श्रवणम्

3.30.21
आ नो᳚ गो॒त्रा द᳚र्दृहि गोपते॒ गाः सम॒स्मभ्यं᳚ स॒नयो᳚ यन्तु॒ वाजा᳚ः ।
दि॒वक्षा᳚ असि वृषभ स॒त्यशु᳚ष्मो॒॑स्मभ्यं॒ सु म᳚घवन्बोधि गो॒दाः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒॑प॒ते॒ । गाः । सम् । अ॒स्मभ्य᳚म् । स॒नयः᳚ । य॒न्तु॒ । वाजाः᳚ ।
दि॒वक्षाः᳚ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्य॑शु᳚ष्मः । अ॒स्मभ्य᳚म् । सु । म॒घ॒॑व॒न् । बो॒धि॒ । गो॒॑दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोपते गवां पते स्वर्गाधिपते हे इन्द्र नोऽस्मदर्थं गोत्रा गोत्राण्यभ्राणि गा अपः प्रत्या दर्दृजि । आद्रियस्व । अभ्राणि विदार्य जलानि प्रापयेत्यर्थः । ततः सनयः सम्भजनीयानि वाजा अन्नान्यस्मभ्यमस्मदर्थं संयुन्तु । समागच्छन्तु । वृषभ कामानां वर्षितर्हे इन्द्र त्वं दिवक्षा असि । दिवं व्याप्य वर्तमानत्वेन महानसि । आत एव सत्यशुष्मः सत्यसामर्थ्यो मघवन् धनवन् हे इन्द्र अस्मभ्यं गोदा गवां प्रदाता भवामीति सु बोधि । सुष्ठु बुध्यस्व ॥ दर्दृहि । दृङ् आदरे । यङ् लुकि लोटि रूपम् । ऋतश्च । पा. ७-४-९२ । इत्यभ्यासस्य रुगागमः । निघातः । गाः । औतोम्यसोः । पा. ६-१-९३ । इत्योकारस्याकारः । एकादेशस्वरः । अस्मभ्यम् । भ्यसो भ्यमिति चतुर्थीबहुवचनस्य भ्यमादेशः । यन्तु । इण् गतौ । लोटि रूपम् । दिवक्षाः । अक्षू व्याप्तौ । असुन् । दिवं व्याप्नोतीति दिवक्षाः । कृदुत्तरपदस्वरः । गोदाः । डुदाञ् दान इत्यस्माद्विच् । कृदुत्तरपदस्वरः ॥ २१ ॥