थिको यत् । यतोऽनाव इत्याद्युदात्तत्वम् । गेह्यम् । गेहशब्दात्तत्र भव इत्यर्थे भवे छन्दसीति यत् । तित्वरितः । सुमतिः । मन्त्रे वृषेत्यादिना मतिशब्दोऽन्तोदात्तः । समासे कृदुत्तरपदस्वरः । रातिः । रा दाने । मन्त्रे वषेत्यादिना क्तिन्नुदात्तः ॥ ७ ॥
स॒हदा᳚नुं पुरुहूत क्षि॒यन्त᳚मह॒स्तमि᳚न्द्र॒ सं पि᳚ण॒क्कुणा᳚रुम् ।
अ॒भि वृ॒त्रं वर्ध᳚मानं॒ पिया᳚रुम॒पाद᳚मिन्द्र त॒वसा᳚ जघन्थ ॥
स॒ह॑दा᳚नुम् । पु॒रु॒॑हू॒त॒ । क्षि॒यन्त᳚म् । अ॒ह॒स्तम् । इ॒न्द्र॒ । सम् । पि॒ण॒क् । कुणा᳚रुम् ।
अ॒भि । वृ॒त्रम् । वर्ध᳚मानम् । पिया᳚रुम् । अ॒पाद᳚म् । इ॒न्द्र॒ । त॒वसा᳚ । ज॒घ॒न्थ॒ ॥
हे पुरुहूतेन्द्र त्वं सहदानुं दानुर्दानवी वृत्रमाता तया सह वर्तमानम् । तथा च मन्त्रवर्णः । दानु शये सहवत्सा । ऋग्वे. १-३२-९ । इति यद्वा सहदानुं दानुभिर्दानवैः सह वर्तत इति सहदानुः । तंक्षियन्तं बाधमानं कुणारुं क्वणनशीलंकिञ्चिदसुरमहस्तं हस्तहीनं कृत्वा सं पिणक् । सम्यक् चूर्णीकुरु । किञ्च । हे इन्द्र वर्धमानं सर्वत इषुमात्रं वर्धमानम् । स इषु मात्रमिषुमात्रं विष्वङ्गवर्धत । तै. सं. २-४-१२ । इति श्रुतेः । पियारुं हिंस्रं वृत्रं वृत्रासुरमपादं पादहीनं कृत्वा तवसा बलेनाभिजघन्थ । हतवानसि । यद्वा सह दानुमुदकदानोपेतं क्षयनमाकाशे निवसन्तं कुणारुं गर्जन्तं वृत्रम् । वृणोत्याच्छादयति नभ इति वृत्रो मेघः । तमिमं वर्धमानं मेघं हस्तपादशून्यं कृत्वा सम्पणक् । संपिण्डि । तथा च यास्कः । अहसमिन्द्र कृत्वा सम्पिण्डि परिक्वणं मेघम् । नि. ६-१ । इति । सहदानुम् । दो अवखण्डने । दाभाभ्यां नुरिति नुप्रत्ययः । द्यतीति दानुर्दानवः । यद्वा दानुर्दानुम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । क्षियन्तम् । क्षि निवासगत्योः । तुदादित्वाच्छः । प्रत्ययस्वरः । पिणक् । पिष्लृ सञ्चूर्णने । रुधादित्वात् श्नम् । हेर्लुक् शकारस्य ककारश्छान्दसः । कुणारुम् । कुणशब्देने । बाहुलकाद्रूपसिद्धिः । आद्युदात्तः । जघन्थ । हन हिम्सागत्योरित्यस्य लिटि थलि रूपम् । अभ्यासाच्चेति धातुहकारस्य घत्वम् । निघातः । उपदेशेऽत्वत इतीट् प्रतिषेधः ॥ ८ ॥
नि सा᳚म॒नामि᳚षि॒रामि᳚न्द्र॒ भूमिं᳚ म॒हीम᳚पा॒रां सद᳚ने ससत्थ ।
अस्त᳚भ्ना॒द्द्यां वृ᳚ष॒भो अ॒न्तरि᳚क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू᳚ताः ॥
नि । सा॒म॒नाम् । इ॒षि॒राम् । इ॒न्द्र॒ । भूमि᳚म् । म॒हीम् । अ॒पा॒राम् । सद᳚ने । स॒स॒त्थ॒ ।
अस्त᳚भ्नात् । द्याम् । वृ॒ष॒भः । अ॒न्तरि᳚क्षम् । अर्ष᳚न्तु । आपः᳚ । त्वया᳚ । इ॒ह । प्र॑सू᳚ताः ॥
हे इन्द्र महीं महतीमत एवापारामिषिरां स्थानाभावेन चलन्तीं एवं विधां भूमिं समानाम् । तथा च मन्त्रवर्णः । गावौ ते सामनावितः । ऋग्वे. १०-८५-११ । इति । यद्वा सम एव साम । तथा च शतपथे श्रूयते । यदेव समः प्णुषिणा समो मशकेन समो नागेन सम एतैस्त्रिभिर्लोक्येस्तस्मादेव साम । १४-४-१ । इति । तदस्यास्तीति सामनः । तां साम्यवतीं कृत्वा सदने स्वे स्थाने नोषसत्थ । निवेशयामासिथ । तथा वृषभोऽभिमतफलानां वर्षक इन्द्रो द्यां द्युलोकमस्तभ्नात् । यथा न पतति तथाधारयत् । तथान्तरिक्षम् । एवं द्यावापृथिव्योरवस्थितौ सत्यां त्वया प्रसूता मेघभेदनेन प्रेरिता आप इह भूमावर्षन्तु । आगच्छन्तु । तथा च मन्त्रवर्णः । यः । पृथिवीं व्यथमानामदृंहत् । ऋग्वे. २-१२-२ । इति । सामनाम् । सव एव साम । तद्स्स्यास्तीति मतुबर्थे पामादित्वान्नप्रत्ययः । प्रत्ययस्वरः । इषिराम् । इष गतौ । इषिमदीत्यादिना । उ. १-५२ । किरच् प्रत्ययः । कित्त्वादगुणः । चित्स्वरः । ससत्थ । पद्लृ विशरणगत्यवसादनेष्वित्यस्यान्तर्भावितण्यर्थस्य लिटि थल्युपेदेशेऽत्वत इतीट्प्रतिषेधः । नोघातः । अस्तभ्नात् । स्तन्भु स्तम्भन इति सौत्रो धातुः । सम्भुस्तुम्भ्वित्यादिना श्नाप्रत्ययः । श्नान्नलोप; इति धातुनकारोलोपः । अडागमस्वरः । अर्षन्तु । ऋषी गतौ । व्यत्ययेव शप्प्रत्ययः । गुणः । पादादित्त्वादनिघातः । आपः । अर्षन्तु । ऋषी गतौ व्यत्ययेव शप्प्रत्ययः । गुणः । पादादित्त्वादनिघातः । आपः । अप्लृ व्याप्तौ । क्विप् धातोर्ह्रस्वश्च । जस्यप्तृन्तृजित्यादिना दीर्घः । जसः सुप्त्वादनुदात्तत्वे धातुस्वरः । प्रसूताः । षू प्रेरण इत्यस्य कर्मणि निष्ठा । गतिरन्तर इति गतेः प्रकृतिस्वरत्वं ॥ ९ ॥
अ॒ला॒तृ॒णो व॒ल इ᳚न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय᳚मानो॒ व्या᳚र ।
सु॒गान्प॒थो अ᳚कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणी᳚ः पुरुहू॒तं धम᳚न्तीः ॥
अ॒ला॒तृ॒णः । व॒लः । इ॒न्द्र॒ । व्र॒जः । गोः । पु॒रा । हन्तोः᳚ । भय᳚मानः । वि । आ॒र॒ ।
सु॒॑गान् । प॒थः । अ॒कृ॒णो॒त् । निः॒॑अजे᳚ । गाः । प्र । आ॒व॒न् । वाणीः᳚ । पु॒रु॒॑हू॒तम् । धम᳚न्तीः ॥
हे इन्द्र अलातृणः । बहूदकतयालमत्यर्थमातृद्यते हिंस्यत इत्यलातृणः । गोर्माध्यमिकाया वाचो व्रजो गोष्ठभूतो वलः । वृणोत्याकाशमिति वलो मेघः । पुरा हन्तोस्तव वज्रप्रहारात् प्राक् भयमानो बिभ्यद्व्यार । विशिल्ष्टो बभूव । अनन्तरं स इन्द्रो गा आपो निरजे निर्गमयितुं सुगान् सुगमान् पथो मार्गानकृणोत् । अकरोत् । अतो वाणीर्वननीया धमन्तीः शब्दायमानास्ता आपः पुरुहूतं बहुभिराहुतं पार्थिवमुदकं प्रति प्रावन् । अभ्यागच्छन् । एतामृचं यास्क एवं व्याख्यत् । अलातृणो वल इन्द्र वज्रो गोः । अलातृणोऽलमातर्दनो मेघो वलो वृणोतेर्व्रजो व्रजत्यन्तरिक्षे गोरेतस्या माध्यमिकाया वाचः पुरा हननाद्भयमानो व्यार । सुगान्पथो अकृणोन्निरजे गाः । सुगमनान्पथोऽकरोन्निर्गमनाय गवाम् । प्रावन्वाणीः पुरुहूतं धमन्तीः आपो वा वहनाद्वाचो वा वदनाद्बहुभिराहूतमुदकं भवति । धमतिर्गतिकर्मा । नि. ६-२ । अलातृणः । तृहि हिंसायाम् । अलंपुर्वात्तृहेर्घञर्थे कविधानमिति कर्मणि क प्रत्ययः । अलमो मकारस्याकारः । समासस्वरः । वलः । वल संवरणे । वल्यत आच्छाद्यते नभोऽनेनेति वलो मेघः । पुंसि संज्ञायामिति घः । प्रत्ययस्वरः । व्रजः । व्रज गतौ । गोचरसञ्चरेत्यादिना । पा. ३-३-११९ । घ प्रत्ययान्तत्वेन निपातनात्कुत्वाभावः । व्रजत्यन्तरिक्षक इति । प्रत्यय स्वरः । भयमानः । ञिभीभये । व्यत्ययेन शप् । आर । ऋ गातवित्यस्य लिटि णलि रूपम् । निघातः । सुगान् । गम्लृ गतावित्यस्मादधिकरणे सुदोरोरधिकरण इति डप्रत्ययः । डित्त्वाट्टिलोपः । डित्त्वाट्टिलोपः । कृत्स्वरः । निरजे । अज गतिक्षेपनौयोरित्यस्मात्संपादद्क् लक्षणो भावे क्विप् । कृदुत्तरस्वरः ॥ आवन् । अव रक्षणगत्यादिष्टितस्य लङि रूपम् । पुरुहूतम् । हूयतेर्निष्ठायां यजादित्वात्संप्रसारणम् । हल इति दीर्घः । तथादिस्वरः । धमन्तीः । ध्मा शब्दे । शपि प्राघ्रेत्यादिना धामादेशः । वा छन्दसीति जसः सवर्णदीर्घः । शतुर्लसार्वधातुक स्वरे कृते धातुस्वरः ॥ १० ॥
एको॒ द्वे वसु᳚मती समी॒ची इन्द्र॒ आ प᳚प्रौ पृथि॒वीमु॒त द्याम् ।
उ॒तान्तरि᳚क्षाद॒भि नः᳚ समी॒क इ॒षो र॒थीः स॒युजः᳚ शूर॒ वाजा᳚न् ॥
एकः᳚ । द्वे इति᳚ । वसु᳚मती॒ इति॒ वसु᳚॑मती । स॒मी॒ची इति᳚ स॒म्॑ई॒ची । इन्द्रः᳚ । आ । प॒प्रौ॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
उ॒त । अ॒न्तरि᳚क्षात् । अ॒भि । नः॒ । स॒म्॑ई॒के । इ॒षः । र॒थीः । स॒॑युजः᳚ । शू॒र॒ । वाजा᳚न् ॥
योऽयमिन्द्र एकोऽसहाय एव सन् प्रथिवीमुत अपि च द्यां द्वे एते द्यावापृथिव्यौ समीची परस्परसङ्गते वसुमती धनयुक्ते सत्यावा पप्रौ समन्तात्पूर्वरयमास । उत अपि च हे शूर सामर्थ्योपेत तादृशस्त्वं रथी रथवान् स नोऽस्माकं समीके समीप इषः स्थातुमिच्छन् सयुजः सङ्गतान्वाजान् । वजन्ति गच्छन्तीति वाजा अश्वाः । तानश्वानन्तरिक्षादन्तरिक्षसकाशात् अभि प्रेरय । रथारूढस्त्वमस्मत्समीपं शीघ्रमागच्छेति भावः ॥ वसुमती । वा छन्दसीति पुर्वसवर्णदीर्घः । पत्रौ । प्रा पूरण इत्यस्य लिटि णलि आत औणल इत्यौकारः । निघातः । इषः । इषु इच्छायाम् । अस्मादिगुपधलक्षणः कः । कित्त्वादगुणः । प्रत्ययस्व्वरः । रथीः । रथोऽस्यास्तीति मतुबर्थे छन्दसीवनोपाविति ईप्रत्ययः । प्रत्ययस्वरः ॥ ११ ॥
दिश॒ः सूर्यो॒ न मि᳚नाति॒ प्रदि᳚ष्टा दि॒वेदि᳚वे॒ हर्य᳚श्वप्रसूताः ।
सं यदान॒ळध्व᳚न॒ आदिदश्वै᳚र्वि॒मोच᳚नं कृणुते॒ तत्त्व᳚स्य ॥
दिशः᳚ । सूर्यः᳚ । न । मि॒ना॒ति॒ । प्र॑दि᳚ष्टाः । दि॒वे॑दि᳚वे । हर्य᳚श्व॑प्रसूताः ।
सम् । यत् । आन᳚ट् । अध्व᳚नः । आत् । इत् । अश्वैः᳚ । वि॒॑मोच᳚नम् । कृ॒णु॒ते॒ । तत् । तु । अ॒स्य॒ ॥
हर्यश्वप्रसूताः । हरी अश्वौ यस्यासाविति हर्यश्व इन्द्रः । तेन प्रेरितादिशः प्रगादयो दिवे दिवे प्रतिदिवसं प्रदिष्ठाः सूर्यस्य गमनार्थं दत्ता या दिशो विद्यन्ते ताः सूर्यो न मिनाति । न हिनस्ति । किन्तु ताभिरेव व्रजति । यद्यदा सूर्योऽध्वनो गन्तव्यान्प्रदेशानश्वैर्गमनसाधनभूतैः समानट् सम्यगश्नुते । आदित् अनन्तरमेव विमोचनं कृणुते । अश्वानां विमोचनं कुरुते । तदेत्सर्वं कर्मास्य । तवैव खलु । तु प्रसिद्धौ ॥ सूर्यः । षू प्रेरण इत्यस्मात्सुसूधाञ्गृदिभ्यः क्रन्निति क्रन्प्रत्ययः । सुवति प्रेरयतिति सूर आदित्यः । सूर एव सूर्यः । वस्वादित्वात्स्वार्थिको यत् । यतोऽनाव इत्याद्युदात्तत्वम् । मिनाति । मीञ् हिंसायाम् । मीनातेर्निगम इति ह्रस्वः । यर्यश्वप्रसूताः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । आनट् आशू व्याप्तावित्यस्य बहुलं छन्दसीति लङ्ः श्लुः । अश्नोतेश्चेति नुडागमः । व्रश्चादिना षत्वम् । यद्योगादनिघातः ॥ १२ ॥
दिदृ᳚क्षन्त उ॒षसो॒ याम᳚न्न॒क्तोर्वि॒वस्व᳚त्या॒ महि᳚ चि॒त्रमनी᳚कम् ।
विश्वे᳚ जानन्ति महि॒ना यदागा॒दिन्द्र᳚स्य॒ कर्म॒ सुकृ᳚ता पु॒रूणि᳚ ॥
दिदृ᳚क्षन्ते । उ॒षसः᳚ । याम᳚न् । अ॒क्तोः । वि॒वस्व᳚त्याः । महि᳚ । चि॒त्रम् । अनी᳚कम् ।
विश्वे᳚ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा᳚त् । इन्द्र᳚स्य । कर्म᳚ । सु॑कृ᳚ता । पु॒रूणि᳚ ॥
विश्वे सर्वे जना विवस्वत्या विवासनवत्या निर्गमपराया अक्तो रात्रेः सम्बन्धिन उषसो यामन् यामनि निर्गमने सति महि महत् चित्रं चायनीयमनीकं सौरं तेजो दिदृक्षन्ते । द्रष्टुमिच्छन्ति यद्यदा आगात् उषःकालः समन्तागतो व्यपैति तदा तेजो दिदृक्षमाणाः सर्वे जना महिना महनीयान्यग्निहोत्रादीनि कर्माणि जानन्ति । कर्तव्यतयावबुध्यन्ते । हे इन्द्र पुरूणि बहूनि सुकृता सुष्ठु कृतानि कर्म कर्माणीन्द्रस्य तवैव ॥ दिदृक्षन्ते । दृशिर् प्रेक्षण इत्यस्य सनि ज्ञाश्रुस्मृदृशां सनः । पा.१-३-५७ । इत्यात्मनेपदम् । अभ्यस्तस्वरः । विवस्वत्याः । विवासतेः सम्पादिलक्षणः । क्विप् । व्यत्ययेनोपधाह्रस्वत्वम् । तस्मात्तदस्यास्तीति मतुप् । मादुपधाया इति तस्य वत्वम् । मतुपः पित्त्वादनुदात्तत्वे धातुस्वरः । जानन्ति । ज्ञा अवबोधने । ज्ञाजनोर्जेति जादेशः । निघातः । आगात् । इण् गता वितृस्य लुङि रूपम् । यद्योगादनिघातः । सुकृता । गतिरनन्तर इति गतेः । प्रकृतिस्वरत्वं ॥ १३ ॥
महि॒ ज्योति॒र्निहि᳚तं व॒क्षणा᳚स्वा॒मा प॒क्वं च᳚रति॒ बिभ्र᳚ती॒ गौः ।
विश्वं॒ स्वाद्म॒ सम्भृ᳚तमु॒स्रिया᳚यां॒ यत्सी॒मिन्द्रो॒ अद᳚धा॒द्भोज᳚नाय ॥
महि᳚ । ज्योतिः᳚ । नि॑हि᳚तम् । व॒क्षणा᳚सु । आ॒मा । प॒क्वम् । च॒र॒ति॒ । बिभ्र᳚ती । गौः ।
विश्व᳚म् । स्वाद्म᳚ । सम्॑भृ᳚तम् । उ॒स्रिया᳚याम् । यत् । सी॒म् । इन्द्रः᳚ । अद᳚धात् । भोज᳚नाय ॥
वक्षणासु । वक्ष्यन्ते यासूदकानीति वक्षणा नद्यः । तासु महि महत् ज्योतिर्ज्योतिष्मदुदकं निहितमिन्द्रेणामा नवसूतिका गौः पक्वं क्षीरादिकं बिभ्रती दधाना सती चरति । सर्वत्र वर्तते । यद्यस्मादुदकात्साद्य स्वादुतरं सम्भृतं स्वेन सम्पादितं दधिघृतक्षीरादिकं सीमेतद्विश्वं सर्वमुस्रियायां गवि भोजनायेन्द्रोऽदधात् । तस्मात्क्षीरादिकं बिभ्रती गौश्चरतीति पूर्वेणान्वयः ॥ वक्षणासु । वक्ष रोषे । अस्मात्करणादधिकरणयोश्चेति करणे ल्युट् । लित्स्वरः । पक्वम् । पचतेर्निषातकारस्य पचो व इति वत्वं प्रत्ययस्वरः । चरति । चरतिर्गत्यर्थः । बिभ्रती दुभ्रञ् चारणपोषणयोः । जुहोत्यादिः । शतुरुगित्त्वादुगितश्चेतिङीप् अध्वस्तानामादिरित्याद्युदात्तत्वम् । उस्रियायाम् । वस निवासे । स्फायितञ्चीत्यादिनाधिकरणे रक्मत्ययः । यजादित्वात्सम्प्रसारणम् । शासिवसिघसीनां चेति षस्वाभावश्छान्दसः । स्वार्थिको घप्रत्ययः । प्रत्ययस्वरः ॥ १४ ॥
इन्द्र॒ दृह्य᳚ यामको॒शा अ᳚भूवन्य॒ज्ञाय᳚ शिक्ष गृण॒ते सखि᳚भ्यः ।
दु॒र्मा॒यवो᳚ दु॒रेवा॒ मर्त्या᳚सो निष॒ङ्गिणो᳚ रि॒पवो॒ हन्त्वा᳚सः ॥
इन्द्र᳚ । दृह्य᳚ । या॒म॒॑को॒शाः । अ॒भू॒व॒न् । य॒ज्ञाय᳚ । शि॒क्ष॒ । गृ॒ण॒ते । सखि᳚॑भ्यः ।
दुः॒॑मा॒यवः᳚ । दुः॒॑एवाः᳚ । मर्त्या᳚सः । नि॒ष॒ङ्गिणः᳚ । रि॒पवः᳚ । हन्त्वा᳚सः ॥
हे इन्द्र दृहुय । दृढो भव । यतो यामकोशाः । यान्त्यस्मिन्निति यामोमार्गः । तस्य कोशाः कोशवदाच्छादका मार्गप्रतिबन्धका राक्षसा अभूवन् । त्वं यज्ञाय यज्ञकर्त्रे गृणते स्तोत्रं कुर्वते यजमानाय सखिभ्यः पुत्रादिभ्यश्च शिक्ष । अपेक्षितं फलं दत्स्व । दुर्मायवः । दुष्टमायुधानि मिन्वन्ति प्रक्षिपन्तीति दुर्मायुवः । दुरेवा दुष्टं गच्छन्तो मर्त्यासो मारयितारो निषङ्गिणः । निषङ्गशब्देनेषुधिरभिधीयते । तद्वन्तः । एवं विधसामर्थ्योपेता रिपवः शत्रवो राक्षसा हन्त्वासः । त्वया हननीयाः ॥ दृह्य । दृह दृहि वृह वैहि वृद्धौ । व्यत्ययेन श्यन् । लोटि रूपम् । नित्स्वरः । अभूवन् । भू सत्तायाम् । अस्य लुङि रूपम् । गातिस्थेति सिचो लुक् । भूसुवोस्तिङीति गुणे प्रतिषिद्धे भुवो वुग्लुङ् लिटोरिति वुगागमः । निघातः । शिक्ष । शिक्ष विद्योपादाने । अयं धातुरत्र दाने वर्तते । व्यत्ययेन परस्मैपदम् । निघातः । दुर्मायवः । मिनोतेः कृवापाजिमीत्यादिना उण्प्रत्ययः । कृदुत्तरपदस्वरः । दुरेवाः । इण् गतु । इण्यिङ्भ्यां वन्निति कर्तरि वन्प्रत्ययः । रिपवः । रपेरिच्चोपधाया इत्युप्रत्ययः । उपधाया इत्वम् । प्रत्ययस्वरः । हन्त्वासः । हन हिंसागत्योः । कृत्यार्थे तवैकेन्केन्यत्वन इति त्वन् । नित्त्वादात्युदात्तः ॥ १५ ॥
सं घोषः᳚ शृण्वे॑व॒मैर॒मित्रै᳚र्ज॒ही न्ये᳚ष्व॒शनिं॒ तपि᳚ष्ठाम् ।
वृ॒श्चेम॒धस्ता॒द्वि रु᳚जा॒ सह᳚स्व ज॒हि रक्षो᳚ मघवन्र॒न्धय᳚स्व ॥
सम् । घोषः᳚ । शृ॒ण्वे॒ । अ॒व॒मैः । अ॒मित्रैः᳚ । ज॒हि । नि । ए॒षु॒ । अ॒शनि᳚म् । तपि᳚ष्ठाम् ।
वृ॒श्च । ई॒म् । अ॒धस्ता᳚त् । वि । रु॒ज॒ । सह᳚स्व । ज॒हि । रक्षः᳚ । म॒घ॒॑व॒न् । र॒न्धय᳚स्व ॥
हे इन्द्र अवमैः समीपे वर्तमानैरमित्रैः शत्रुभिरसुरैरुत्सृष्टो योऽशनिर्घोषो घुष्यमाणः सं शृण्वे सम्यगस्माभिः श्रूयते तपिष्ठामतिशययेन तापिकां तामशनिमेषु शत्रुप्वेव निघाय जहि । मारय । तैः प्रयुक्तामशनिं तानेव प्रपयेति भावः । ईमेनान् शत्रून् अधस्तान्मूलतो वृश्च । छिन्धि । किञ्च वि रुज । तान्विशेषेण बाधस्व । सहस्व । अभिभव च हे मघवन्निन्द्र रक्षः कर्मविघ्नकारीणि रक्षांसि जहि । मारय । अनन्तरमिमं यज्ञं रन्धयस्व । पारं नय ॥ शृण्वे । निघातः । जहि । हन हिम्सागत्योः । अस्य लोटि रूपम् । अशनिम् । आशू व्याप्तौ । अत्यवितॄभ्योऽनिरित्यनिप्रत्ययः । प्रत्ययस्वरः । तपिष्थाम् । तप्तृशब्दादिष्ठन्प्रत्ययः । नित्स्वरः । वृश्च । ओव्रत्चू छेदने । तुदादिः । ग्रहिज्यादिना सम्प्रसारणम् । सहस्व । वाक्यभेदादनिघातः । रन्धयस्व । रध हिंसासंराद्ध्योरित्यस्य ण्यन्तस्य लोटि रधिजभोरचीति नुडागमः । वाक्यब्घेदादनिघातः ॥ १६ ॥
उद्वृ᳚ह॒ रक्ष᳚ः स॒हमू᳚लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं᳚ शृणीहि ।
आ कीव᳚तः सल॒लूकं᳚ चकर्थ ब्रह्म॒द्विषे॒ तपु᳚षिं हे॒तिम᳚स्य ॥
उत् । वृ॒ह॒ । रक्षः᳚ । स॒ह॑मू᳚लम् । इ॒न्द्र॒ । वृ॒श्च । मध्य᳚म् । प्रति᳚ । अग्र᳚म् । शृ॒णी॒हि॒ ।
आ । कीव᳚तः । स॒ल॒लूक᳚म् । च॒क॒र्थ॒ । ब्र॒ह्म॒॑द्विषे᳚ । तपु᳚षिम् । हे॒तिम् । अ॒स्य॒ ॥
हे इन्द्र रक्षः कर्मविघ्नकारि रक्षो रक्षकुलं सहमूलं मूलसहितं यथा भवति तथोद्वृह । उद्धर । किञ्च । मध्यं तस्य मध्यभागं वृश्च । छिन्धि । प्रत्यग्रमग्रं प्रत्यागतं तत् शृणीहि । जहि । तस्य रक्षःकुलस्य मध्ये सललूकं सरणशीलं रक्ष आकीवतः । आङ् मर्यादायाम् । कियतोऽनिर्ज्ञायमानपरिमाणादतिदूराद्देशाच्चकर्थ । कुरु । कृत्वा च ब्रह्मद्विषे ब्राह्मणद्वेषकारिणे तस्मै रक्षसे तपुषिं तापकं हेतिं घातुकमायधमस्य । क्षिप । उक्तमर्थं यास्कोऽब्रवित् । उद्धर रक्षः सह मूलमिन्द्र । मूलं मोचनाद्दामोषणाद्वा मोहनाद्वा । वृश्च मध्यं प्रति शृणीह्यग्रम् । अग्रमागतं भवति । आ कियतो देशात्सललूकं सल्लुब्धं भवति पापकमिति नैरुक्ताः सररूकं वा स्यात् सर्तेरभ्यस्तात् । तपुश्जिस्तपतेर्हेतिर्हन्तेः । नो. ६-३ । इति ॥ वृह । वृहू उद्यमन इत्यस्य लोटि रूपम् । शृणीहि । शॄ हिम्सायाम् । अस्य लोटि हौ ई हल्यघोरितीत्वम् । निघातः । कीवतः । किं शब्दात्किं परिमाणमस्येत्यर्थे किमिदंभ्यां वो घ इति किंशब्दाद्वतुबस्तीति ज्ञापितत्वाद्वतुब्घादेशाभावश्छान्दसः । इदंकिमोरीश्की इति की इत्यादेशः । सललूकम् । सि गतौ । छान्दसी रूपसिद्धिः । चकर्थ । डुकृञ् करण इत्यस्य लिटि थलि रूपम् । क्रादित्वादिडभावः । निघातः । तपुषिम् । तप सन्ताप इत्यस्मादर्ति पॄवपियजितनिघनितपिभ्यो निदित्युसिप्रत्ययो निच्च । अकारस्य इकारश्छान्दसः । नित्स्वरः । हेतिम् । हन हिंसागत्योः । ऊतियूतिजूतिसातीत्यादिना निपातनादन्तोदात्तः । अस्य । असु क्षेपणे । लोटि रूपम् ॥ १७ ॥
स्व॒स्तये᳚ वा॒जिभि᳚श्च प्रणेत॒ः सं यन्म॒हीरिष᳚ आ॒सत्सि᳚ पू॒र्वीः ।
रा॒यो व॒न्तारो᳚ बृह॒तः स्या᳚मा॒स्मे अ᳚स्तु॒ भग᳚ इन्द्र प्र॒जावा᳚न् ॥
स्व॒स्तये᳚ । वा॒जि॑भिः᳚ । च॒ । प्र॒ने॒त॒रिति᳚ प्र॑नेतः । सम् । यत् । म॒हीः । इषः᳚ । आ॒॑सत्सि᳚ । पू॒र्वीः ।
रा॒यः । व॒न्तारः᳚ । बृ॒ह॒तः । स्या॒म॒ । अ॒स्मे इति᳚ । अ॒स्तु॒ । भगः᳚ । इ॒न्द्र॒ । प्र॒जा॑वा᳚न् ॥
प्रणेतः प्रकर्षेण जगतो निर्वाहक हे इन्द्र अस्मान्वाजिभिरश्वैः सहितान् कुरु । स्वस्तये चाविनाशाय कुरु । यदात्वं समासत्सि अस्माकं समीपे यज्ञनिर्वाहार्थमासीदसि तदा वयं महीर्महान्तिषोऽन्नानि पूर्वीः प्रभुतानि रायो धनानि वन्तारस्तेषां सम्भक्तारः सन्तो बृहतो महान्तः स्याम । भवेम । किञ्च प्रजावान् अपत्योपेतं भगो धनमस्मे अस्मास्वस्तु । भवतु ॥ आसत्सि । षद्लृ विशरणादिषु । आसत्सि । बहुलं छन्दसीति शपो लुक् । यद्योगादनिघातः । इषो राय इति च द्वे षष्ठ्यर्थे द्वितीये । वन्तारः । वन षण सम्भक्तावित्यस्य तृचि आगमानुशासनस्यानित्यत्वादिडभावः । चित्स्वरः । स्याम । अस भुवीत्यस्य लिङि रूपम् । अस्मे । अस्मच्छब्दस्य सप्तम्याः सुपां सुलिगिति शे इत्यादेशः ॥ १८ ॥
आ नो᳚ भर॒ भग᳚मिन्द्र द्यु॒मन्तं॒ नि ते᳚ दे॒ष्णस्य᳚ धीमहि प्ररे॒के ।
ऊ॒र्व इ᳚व पप्रथे॒ कामो᳚ अ॒स्मे तमा पृ᳚ण वसुपते॒ वसू᳚नाम् ॥
आ । नः॒ । भ॒र॒ । भग᳚म् । इ॒न्द्र॒ । द्यु॒॑मन्त᳚म् । नि । ते॒ । दे॒ष्णस्य᳚ । धी॒म॒हि॒ । प्र॒॑रे॒के ।
ऊ॒र्वः॑इ᳚व । प॒प्र॒थे॒ । कामः᳚ । अ॒स्मे इति᳚ । तम् । आ । पृ॒ण॒ । व॒सु॒॑प॒ते॒ । वसू᳚नाम् ॥
हे इन्द्र नोऽस्मदर्थं द्युमन्तं दीप्तियुक्तं भगं धनमाभर । आ समन्तात्सम्भर । देष्नस्य दानशीलस्य ते तव सम्बन्धिनो धनस्य प्रेरके प्ररेचने दाने निघीमहि । धनदानस्य वयं प्रातभूताः स्म इत्यर्थेः । कुत इत्यत आह । अस्मे अस्माकं कामोऽभिलाष ऊर्व इव अनवाप्तकामो वडवानल इव पप्रथे । प्रभूतो वर्तते । वसूनां वसुपते धनानां मध्य उत्तमधनानामधिपते हे इन्द्र तं महान्तं काममापृण । बहुधनप्रदानेनापूरय । भर । भृञ् भरण इत्यस्य लोटि रूपम् । देश्णस्य । डुदाञ् दाने । गादाभ्यामिष्णुजं ष्णुच् प्रत्ययः । अत्यर्थं ददातीति देष्णः । चित्स्वरः । धीमहि । दधातेर्लिङि बहुलं छन्दसीति शओप् लुक् । छन्दस्युभयथेति महिङः सार्वधातुकत्वात्सीयुटः सलोपः । आर्धधातुकत्वादतो लोपः । निघातः । ऊर्व इव । पूर्वपदस्वरः । पप्रथे प्रथ प्रख्यान इत्यस्य लिटि रूपम् । पृण । पृण प्रीणन इत्यस्य लोटि सेर्हिः । तुदादिः । आतो हेरिति हेर्लुक् । वसूनाम् । नित्त्वादाद्युदात्तः ॥ १९ ॥
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव᳚ता॒ राध᳚सा प॒प्रथ᳚श्च ।
स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः᳚ कुशि॒कासो᳚ अक्रन् ॥
इ॒मम् । काम᳚म् । म॒न्द॒य॒ । गोभिः᳚ । अश्वैः᳚ । च॒न्द्र॑व᳚ता । राध᳚सा । प॒प्रथः᳚ । च॒ ।
स्वः॒॑यवः । म॒ति॑भिः᳚ । तुभ्य᳚म् । विप्राः᳚ । इन्द्रा᳚य । वाहः᳚ । कु॒शि॒कासः᳚ । अ॒क्र॒न् ॥
हे इन्द्र इमं धनादिविषयं काममस्मदीयमभिलाषं गोभिरग्निहोत्रादि कर्मसाधनभूतैर्गवादिभिर्वाहनसाधनभुतैरश्वैश्च चन्द्रवता दीप्तियुक्तेन राधसा धनेन च मन्दय । एतानि दत्त्वेममभिलाषं पूरय । किञ्च । एतैरस्मान्प्रथः । प्रथितांश्च कुरु । पश्चात्स्वर्यवः । स्वर्गादिसुखमात्मन इच्छन्तो विप्राः कर्मकुशलाः कुशिकासः कुशिका मतिभिर्मननीयैर्मन्त्रैर्वाहः स्तोत्रमिन्द्राय तुभ्यमक्रन् । अकार्षुः ॥ मन्दय । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । गोभिः । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेत्यादिना प्रतिषेधः । प्रकृतिस्वरः । पप्रथः । प्रथ प्रख्याने । क्विप् । छन्दस्युभयथेति तस्य सार्वधातुकत्वात् शप् । तस्य बहुलं छन्दसीति श्लुः । धातुस्वरः । अक्रन् । करोतेर्लुङि मन्त्रे घसह्वरेत्यादिना लुक् । निघातः ॥ २० ॥
आ नो᳚ गो॒त्रा द᳚र्दृहि गोपते॒ गाः सम॒स्मभ्यं᳚ स॒नयो᳚ यन्तु॒ वाजा᳚ः ।
दि॒वक्षा᳚ असि वृषभ स॒त्यशु᳚ष्मो॒॑स्मभ्यं॒ सु म᳚घवन्बोधि गो॒दाः ॥
आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒॑प॒ते॒ । गाः । सम् । अ॒स्मभ्य᳚म् । स॒नयः᳚ । य॒न्तु॒ । वाजाः᳚ ।
दि॒वक्षाः᳚ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्य॑शु᳚ष्मः । अ॒स्मभ्य᳚म् । सु । म॒घ॒॑व॒न् । बो॒धि॒ । गो॒॑दाः ॥
गोपते गवां पते स्वर्गाधिपते हे इन्द्र नोऽस्मदर्थं गोत्रा गोत्राण्यभ्राणि गा अपः प्रत्या दर्दृजि । आद्रियस्व । अभ्राणि विदार्य जलानि प्रापयेत्यर्थः । ततः सनयः सम्भजनीयानि वाजा अन्नान्यस्मभ्यमस्मदर्थं संयुन्तु । समागच्छन्तु । वृषभ कामानां वर्षितर्हे इन्द्र त्वं दिवक्षा असि । दिवं व्याप्य वर्तमानत्वेन महानसि । आत एव सत्यशुष्मः सत्यसामर्थ्यो मघवन् धनवन् हे इन्द्र अस्मभ्यं गोदा गवां प्रदाता भवामीति सु बोधि । सुष्ठु बुध्यस्व ॥ दर्दृहि । दृङ् आदरे । यङ् लुकि लोटि रूपम् । ऋतश्च । पा. ७-४-९२ । इत्यभ्यासस्य रुगागमः । निघातः । गाः । औतोम्यसोः । पा. ६-१-९३ । इत्योकारस्याकारः । एकादेशस्वरः । अस्मभ्यम् । भ्यसो भ्यमिति चतुर्थीबहुवचनस्य भ्यमादेशः । यन्तु । इण् गतौ । लोटि रूपम् । दिवक्षाः । अक्षू व्याप्तौ । असुन् । दिवं व्याप्नोतीति दिवक्षाः । कृदुत्तरपदस्वरः । गोदाः । डुदाञ् दान इत्यस्माद्विच् । कृदुत्तरपदस्वरः ॥ २१ ॥
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जलक्ष्मीमनेन योद्धार इति भरः । सङ्ग्रामः । तस्मिन्सङ्गामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नैतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयंकरं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रो पलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसंतं धनानां शत्रुसम्बन्धिना सञ्चितं समग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । धरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । भौव्रीहौ पूर्वपदस्वरः । समत्सु । आद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिम्साअगत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ २२ ॥