श्रवणम्

3.30.18
स्व॒स्तये᳚ वा॒जिभि᳚श्च प्रणेत॒ः सं यन्म॒हीरिष᳚ आ॒सत्सि᳚ पू॒र्वीः ।
रा॒यो व॒न्तारो᳚ बृह॒तः स्या᳚मा॒स्मे अ᳚स्तु॒ भग᳚ इन्द्र प्र॒जावा᳚न् ॥
▶ पदपाठः (Word-by-word)
स्व॒स्तये᳚ । वा॒जि॑भिः᳚ । च॒ । प्र॒ने॒त॒रिति᳚ प्र॑नेतः । सम् । यत् । म॒हीः । इषः᳚ । आ॒॑सत्सि᳚ । पू॒र्वीः ।
रा॒यः । व॒न्तारः᳚ । बृ॒ह॒तः । स्या॒म॒ । अ॒स्मे इति᳚ । अ॒स्तु॒ । भगः᳚ । इ॒न्द्र॒ । प्र॒जा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रणेतः प्रकर्षेण जगतो निर्वाहक हे इन्द्र अस्मान्वाजिभिरश्वैः सहितान् कुरु । स्वस्तये चाविनाशाय कुरु । यदात्वं समासत्सि अस्माकं समीपे यज्ञनिर्वाहार्थमासीदसि तदा वयं महीर्महान्तिषोऽन्नानि पूर्वीः प्रभुतानि रायो धनानि वन्तारस्तेषां सम्भक्तारः सन्तो बृहतो महान्तः स्याम । भवेम । किञ्च प्रजावान् अपत्योपेतं भगो धनमस्मे अस्मास्वस्तु । भवतु ॥ आसत्सि । षद्लृ विशरणादिषु । आसत्सि । बहुलं छन्दसीति शपो लुक् । यद्योगादनिघातः । इषो राय इति च द्वे षष्ठ्यर्थे द्वितीये । वन्तारः । वन षण सम्भक्तावित्यस्य तृचि आगमानुशासनस्यानित्यत्वादिडभावः । चित्स्वरः । स्याम । अस भुवीत्यस्य लिङि रूपम् । अस्मे । अस्मच्छब्दस्य सप्तम्याः सुपां सुलिगिति शे इत्यादेशः ॥ १८ ॥