अष्टमं मण्डलम् - सूक्तम् 1

34 ऋचः

ऋषिः: प्रगाथो घौरः काण्वो वा देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.1 - सम्पूर्णम्

1 / 34
ऋक्: 8.1.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (34)
8.1.1
मा चि᳚द॒न्यद्वि शं᳚सत॒ सखा᳚यो॒ मा रि᳚षण्यत ।
इन्द्र॒मित्स्तो᳚ता॒ वृष᳚णं॒ सचा᳚ सु॒ते मुहु᳚रु॒क्था च᳚ शंसत ॥
▶ पदपाठः (Word-by-word)
मा । चि॒त् । अ॒न्यत् । वि । शं॒स॒त॒ । सखा᳚यः । मा । रि॒ष॒ण्य॒त॒ ।
इन्द्र᳚म् । इत् । स्तो॒त॒ । वृष᳚णम् । सचा᳚ । सु॒ते । मुहुः᳚ । उ॒क्था । च॒ । शं॒स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः समानख्यानाः स्तोतारः इन्द्रस्तोत्रादन्यत्स्तोत्रं माचिद्विशंसत मैवोच्चारयत मारिषण्यत माहिंसितारोभवत अन्यदीयस्तोत्रो- च्चारणेन वृथोपक्षीणा माभवत । सुतेभिषुते सोमे वृषणं कामानां वर्षितारमिन्द्रमित् इन्द्रमेव हे प्रस्तोत्रादयः सचा सह संघीभूय स्तोत स्तुत । हे प्रशस्त्रादयः उक्थाच उक्थानि शस्त्राणि चेन्द्रविषयाणि यूयं मुहुः पुनः पुनः शंसत ॥ १ ॥

8.1.2
अ॒व॒क्र॒क्षिणं᳚ वृष॒भं य᳚था॒जुरं॒ गां न च᳚र्षणी॒सह᳚म् ।
वि॒द्वेष᳚णं सं॒वन᳚नोभयंक॒रं मंहि᳚ष्ठमुभया॒विन᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒व॒॑क्र॒क्षिण᳚म् । वृ॒ष॒भम् । य॒था॒ । अ॒जुर᳚म् । गाम् । न । च॒र्ष॒णि॒॑सह᳚म् ।
वि॒॑द्वेष᳚णम् । स॒म्॑वन᳚ना । उ॒भ॒य॒म्॑क॒रम् । मंहि᳚ष्ठम् । उ॒भ॒या॒विन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभं यथा वृषभमिव अवक्रक्षिणं अवकर्षणशीलं शत्रूणां हिंसितारं अजुरं जरारहितं अहिंसितं वा गां न गामिव वृषभमिव चर्षणीसहं चर्षणीनां मनुष्याणां शत्रुभूतानामभिभवितारं विद्वेषणं विद्वेष्टारं शत्रूणां संवनना संवननं सम्यक्संभजनीयं स्तोतृभिः उभयंकरं निग्रहा- नुग्रहयोरुभयोः कर्तारम् मंहिष्ठं दातृतमम् उभयाविनं दिव्यपार्थिवलक्षणेन उभयविधधनेनोपेतं यद्वा स्थावरजङ्गमरूपेण द्विप्रकारेण रक्षितव्येनोपेतं अथवा उभयविधैः स्तोतृभिः यष्टृभिश्चोपेतम् । एवंविधमिन्द्रमित् स्तोतेत्यन्वयः ॥ २ ॥ चातुर्विशिकेहनि माध्यन्दिनसवने यच्चिद्धित्वेति प्रशास्तुर्वैकल्पिकोनुरूपःप्रगाथः सूत्रन्तुदाहृतम् ।

8.1.3
यच्चि॒द्धि त्वा॒ जना᳚ इ॒मे नाना॒ हव᳚न्त ऊ॒तये᳚ ।
अ॒स्माकं॒ ब्रह्मे॒दमि᳚न्द्र भूतु॒ ते॑हा॒ विश्वा᳚ च॒ वर्ध᳚नम् ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । त्वा॒ । जनाः᳚ । इ॒मे । नाना᳚ । हव᳚न्ते । ऊ॒तये᳚ ।
अ॒स्माक᳚म् । ब्रह्म᳚ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा᳚ । विश्वा᳚ । च॒ । वर्ध᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे दृश्यमानाः सर्वेजनाः हे इन्द्र त्वां ऊतये रक्षणाय तर्पणायवा नाना पृथक् पृथक् यच्चित् यद्यपि हवन्ते स्तुवन्ति हीतिपूरणः तथापि अस्माकं इदं ब्रह्म स्तोत्रमेव हेइंद्र ते तव वर्धनं वर्धकं भूतु भवतु न केवलमिदानीमेव अपितु विश्वाहा सर्वाण्यहानि सर्वेष्वहस्सुच इदमेव स्तोत्रं त्वां वर्धयत्वित्यर्थः ॥ ३ ॥

8.1.4
वि त᳚र्तूर्यन्ते मघवन्विप॒श्चितो॒॑र्यो विपो॒ जना᳚नाम् ।
उप᳚ क्रमस्व पुरु॒रूप॒मा भ᳚र॒ वाजं॒ नेदि᳚ष्ठमू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
वि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒॑व॒न् । वि॒पः॒॑चितः᳚ । अ॒र्यः । विपः᳚ । जना᳚नाम् ।
उप᳚ । क्र॒म॒स्व॒ । पु॒रु॒॑रूप᳚म् । आ । भ॒र॒ । वाज᳚म् । नेदि᳚ष्ठम् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निन्द्र विपश्चितोविद्वांसः त्वदीयाः स्तोतारः अयः अभिगन्तारः जनानां शत्रूणां विपोवेपयितारः सन्तः वितर्तूर्यन्ते भृशं आपदोवितरन्ति अतिक्रामन्ति तादृशस्त्वं उपक्रमस्व उपगच्छस्मान् पुरुरूपं बहुरूपं नेदिष्ठं अंतिकतमं वाजमन्नं ऊतये तर्पणाय आभरास्मभ्यम् ॥ ४ ॥

8.1.5
म॒हे च॒न त्वाम᳚द्रिव॒ः परा᳚ शु॒ल्काय᳚ देयाम् ।
न स॒हस्रा᳚य॒ नायुता᳚य वज्रिवो॒ न श॒ताय᳚ शतामघ ॥
▶ पदपाठः (Word-by-word)
म॒हे । च॒न । त्वाम् । अ॒द्रि॒॑वः॒ । परा᳚ । शु॒ल्काय᳚ । दे॒या॒म् ।
न । स॒हस्रा᳚य । न । अ॒युता᳚य । व॒ज्रि॒॑वः॒ । न । श॒ताय᳚ । श॒त॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवोवज्रवन्निन्द्र त्वा त्वां चनेति निपातद्वयसमुदायोविभज्ययोजनीयः महेच महतेपि शुल्काय मूल्याय न परादेयां न विक्रीणानि । हे वज्रिवोवज्रहस्तेन्द्र सहस्राय सहस्रसांख्यायच धनाय न परादेयाम् । अयुताय दशसहस्रायच शुल्काय न परादेयाम् । हे शतामघ बहुधनेन्द्र शताय बहुनामैतत् अपरिमितायच धनाय न परादेयां नविक्रीणानि उक्तसंख्याद्धनादपि त्वं ममप्रियतमोसीत्यर्थः ॥ ५ ॥

8.1.6 समानपद
वस्या{4}᳚ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु᳚ञ्जतः ।
मा॒ता च᳚ मे छदयथः स॒मा व᳚सो वसुत्व॒नाय॒ राध᳚से ॥
▶ पदपाठः (Word-by-word)
वस्या᳚न् । इ॒न्द्र॒ । अ॒सि॒ । मे॒ । पि॒तुः । उ॒त । भ्रातुः᳚ । अभु᳚ञ्जतः ।
मा॒ता । च॒ । मे॒ । छ॒द॒य॒थः॒ । स॒मा । व॒सो॒ इति᳚ । व॒सु॒॑त्व॒नाय᳚ । राध᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं मे मदीयात्पितुजर्नकादपि वस्यान् वसीयान् वसुमत्तरोसि उतापिच अभुच्चतः अपालयतोमम भ्रातुरपि वसीयान् त्वमधि- कोसि हे वसोवासकेन्द्र मे मदीया माता च त्वञ्च समा समौ समानौ सन्तौ । पुमान् स्त्रियेति पुंसः शेषः । छदयथः अर्चतिकर्मायम् मां पूजितं कुरुथः । किमर्थं वसुत्वनाय व्यापनाय राधसे धनायच उभयोर्लाभायेत्यर्थः ॥ ६ ॥

8.1.7
क्वे᳚यथ॒ क्वेद᳚सि पुरु॒त्रा चि॒द्धि ते॒ मनः᳚ ।
अल᳚र्षि युध्म खजकृत्पुरंदर॒ प्र गा᳚य॒त्रा अ᳚गासिषुः ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । इ॒य॒थ॒ । क्व᳚ । इत् । अ॒सि॒ । पु॒रु॒॑त्रा । चि॒त् । हि । ते॒ । मनः᳚ ।
अल᳚र्षि । यु॒ध्म॒ । ख॒ज॒॑कृ॒त् । पु॒र॒म्॑द॒र॒ । प्र । गा॒य॒त्राः । अ॒गा॒सि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र क्व कुत्रदेशे इमथ गतवानसि पुरा क्वेत् कुत्रचासि भवसि इदानीं वर्तसे पुरुत्राचिद्धि बहुषु हि यजमानेषु ते त्वदीयं मनः संचरति । हे युध्म युद्धकुशल खजकृत् युद्धस्य कर्तः हे पुरन्दर आसुरीणां पुरां दारयितः हे इन्द्र अलर्षि आगच्छ गायत्राः गानकुशलाः अस्मदीयाः स्तोतारः प्रागासिषुः प्रगायन्ति स्तुवन्ति अलर्षीत्येतत् दाधर्त्यादावियर्तोर्निपात्यते ॥ ७ ॥

8.1.8
प्रास्मै᳚ गाय॒त्रम᳚र्चत वा॒वातु॒र्यः पु᳚रंद॒रः ।
याभि᳚ः का॒ण्वस्योप᳚ ब॒र्हिरा॒सदं॒ यास᳚द्व॒ज्री भि॒नत्पुरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒स्मै॒ । गा॒य॒त्रम् । अ॒र्च॒त॒ । व॒वातुः᳚ । यः । पु॒र॒म्॑द॒रः ।
याभिः᳚ । का॒ण्वस्य᳚ । उप᳚ । ब॒र्हिः । आ॒॑सद᳚म् । यास᳚त् । व॒ज्री । भि॒नत् । पुरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्माइन्द्राय गायत्रं गातव्यं साम गायत्रसंज्ञं वा प्रार्चत प्रगायत पुरन्दरः पुरंदारयिता यइन्द्रः ववातुर्वननीयः संभजनीयः यद्वा वावातुः संभक्तुः स्तोतुः यइन्द्रः पुरन्दरः शत्रुपुराणां दारयिता याभिरृग्भिः काण्वस्य कण्वपुत्रस्य मेधातिथेर्मेध्यातिथेश्च बर्हिर्यज्ञं उपासदं उपासत्तुं उपगन्तुं यासत् गच्छेत् वज्री वज्रयुक्तः सन् याभिश्चं ऋग्भिः स्तूयमानः सन् पुरः शात्रवीः भिनत् भिन्द्यात् तास्वृक्षु गायत्रं साम गायतेत्यर्थः ॥ ८ ॥

8.1.9
ये ते॒ सन्ति᳚ दश॒ग्विनः᳚ श॒तिनो॒ ये स᳚ह॒स्रिणः᳚ ।
अश्वा᳚सो॒ ये ते॒ वृष᳚णो रघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒मा ग᳚हि ॥
▶ पदपाठः (Word-by-word)
ये । ते॒ । सन्ति᳚ । द॒श॒॑ग्विनः᳚ । श॒तिनः᳚ । ये । स॒ह॒स्रिणः᳚ ।
अश्वा᳚सः । ये । ते॒ । वृष᳚णः । र॒घु॒॑द्रुवः᳚ । तेभिः᳚ । नः॒ । तूय᳚म् । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र दशग्विनः दशयोजनगामिनः ये अश्वास्ते तव सन्ति विद्यन्ते येचान्ये शतिनः शतसंख्याकाः सहस्रिणः सहस्रस्ख्याकाः सन्ति ये ते त्वदीयाअश्वासः अश्वाः वृषणः सेचनसमर्थायुवानः रघुद्रुवः शीघ्रगामिनश्च तेभिस्तैः सर्वैरश्वैर्नोस्मान् तूयं क्षिप्रं आगत्द्यागच्छ ॥ ९ ॥

8.1.10
आ त्व१॒᳚द्य स᳚ब॒र्दुघां᳚ हु॒वे गा᳚य॒त्रवे᳚पसम् ।
इन्द्रं᳚ धे॒नुं सु॒दुघा॒मन्या॒मिष᳚मु॒रुधा᳚रामरं॒कृत᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । तु । अ॒द्य । स॒बः॒॑दुघा᳚म् । हु॒वे । गा॒य॒त्र॑वे᳚पसम् ।
इन्द्र᳚म् । धे॒नुम् । सु॒॑दुघा᳚म् । अन्या᳚म् । इष᳚म् । उ॒रु॑धा᳚राम् । अ॒र॒म्॑कृत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया इन्द्रं धेनुरूपेण वृष्टिरूपेणच निरूपयन् स्तौति अद्येदानीं धेनुं धेनुरूपमिन्द्रं नु क्षिप्रं आहुवे आह्वये कीदृशीं धेनुं सबर्दुघां पयसो- दोग्ध्रीं गायत्रवेपसं प्रशस्यवेगां सुदुघां सुखेन दोग्धुं शक्यां अन्यामुक्तविलक्षणां उरुधारां बहूदकधारां इषं एषणीयां वृष्टिं एतद्रूपेण वर्तमानं अरंकृतं अलंकर्तारं पर्याप्तकारिणं वेन्द्रं चाह्वये ॥ १० ॥

8.1.11 समानपद
यत्तु॒दत्सूर॒ एत᳚शं व॒ङ्कू वात᳚स्य प॒र्णिना᳚ ।
वह॒त्कुत्स᳚मार्जुने॒यं श॒तक्र᳚तु॒ः त्सर᳚द्गन्ध॒र्वमस्तृ᳚तम् ॥
▶ पदपाठः (Word-by-word)
यत् । तु॒दत् । सूरः᳚ । एत᳚शम् । व॒ङ्कू इति᳚ । वात᳚स्य । प॒र्णिना᳚ ।
वह᳚त् । कुत्स᳚म् । आ॒र्जु॒ने॒यम् । श॒त॑क्र᳚तुः । त्सर᳚त् । ग॒न्ध॒र्वम् । अस्तृ᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरः सूर्यः एतशं एतत्संज्ञं राजर्षिं यद्यदा तदत् अव्यथयत् तदानीं एतशं रक्षितुं वंकूवक्रगामिनौ वातस्य वायोः सदृशौ पर्णिना पर्णिनौ पतनवन्तौ ईदृशावश्वौ शतक्रतुः बहुविधकर्मेन्द्रः आर्जुनेयं अर्जुन्याः पुत्रं कुत्समृषिं वहत् अवहत् आनयत् कुत्सेन सार्धं समानं रथमारुत्द्य एतशरक्षणायागच्छदित्यर्थः । तथाच निगमान्तरम्-प्रैतशंसूर्ये पस्पृधानं सौवश्व्येसुष्विमावदिन्द्रइति । गन्धर्वं गवां रश्मीनां धर्तारं सूर्यं अस्तृतं केनाप्यहिंसितं त्सरत् अत्सरत् छद्मगत्य अगच्छत् सूर्येण योद्धुं गतवानित्यर्थः ॥ ११ ॥

8.1.12 समानपद
य ऋ॒ते चि᳚दभि॒श्रिषः᳚ पु॒रा ज॒त्रुभ्य᳚ आ॒तृदः᳚ ।
संधा᳚ता सं॒धिं म॒घवा᳚ पुरू॒वसु॒रिष्क᳚र्ता॒ विह्रु᳚तं॒ पुनः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ऋ॒ते । चि॒त् । अ॒भि॒॑श्रिषः᳚ । पु॒रा । ज॒त्रु॑भ्यः᳚ । आ॒॑तृदः᳚ ।
सम्॑धा᳚ता । स॒म्॑धिम् । म॒घ॑वा᳚ । पु॒रु॒॑वसुः᳚ । इष्क᳚र्ता । वि॑ह्रु᳚तम् । पुन॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः अभिश्रिषः अभिश्लिषः अभिश्लेषणान् सन्धानद्रव्यान् ऋतेचित् विनापि जत्रुभ्योग्रीवाभ्यः सकाशात् आतृदः आतर्दनात् आरुधि- रनिः स्रवणात् पुरा पूर्वमेव सन्धिं संधातव्यं तं संधाता संयोजयिता भवति मघवान् धनवान् पुरुवसुः बहुधनः सइन्द्रः विह्रुतं विच्छि- न्नं तं पुनरिष्कर्ता संस्कर्ता भवति ॥ १२ ॥

8.1.13 समानपद
मा भू᳚म॒ निष्ट्या᳚ इ॒वेन्द्र॒ त्वदर᳚णा इव ।
वना᳚नि॒ न प्र᳚जहि॒तान्य᳚द्रिवो दु॒रोषा᳚सो अमन्महि ॥
▶ पदपाठः (Word-by-word)
मा । भू॒म॒ । निष्ट्याः᳚॑इव । इन्द्र᳚ । त्वत् । अर᳚णाः॑इव ।
वना᳚नि । न । प्र॒॑ज॒हि॒तानि᳚ । अ॒द्रि॒॑वः॒ । दु॒रोषा᳚सः । अ॒म॒न्म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वत् त्वत्तः त्वत्प्रसादात् निष्ट्याइव नीचैः भूताः हीना निष्ट्याः तइव वयं माभूम तथा अरणाइव अरमणाः दुःखिनइव वयं माभूम अपिच प्रजहितानि प्रक्षीणानि शाखादिभिर्वियुक्तानिन वनानि वृक्षजातानीव वयं पुत्रादिभिः वियुक्तामाभूम । हे अद्रिवो- वज्रवन्निन्द्र दुरोषासः ओषितुमन्यैर्दग्धुमशक्याः दुर्येषु गृहेषु निवसन्तोवा वयं अमन्महि त्वां स्तुमः ॥ १३ ॥

8.1.14
अम᳚न्म॒हीद᳚ना॒शवो᳚॑नु॒ग्रास᳚श्च वृत्रहन् ।
स॒कृत्सु ते᳚ मह॒ता शू᳚र॒ राध᳚सा॒ अनु॒ स्तोमं᳚ मुदीमहि ॥
▶ पदपाठः (Word-by-word)
अम᳚न्महि । इत् । अ॒ना॒शवः᳚ । अ॒नु॒ग्रासः᳚ । च॒ । वृ॒त्र॒॑ह॒न् ।
स॒कृत् । सु । ते॒ । म॒ह॒ता । शू॒र॒ । राध᳚सा । अनु᳚ । स्तोम᳚म् । मु॒दी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् वृत्रस्यासुरस्य हन्तरिन्द्र अनाशवः अशीघ्राः अत्वरमाणाः अनुग्रासः अनुग्राः अनुद्गूर्णाश्च सन्तोवयं भक्तिश्रद्धापुरःसरं शनैस्त्वां अमन्महीत् स्तुमएव । हे शूर वीर्यवन्निन्द्र ते त्वदर्थं सकृत् एकवारमपि महता प्रभूतेन राधसा धनेन हविर्लक्षणेन सह शोभनं स्तोमं स्तोत्रं अनुमुदीमहि अनुमोदेमहि अनुब्रवामेत्यर्थः ॥ १४ ॥

8.1.15
यदि॒ स्तोमं॒ मम॒ श्रव᳚द॒स्माक॒मिन्द्र॒मिन्द᳚वः ।
ति॒रः प॒वित्रं᳚ ससृ॒वांस᳚ आ॒शवो॒ मन्द᳚न्तु तुग्र्या॒वृधः᳚ ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । स्तोम᳚म् । मम᳚ । श्रव᳚त् । अ॒स्माक᳚म् । इन्द्र᳚म् । इन्द᳚वः ।
ति॒रः । प॒वित्र᳚म् । स॒सृ॒॑वांसः᳚ । आ॒शवः᳚ । मन्द᳚न्तु । तु॒ग्र्य॒॑वृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रोमम मदीयं स्तोत्रं यदि श्रवत् श्रृणुयात् तदानीं तमिन्द्रं अस्माकं अस्मदीया इन्दवः सोमाः मन्दन्तु मादयन्तु हर्षयन्तु । कीदृशाः सोमाः तिरः तिर्यगवस्थितं पवित्रं पवनसाधनं दशापवित्रं ससृवांसः प्राप्तवन्तः दशापवित्रेण पूताइत्यर्थः आशवः शीघ्रं मदजन- काः तुभ्यावृधः तुभ्याभिः वसतीवर्येकधनाख्याभिरद्भिर्वर्धमानाः ॥ १५ ॥

8.1.16
आ त्व१॒᳚द्य स॒धस्तु᳚तिं वा॒वातु॒ः सख्यु॒रा ग᳚हि ।
उप᳚स्तुतिर्म॒घोनां॒ प्र त्वा᳚व॒त्वधा᳚ ते वश्मि सुष्टु॒तिम् ॥
▶ पदपाठः (Word-by-word)
आ । तु । अ॒द्य । स॒ध॑स्तु᳚तिम् । व॒वातुः᳚ । सख्युः᳚ । आ । ग॒हि॒ ।
उप᳚॑स्तुतिः । म॒घोना᳚म् । प्र । त्वा॒ । अ॒व॒तु॒ । अध᳚ । ते॒ । व॒श्मि॒ । सु॒॑स्तु॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वावातुः संभक्तुः त्वां सेवमानस्य सख्युः स्तोतुः सधस्तुतिं अन्यैरृत्विग्भिः सह क्रियमाणां स्तुतिं अद्येदानीं तु क्षिप्रमागहि आगच्छ । मघोनां हविष्मतां अन्येषामपि यजमानानामुपस्तुतिः स्तोत्रं त्वा त्वां प्रावतु प्र्गच्छतु प्रतर्पयतु वा । अध अधुना सुष्टुतिं त्वद्वि- षयां शोभनां स्तुतिं अहमपि वश्मि कामये ॥ १६ ॥

8.1.17
सोता॒ हि सोम॒मद्रि᳚भि॒रेमे᳚नम॒प्सु धा᳚वत ।
ग॒व्या वस्त्रे᳚व वा॒सय᳚न्त॒ इन्नरो॒ निर्धु᳚क्षन्व॒क्षणा᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
सोता᳚ । हि । सोम᳚म् । अद्रि᳚॑भिः । आ । ई॒म् । ए॒न॒म् । अ॒प्॑सु । धा॒व॒त॒ ।
ग॒व्या । वस्त्रा᳚॑इव । वा॒सय᳚न्तः । इत् । नरः᳚ । निः । धु॒क्ष॒न् । व॒क्षणा᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः अद्रिभिर्ग्रावभिः सोमं सोत । हिरवधारणे अभिषुणुतैव एनमिमं अप्सु वसतीवरीषु आधावत अस्य सोमस्याधानं कुरुत । अदाभ्यग्रहेहिमांदासुतइत्यादिभिर्मंत्रैः । वसतीवरीष्वाधवनं सोमस्य क्रियते तत्कुरुतेत्यर्थः । गव्या गविभवनि वस्त्रेव वस्त्राणि आच्छादकानि चर्माणीव मेघान्वासयन्तइत् आच्छादयन्तएव नरोनेतारइन्द्रस्यानुचरामरुतः वक्षणाभ्योनदीभ्यः नदीनामर्थाय निर्धुक्षन् उदकानि निर्दुहन्ति क्षमयन्ति यतएवं अतः कारणात् इन्द्रयागाय सोममद्रिभिरभिषुणुतैव मोदासिषतेत्यर्थः ॥ १७ ॥

8.1.18
अध॒ ज्मो अध᳚ वा दि॒वो बृ᳚ह॒तो रो᳚च॒नादधि᳚ ।
अ॒या व᳚र्धस्व त॒न्वा᳚ गि॒रा ममा जा॒ता सु᳚क्रतो पृण ॥
▶ पदपाठः (Word-by-word)
अध᳚ । ज्मः । अध᳚ । वा॒ । दि॒वः । बृ॒ह॒तः । रो॒च॒नात् । अधि᳚ ।
अ॒या । व॒र्ध॒स्व॒ । त॒न्वा᳚ । गि॒रा । मम᳚ । आ । जा॒ता । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । पृ॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अध अधुना ज्मः जमन्ति गच्छत्यस्यामिति ज्मा पृथिवी तस्याः सकाशात् अधवा अपिवा दिवोन्तरिक्षात् बृहतोमहतोरोचनात् नक्षतैर्दीप्यमानात्स्वर्गाद्वा आगत्य अधिः पञ्चम्यर्थानुवादी अया अनया तन्वा तया विस्तृतया मम मदीयया गिरा स्तुत्या वर्धस्व वृद्धोभव हे सुक्रतो शोभनकर्मवन्निन्द्र जाता जातान् अस्मदीयान् जनान् आपृण अभिलषितैः फलैरापूरय ॥ १८ ॥

8.1.19
इन्द्रा᳚य॒ सु म॒दिन्त᳚मं॒ सोमं᳚ सोता॒ वरे᳚ण्यम् ।
श॒क्र ए᳚णं पीपय॒द्विश्व᳚या धि॒या हि᳚न्वा॒नं न वा᳚ज॒युम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । सु । म॒दिन्॑त᳚मम् । सोम᳚म् । सो॒त॒ । वरे᳚ण्यम् ।
श॒क्रः । ए॒न॒म् । पी॒प॒य॒त् । विश्व᳚या । धि॒या । हि॒न्वा॒नम् । न । वा॒ज॒॑युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यवः इन्द्रायेन्द्रार्थं मदिन्तमं मादयितृतमं वरेण्यं वरणीयं भजनीयं सोमं सु सोत सुष्ठु अभिषुणुत । कुतइत्यत आह शक्र इन्द्रः विश्वया धिया सर्वया क्रिययाग्निष्टोमादिलक्षणया हिन्वानं प्रीणयन्तं वाजयुं अन्नमात्मनइच्छन्तं एनं यजमानं नेति सम्प्रत्यर्थीयः संप्रति पीपयत् वर्धयति अतः कारणात् तस्माइन्द्राय सोमं सुनुतेत्यर्थः ॥ १९ ॥

8.1.20
मा त्वा॒ सोम᳚स्य॒ गल्द᳚या॒ सदा॒ याच᳚न्न॒हं गि॒रा ।
भूर्णिं᳚ मृ॒गं न सव᳚नेषु चुक्रुधं॒ क ईशा᳚नं॒ न या᳚चिषत् ॥
▶ पदपाठः (Word-by-word)
मा । त्वा॒ । सोम᳚स्य । गल्द᳚या । सदा᳚ । याच᳚न् । अ॒हम् । गि॒रा ।
भूर्णि᳚म् । मृ॒गम् । न । सव᳚नेषु । चु॒क्रु॒ध॒म् । कः । ईशा᳚नम् । न । या॒चि॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वां सवनेषु यज्ञेषु सोमस्य गल्दया गालनेन आस्रावणेन गिरा स्तुत्या च युक्तो हं सदा सर्वदा याचन् याचमानः सन् माचुक्रुधं माक्रोधयानि बहुशोयाच्यमाने त्वयि क्रोधोजायते तं सोमस्यगालनेन स्तुत्याचापनयामीत्यर्थः । कीदृशं त्वां भूर्णिं भर्तारं मृगंन सिंहमिव भीमम् । स्वामिनइन्द्रस्य याचने लौकिकन्यायं दर्शयति लोके कोवापुरुषः ईशानं ईश्वरं स्वामिनं न याचिषत् न याचेत सर्वएवहि याचते अतोहमपि त्वां स्वामिनं याचइति भावः ॥ २० ॥

8.1.21
मदे᳚नेषि॒तं मद᳚मु॒ग्रमु॒ग्रेण॒ शव᳚सा ।
विश्वे᳚षां तरु॒तारं᳚ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा᳚ति नः ॥
▶ पदपाठः (Word-by-word)
मदे᳚न । इ॒षि॒तम् । मद᳚म् । उ॒ग्रम् । उ॒ग्रेण᳚ । शव᳚सा ।
विश्वे᳚षाम् । त॒रु॒तार᳚म् । म॒द॒॑च्युत᳚म् । मदे᳚ । हि । स्म॒ । ददा᳚ति । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मदेन मादयित्रा स्तोत्रा इषितं प्रेषितं मदं मदकरं उग्रं सोमं उद्रूर्णरसं उग्रेण उद्रूर्णेनाधिकेन शवसा बलेन युक्तइन्द्रः पिबत्वितिशेषः । पीत्वाच विश्वेषां सर्वेषा शत्रूणां तरुतारं तरीतारं जेतारं मदच्युतं मदस्य शत्रूणां गर्वस्य च्यावयितारं पुत्रं मदे सोमपानेन जनितेहर्षेसति नोस्मभ्यंददातिहिष्म ददाति खलु अतः सोमं पिबत्वित्यर्थः ॥ २१ ॥

8.1.22
शेवा᳚रे॒ वार्या᳚ पु॒रु दे॒वो मर्ता᳚य दा॒शुषे᳚ ।
स सु᳚न्व॒ते च᳚ स्तुव॒ते च᳚ रासते वि॒श्वगू᳚र्तो अरिष्टु॒तः ॥
▶ पदपाठः (Word-by-word)
शेवा᳚रे । वार्या᳚ । पु॒रु । दे॒वः । मर्ता᳚य । दा॒शुषे᳚ ।
सः । सु॒न्व॒ते । च॒ । स्तु॒व॒ते । च॒ । रा॒स॒ते॒ । वि॒श्व॑गू᳚र्तः । अ॒रि॒॑स्तु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शेवारे शेवं सुखं त्स्यगमके यज्ञे दशुषे चरुपुरोडाशादीनिदत्तवते यजमानाय पुरु पुरूणि बहूनि वार्या वरणीयानि धनानि देवोदानादि- गुणयुक्तइन्द्रः रासते ददाति सएव सुन्वतेच सोमाभिषवं कुर्वते च स्तुवते च स्तोत्रं कुर्वते च धनानि रासते ददाति । कीदृशः सः विश्व- गूर्तः विश्वेषु सर्वेषु कार्येषुद्यतः स्वतः प्रवृत्तः अरिष्टुतः अरिभिः प्रेरयितृभिः प्रशस्तः ॥ २२ ॥

8.1.23
एन्द्र᳚ याहि॒ मत्स्व᳚ चि॒त्रेण᳚ देव॒ राध᳚सा ।
सरो॒ न प्रा᳚स्यु॒दरं॒ सपी᳚तिभि॒रा सोमे᳚भिरु॒रु स्फि॒रम् ॥
▶ पदपाठः (Word-by-word)
आ । इ॒न्द्र॒ । या॒हि॒ । मत्स्व᳚ । चि॒त्रेण᳚ । दे॒व॒ । राध᳚सा ।
सरः᳚ । न । प्रा॒सि॒ । उ॒दर᳚म् । सपी᳚ति॑भिः । आ । सोमे᳚भिः । उ॒रु । स्फि॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र आयाहि आगच्छ हे देव द्योतमान चित्रेण दर्शनीयेन राधसा धनेनसोमलक्षणेन मत्स्व माद्य सपीतिभिः मरुद्भिः सह पीयमानैः सोमेभिः सोमैः उरु विस्तीर्णं स्फिरं वृद्धं उदरं आत्मीयं जठरं सरोन सरइव आप्रासि आपूरय । प्राप् रणे आदादिकः ॥ २३ ॥

8.1.24
आ त्वा᳚ स॒हस्र॒मा श॒तं यु॒क्ता रथे᳚ हिर॒ण्यये᳚ ।
ब्र॒ह्म॒युजो॒ हर᳚य इन्द्र के॒शिनो॒ वह᳚न्तु॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । स॒हस्र᳚म् । आ । श॒तम् । यु॒क्ताः । रथे᳚ । हि॒र॒ण्यये᳚ ।
ब्र॒ह्म॒॑युजः᳚ । हर᳚यः । इ॒न्द्र॒ । के॒शिनः᳚ । वह᳚न्तु । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां सहस्रं सहस्रसंख्याका हरयस्त्वदीयाअश्वाः आवहन्तु आनयंत्वस्मद्यज्ञं तथा शतं शतसंख्याकाश्च भवदीयाः अश्वाः त्वामावहन्तु । यद्यपि द्वावेवास्यहरी तथापि तद्विभूतयोन्येपि बहवोश्वाः सन्ति । ननु युगपदनेकैरश्वैः कथं यातुं शक्यतइत्यतआह युक्ता- इति हिरण्यये हिरण्मये स्वर्णविकारे हिरण्यशब्दाद्विकारार्थे विहितस्यमयटः ऋत्व्यवास्त्वेत्यादौ मलोपोनिपात्यते तादृशे रथे युक्ताः संबद्धाः बहूनामश्वानां शीघ्रगमनाय रथेविनियुक्तत्वात् युगपदेव सर्वैरश्वैर्गन्तुं शक्यतइतिभावः । कीदृशाहरयः ब्रह्मयुजः ब्रह्मणापरिवृ- ढेनेन्द्रेण युक्ताः यद्वा ब्रह्मणास्मदीयेनस्तोत्रेण अस्माभिर्दत्तेन हविषा वा युक्ताः केशिनः केशाः केसराः तैर्युक्ताः । किमर्थमिन्द्रस्य वहनं तत्राह सोमपीतये सोमस्य पानाय यथास्मदीयं सोमं पिबेत् अतआवहन्त्वित्यर्थः ॥ २४ ॥

8.1.25 समानपद
आ त्वा॒ रथे᳚ हिर॒ण्यये॒ हरी᳚ म॒यूर᳚शेप्या ।
शि॒ति॒पृ॒ष्ठा व᳚हतां॒ मध्वो॒ अन्ध᳚सो वि॒वक्ष᳚णस्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । रथे᳚ । हि॒र॒ण्यये᳚ । हरी॒ इति᳚ । म॒यूर᳚॑शेप्या ।
शि॒ति॒॑पृ॒ष्ठा । व॒ह॒ता॒म् । मध्वः᳚ । अन्ध᳚सः । वि॒वक्ष᳚णस्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वं हर्योर्विभूतिरूपा अश्वाइन्द्रमावहन्त्वितिप्रार्थितम् अधुना तावेवेन्द्रमावहतामितिप्रार्थ्यते हिरण्यये हिरण्यमये रथे युक्तौ मयूरशेप्या मयूरशेपौ मयूरवर्णं शेपोययोस्तौ सुपांसुलुगिति विभक्तेर्ड्यादेशः शितिपृष्ठा श्वेतपृष्ठौ एवंभूतौ अश्वौ हे इन्द्रत्वामावहताम् । किमर्थं मध्वो- मधुरसस्य विवक्षणस्य वक्तुमिष्टस्य स्तुत्यस्य यद्वा वोढव्यस्य प्राप्तव्यस्य अन्धसोन्नस्य सोमरूपस्य पीतये पानार्थम् ॥ २५ ॥

8.1.26
पिबा॒ त्व१॒᳚स्य गि᳚र्वणः सु॒तस्य᳚ पूर्व॒पा इ᳚व ।
परि᳚ष्कृतस्य र॒सिन᳚ इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚य पत्यते ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । तु । अ॒स्य । गि॒र्व॒णः॒ । सु॒तस्य᳚ । पू॒र्व॒पाः॑इ᳚व ।
परि᳚॑कृतस्य । र॒सिनः᳚ । इ॒यम् । आ॒॑सु॒तिः । चारुः᳚ । मदा᳚य । प॒त्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणः गीर्भिर्वननीय स्तुतिभिः संभजनीयेन्द्र सुतस्याभिषुतस्य अस्यसोमस्य क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वात् चतुर्थ्यर्थे षष्ठी इममभिषुतं सोमं तु क्षिप्रं पिब अत्र दृष्टान्तः-पूर्वपाइव पूर्वः सर्वेभ्योदेवेभ्यः प्रथमभावीसन् पिबतीति पूर्वपा वायुः सत्द्यैन्द्रवायवे मुख्येग्रहे सर्वेभ्योदेवेभ्यः पूर्वं पिबति तद्वत्पूर्वं पिबेत्यर्थः कीदृशस्य सोमस्य परिष्कृतस्य अभिषवादिभिः संस्कृतस्य संपर्युपेभ्यइति करोतेर्भूषणेसुट् । परिनिविभ्यइतिसुटः षत्वंरसिनोरसवतः अपिच इयमासुतिः अयमासवोमद्रकरः चारुः शोभनः सोमरसः मदाय हर्षाय हर्षजननाय पत्यते संपद्यते । पत्ऌगतौ यद्वा पत्यतिरैश्वर्यकर्मा मदाय मदस्य पत्यते ईष्टे मदोत्पादने शक्तइत्यर्थः ॥ २६ ॥

8.1.27
य एको॒ अस्ति᳚ दं॒सना᳚ म॒हा{4} उ॒ग्रो अ॒भि व्र॒तैः ।
गम॒त्स शि॒प्री न स यो᳚ष॒दा ग᳚म॒द्धवं॒ न परि᳚ वर्जति ॥
▶ पदपाठः (Word-by-word)
यः । एकः᳚ । अस्ति᳚ । दं॒सना᳚ । म॒हाम् । उ॒ग्रः । अ॒भि । व्र॒तैः ।
गम᳚त् । सः । शि॒प्री । न । सः । यो॒ष॒त् । आ । ग॒म॒त् । हव᳚म् । न । परि᳚ । व॒र्ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रएकः केवलः असहायएव व्रतैरात्मीयैः कर्मभिः अभ्यस्ति शत्रूनभिभवति यश्च दंसना कर्मणा महान् अधिकः अएव उग्र उद्गूर्णबलः शिप्री शिप्रं शिरस्त्राणं प्रशंसायामिनिः शोभनशिरस्त्राणः यद्वा शिप्रे हनूनासिकेवा तद्वान् सइन्द्रः गमत् गच्छतु प्राप्नोतु । सर्वदा स- तादृशो न योषत् नपृथग्भवतु न वियुक्तोभवतु । गमेर्यौतेश्चलेट्यडागमः इतश्चलोपइतीकारलोपः गमेर्बहुलंछन्दसीति शपोलुक् यौतेः सिब्बहुलमितिसिप् । हवमस्मदीयं स्तोत्रंच आगमत् अभिगच्छतु प्राप्नोतु नपरिवर्जति नपरिवर्जयतु नपरित्यजतु सर्वदा अस्मानस्मदीयं स्तोत्रं चेन्द्रः प्राप्नोत्वितियावत् ॥ २७ ॥

8.1.28
त्वं पुरं᳚ चरि॒ष्ण्वं᳚ व॒धैः शुष्ण᳚स्य॒ सं पि᳚णक् ।
त्वं भा अनु᳚ चरो॒ अध᳚ द्वि॒ता यदि᳚न्द्र॒ हव्यो॒ भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । पुर᳚म् । च॒रि॒ष्ण्व᳚म् । व॒धैः । शुष्ण᳚स्य । सम् । पि॒ण॒क् ।
त्वम् । भाः । अनु᳚ । च॒रः॒ । अध᳚ । द्वि॒ता । यत् । इ॒न्द्र॒ । हव्यः᳚ । भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं शुष्णस्य शोषकस्यासुरस्य चरिष्णवं चरणशीलं वाछन्दसीति अमिपूर्वरूपत्वस्यविकल्पितत्वाद्यणादेशः । पुरं निवासस्थानं बधैर्वज्रादिभिरायुधैः संपिणक् समचूर्णयः अभांक्षीरित्यर्थः पिनष्टेर्लङि मध्यमैकवचनेरूपमेतत् । अध अपिच भाः भासमानस्त्वं अनुचरः तं शुष्णं हन्तुं अन्वगच्छः । यद्वा अध शुष्णस्य पुरभेदनानन्तरं धाः दिप्तीस्त्वमनुचरः अन्वगच्छः प्राप्तवानित्यर्थः । हे इन्द्र त्वं यद्यदा द्विता द्विधा द्विविधैः स्तोतृभिर्यष्टृभिश्च हव्योह्वातव्योभुवः भवेः तदानीं त्वं शुष्णस्य पुरं संपिणगित्यन्वयः भवतेर्लेटिसिप्यडागमः छान्दसः शपोलुक् भूसुवोस्तिङीतिगुणप्रतिषेधादुवङ् ॥ २८ ॥ चातुर्विंशिकेहनि माध्यन्दिनेसवने ब्रह्मशस्त्रे ममत्वेति वैकल्पिकोनुरूपस्तृचः सूत्रन्तु पूर्वमुदाहृतम् ।

8.1.29 समानपद
मम᳚ त्वा॒ सूर॒ उदि᳚ते॒ मम᳚ म॒ध्यंदि᳚ने दि॒वः ।
मम᳚ प्रपि॒त्वे अ᳚पिशर्व॒रे व᳚स॒वा स्तोमा᳚सो अवृत्सत ॥
▶ पदपाठः (Word-by-word)
मम᳚ । त्वा॒ । सूरे᳚ । उत्॑इ᳚ते । मम᳚ । म॒ध्यन्दि᳚ने । दि॒वः ।
मम᳚ । प्र॒॑पि॒त्वे । अ॒पि॒॑श॒र्व॒रे । व॒सो॒ इति᳚ । आ । स्तोमा᳚सः । अ॒वृ॒त्स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरे सूर्ये उदिते उदयं प्राप्ते पूर्वाह्णसमये मम स्तोमासः स्तोत्राणि हे वसो वासकेन्द्र त्वां आवृत्सत आवर्तयन्तु अस्मदभिमुखं गमयन्तु । तथा दिवोदिवसस्य मध्यन्दिने मध्याह्नेपि मदीयाः स्तोमासः स्तोमाः त्वामावर्तयन्तु । तथा प्रपित्वे प्राप्ते दिवसस्यावसाने सायाह्नेपि मदीयाः स्तोमाः त्वामावर्तयन्तु । अपिशर्वरे शर्वरीं रात्रिमपि गतः कालोपि शर्वरः शार्वरेकालेपि मदीयाः स्तोमाः त्वामावर्तयन्तु ॥ २९ ॥

8.1.30
स्तु॒हि स्तु॒हीदे॒ते घा᳚ ते॒ मंहि᳚ष्ठासो म॒घोना᳚म् ।
नि॒न्दि॒ताश्व᳚ः प्रप॒थी प᳚रम॒ज्या म॒घस्य᳚ मेध्यातिथे ॥
▶ पदपाठः (Word-by-word)
स्तु॒हि । स्तु॒हि । इत् । ए॒ते । घ॒ । ते॒ । मंहि᳚ष्ठासः । म॒घोना᳚म् ।
नि॒न्दि॒त॑अ᳚श्वः । प्र॒॑प॒थी । प॒र॒म॒॑ज्याः । म॒घस्य᳚ । मे॒ध्य॒॑अ॒ति॒थे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आसङ्गोराजर्षिर्मेध्यातिथये बहुधनं दत्वा तमृषिं दत्तदानस्य स्वस्य स्तुतौ प्रेरयति हे मेध्यातिथे यज्ञार्हातिथे एतत्संज्ञऋषे स्तुहिस्तुहीत् पुनःपुनरस्मान्प्रशंसैव मोदस्व औदासीन्यं माकार्षीः एते व एतेखलु वयं मघोनां धनवतां मध्ये ते तुभ्यं मघस्य धनस्य मंहिष्ठासोदातृत- माः अतोस्मान् स्तुहीत्यर्थः । कासौ स्तुतिः तामाह निन्दिताश्वः यस्यवीर्येण परेषामश्वानिन्दिताः कुत्सिताभवन्ति तादृशः प्रपथीः प्रकृष्टः पन्थाः प्रपथः तद्वान् सन्मार्गवर्तीत्यर्थः परमज्याः उत्कृष्टज्यः अनेन धनुरादिकं लक्ष्यते उत्कृष्टायुधइत्यर्थः यद्वा परमानुत्कृष्टन् शत्रून् जिनाति हिनस्तीति परमज्याः ज्यावयोहानौ अस्मादातोमनिन्नितिविच् एवंभूतोहमासङ्गइति स्तुहीत्यर्थः ॥ ३० ॥

8.1.31 समानपद
आ यदश्वा॒न्वन᳚न्वतः श्र॒द्धया॒हं रथे᳚ रु॒हम् ।
उ॒त वा॒मस्य॒ वसु᳚नश्चिकेतति॒ यो अस्ति॒ याद्व᳚ः प॒शुः ॥
▶ पदपाठः (Word-by-word)
आ । यत् । अश्वा᳚न् । वन᳚न्॑वतः । श्र॒द्धया᳚ । अ॒हम् । रथे᳚ । रु॒हम् ।
उ॒त । वा॒मस्य᳚ । वसु᳚नः । चि॒के॒त॒ति॒ । यः । अस्ति᳚ । याद्वः᳚ । प॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनन्वतोवननवतः संभक्तवतः अश्वांस्तुरगान् अहं प्रायोगिः श्रद्धया आदरातिशयेन युक्तःसन् यद्यदा हे मेध्यातिथे त्वदीयेरथे आरुहं आरोहयं रुहेरन्तर्भावितण्यर्थात् लुङि कृमृदृरुहिभ्यइति च्लेरङादेशः । तदानीं मामेवं स्तुहि । उतापिच प्रकृतस्तुत्यपेक्षएषसमुच्चयः वामस्य वननीयस्य वसुनोधनस्य पूर्ववत्कर्मणिषष्ठी ईदृशं धनं चिकेतति एषआसङ्गोदातुंजानाति याद्वः यदुवंशोद्भवः यद्वा यदवो- मनुष्याः तेषु प्रसिद्धः पशुः लुप्तमत्वर्थमेतत् पशुमान् यद्वा पशुः पश्यते सूक्ष्मस्य द्रष्टा यआसङ्गोस्ति विद्यते एषचिकेततीत्यन्वयः ॥ ३१ ॥

8.1.32 समानपद
य ऋ॒ज्रा मह्यं᳚ माम॒हे स॒ह त्व॒चा हि᳚र॒ण्यया᳚ ।
ए॒ष विश्वा᳚न्य॒भ्य᳚स्तु॒ सौभ᳚गास॒ङ्गस्य᳚ स्व॒नद्र᳚थः ॥
▶ पदपाठः (Word-by-word)
यः । ऋ॒ज्रा । मह्य᳚म् । म॒म॒हे । स॒ह । त्व॒चा । हि॒र॒ण्यया᳚ ।
ए॒षः । विश्वा᳚नि । अ॒भि । अ॒स्तु॒ । सौभ᳚गा । आ॒स॒ङ्गस्य᳚ । स्व॒नत्॑र᳚थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवमेवं मां स्तुहीत्यासंगोमेध्यातिथिंब्रूते यः आसङ्गस्यात्मा ऋज्रा गमनशीलानि धनानि हिरण्यया हिरण्मय्या त्वचा चर्मणा आस्तरणेन सह सहितानि मह्यं मेध्यातिथये ममहे ददौ मंहतिर्दानकर्मा एषआसङ्गस्यात्मा स्वनद्रथः शब्दायमानरथः सन् विश्वानि व्याप्तानि सौभगानि धनानि शत्रूणां स्वभूतानि अभ्यस्तु अभिभवतु ॥ ३२ ॥

8.1.33 समानपद
अध॒ प्लायो᳚गि॒रति᳚ दासद॒न्याना᳚स॒ङ्गो अ᳚ग्ने द॒शभि᳚ः स॒हस्रै᳚ः ।
अधो॒क्षणो॒ दश॒ मह्यं॒ रुश᳚न्तो न॒ळा इ᳚व॒ सर᳚सो॒ निर᳚तिष्ठन् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । प्लायो᳚गिः । अति᳚ । दा॒स॒त् । अ॒न्यान् । आ॒॑स॒ङ्गः । अ॒ग्ने॒ । द॒श॑भिः᳚ । स॒हस्रैः᳚ ।
अध᳚ । उ॒क्षणः᳚ । दश᳚ । मह्य᳚म् । रुश᳚न्तः । न॒ळाः॑इ᳚व । सर᳚सः । निः । अ॒ति॒ष्ठ॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अपिच प्लायोगिः प्लयोगनाम्नः पुत्रआसङ्गोनामराजा दशभिः दशगुणितैः सहस्रैः सहस्रसंख्याकैः गवादिभिः अन्यान् दातॄन् अति- दासत् अतिक्रम्य ददाति अधानन्तरं उक्षणः सेचनसमर्थाः मह्यं आसंगेनदत्ताः रुशन्तोदीप्यमानाः दश दशगुणितसहस्रसंख्याकाः ते गवा- दयः नळाइव नळास्तटाकोद्भवास्तृणविशेषाः ते यथा सरसः तटाकात् संघशोनिर्गच्छन्ति तथैव मह्यं दत्तागवादयः अस्मादासङ्गान्निर- तिष्ठन् निर्गत्य अवास्थिषत एवमेवंप्रकारेण मां स्तुहीति मेध्यातिथिं प्रत्युक्तत्वात् एतासां चतसृणामृचां प्लायोगिरासङ्गऋषिः सएव- देवतेत्येतदुपपन्नं भवति ॥ ३३ ॥

8.1.34 समानपद
अन्व᳚स्य स्थू॒रं द᳚दृशे पु॒रस्ता᳚दन॒स्थ ऊ॒रुर᳚व॒रम्ब᳚माणः ।
शश्व᳚ती॒ नार्य᳚भि॒चक्ष्या᳚ह॒ सुभ᳚द्रमर्य॒ भोज᳚नं बिभर्षि ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता᳚त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒॑रम्ब᳚माणः ।
शश्व᳚ती । नारी᳚ । अ॒भि॒॑चक्ष्य᳚ । आ॒ह॒ । सु॑भ᳚द्रम् । अ॒र्य॒ । भोज᳚नम् । बि॒भ॒र्षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमासंगोराजा कदाचिद्देवशापेन नपुंसकोबभूव तस्यपत्नी शश्वती भर्तुर्नपुंस्कत्वेन खिन्नासती महत्तपस्तेपे तेन च तपसा सच पुंस्त्वं प्राप प्राप्तपुंव्यंजनंतं रात्रावुपलभ्य प्रीता शश्वती अनया तं अस्तौत् अस्यासंगस्य पुरस्तात्पुरोभागे गुह्यदेशे स्थूरं स्थूलं वृद्धं सत् पुंव्यंजनं अनु ददृशे अनुदृश्यते अनस्थः अस्थिरहितः सचावयवः उरुः उरुर्विस्तीर्णः अवरम्बमाणः अतिदीर्घत्वेन अवाङ्मुखं लंबमानः यद्वा उरुः सुपांसुलुगिति द्विवचनस्यसुः ऊरु प्रति अवलम्बमानोभवति शश्वती नामाङ्गिरसःसुता नारी तस्यासंगस्य भार्याभिचक्ष्य एवं भूतमवयवं निशि दृष्ट्वा हो अर्य स्वामिन् भर्तः सुभद्रं अतिशयेन कल्याणं भोजनं भोगसाधनं बिभर्षि धारयसीत्याह ब्रूते ॥ ३४ ॥

इदंवसोइति द्विचत्वारिंशदृचं द्वितीयं सूक्तं काण्वस्य मेध्यातिथेः आङ्गिरसस्यच प्रियमेधस्यार्षं शिक्षाविभिन्दइत्यादिके द्वे मेधातिथेरेव । स्वादवः सोमाइत्येषानुष्टुप् शिष्टागायत्र्यः इन्द्रोदेवता अंत्येद्वेऋचौ विभिन्दोर्दानस्तुतित्वात्तद्देवताके तथाचानुक्रान्तम्- इदंवसोद्विचत्वारिंशन्मेध्यातिथिराङ्गिरसश्च प्रियमेधः स्वादवोनुष्टुबन्त्याभ्यां मेधातिथिर्विभिन्दोर्दानं तुष्टावेति । गतः सूक्तविनि- योगः । ज्योतिष्टोमे मरुत्वतीये आद्यस्तृचोनुचरः सूत्र्यतेहि-इदंवसोसुतमन्धइति मरुत्वतीयस्य प्रतिपदनुचराविति । द्वितीये रात्रीपर्याये ब्रह्मशस्त्रे अयमेवस्तोत्रियस्तृचः सूत्रितञ्च-इदंवसोसुतमन्धइन्द्रेहिमत्स्यन्धसइति अयमेवचतुर्थेहन्यपि मरुत्वतीयस्यानुचरस्तृचः सूत्रितञ्च- तंत्वायज्ञेभिरीमहइदंवसोसुतमन्धइति मरुत्वतीयस्यप्रतिपदनुचराविति ।