श्रवणम्

3.30.13
दिदृ᳚क्षन्त उ॒षसो॒ याम᳚न्न॒क्तोर्वि॒वस्व᳚त्या॒ महि᳚ चि॒त्रमनी᳚कम् ।
विश्वे᳚ जानन्ति महि॒ना यदागा॒दिन्द्र᳚स्य॒ कर्म॒ सुकृ᳚ता पु॒रूणि᳚ ॥
▶ पदपाठः (Word-by-word)
दिदृ᳚क्षन्ते । उ॒षसः᳚ । याम᳚न् । अ॒क्तोः । वि॒वस्व᳚त्याः । महि᳚ । चि॒त्रम् । अनी᳚कम् ।
विश्वे᳚ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा᳚त् । इन्द्र᳚स्य । कर्म᳚ । सु॑कृ᳚ता । पु॒रूणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वे जना विवस्वत्या विवासनवत्या निर्गमपराया अक्तो रात्रेः सम्बन्धिन उषसो यामन् यामनि निर्गमने सति महि महत् चित्रं चायनीयमनीकं सौरं तेजो दिदृक्षन्ते । द्रष्टुमिच्छन्ति यद्यदा आगात् उषःकालः समन्तागतो व्यपैति तदा तेजो दिदृक्षमाणाः सर्वे जना महिना महनीयान्यग्निहोत्रादीनि कर्माणि जानन्ति । कर्तव्यतयावबुध्यन्ते । हे इन्द्र पुरूणि बहूनि सुकृता सुष्ठु कृतानि कर्म कर्माणीन्द्रस्य तवैव ॥ दिदृक्षन्ते । दृशिर् प्रेक्षण इत्यस्य सनि ज्ञाश्रुस्मृदृशां सनः । पा.१-३-५७ । इत्यात्मनेपदम् । अभ्यस्तस्वरः । विवस्वत्याः । विवासतेः सम्पादिलक्षणः । क्विप् । व्यत्ययेनोपधाह्रस्वत्वम् । तस्मात्तदस्यास्तीति मतुप् । मादुपधाया इति तस्य वत्वम् । मतुपः पित्त्वादनुदात्तत्वे धातुस्वरः । जानन्ति । ज्ञा अवबोधने । ज्ञाजनोर्जेति जादेशः । निघातः । आगात् । इण् गता वितृस्य लुङि रूपम् । यद्योगादनिघातः । सुकृता । गतिरनन्तर इति गतेः । प्रकृतिस्वरत्वं ॥ १३ ॥