इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव᳚ता॒ राध᳚सा प॒प्रथ᳚श्च ।
स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः᳚ कुशि॒कासो᳚ अक्रन् ॥
स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः᳚ कुशि॒कासो᳚ अक्रन् ॥
पदपाठः (Word-by-word)
इ॒मम् । काम᳚म् । म॒न्द॒य॒ । गोभिः᳚ । अश्वैः᳚ । च॒न्द्र॑व᳚ता । राध᳚सा । प॒प्रथः᳚ । च॒ ।
स्वः॒॑यवः । म॒ति॑भिः᳚ । तुभ्य᳚म् । विप्राः᳚ । इन्द्रा᳚य । वाहः᳚ । कु॒शि॒कासः᳚ । अ॒क्र॒न् ॥
स्वः॒॑यवः । म॒ति॑भिः᳚ । तुभ्य᳚म् । विप्राः᳚ । इन्द्रा᳚य । वाहः᳚ । कु॒शि॒कासः᳚ । अ॒क्र॒न् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र इमं धनादिविषयं काममस्मदीयमभिलाषं गोभिरग्निहोत्रादि कर्मसाधनभूतैर्गवादिभिर्वाहनसाधनभुतैरश्वैश्च चन्द्रवता दीप्तियुक्तेन राधसा धनेन च मन्दय । एतानि दत्त्वेममभिलाषं पूरय । किञ्च । एतैरस्मान्प्रथः । प्रथितांश्च कुरु । पश्चात्स्वर्यवः । स्वर्गादिसुखमात्मन इच्छन्तो विप्राः कर्मकुशलाः कुशिकासः कुशिका मतिभिर्मननीयैर्मन्त्रैर्वाहः स्तोत्रमिन्द्राय तुभ्यमक्रन् । अकार्षुः ॥ मन्दय । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । गोभिः । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेत्यादिना प्रतिषेधः । प्रकृतिस्वरः । पप्रथः । प्रथ प्रख्याने । क्विप् । छन्दस्युभयथेति तस्य सार्वधातुकत्वात् शप् । तस्य बहुलं छन्दसीति श्लुः । धातुस्वरः । अक्रन् । करोतेर्लुङि मन्त्रे घसह्वरेत्यादिना लुक् । निघातः ॥ २० ॥