य इ᳚न्द्र सोम॒पात᳚मो॒ मदः᳚ शविष्ठ॒ चेत᳚ति ।
येना॒ हंसि॒ न्य१॒᳚त्रिणं॒ तमी᳚महे ॥
यः । इ॒न्द्र॒ । सो॒म॒॑पात᳚मः । मदः᳚ । श॒वि॒ष्ठ॒ । चेत᳚ति ।
येन᳚ । हंसि᳚ । नि । अ॒त्रिण᳚म् । तम् । ई॒म॒हे॒ ॥
यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥
इत्थंपंचमाष्टकं व्याख्यायेदानीं ऋषिच्छन्दोदेवताविनियोगप्रदर्शनपुरःसरं षष्ठस्य प्रथमोध्यायोव्याख्यातुमारभ्यते । अष्टममण्डलस्य द्वितीयेनुवाके षट्सूक्तानि जातानि । यइन्द्रेति त्रयस्त्रिंशदृचं सप्तमं सूक्तं कण्वगोत्रस्य पर्वताख्यस्यार्षं औष्णिहमैन्द्रम् । तथाचानुक्तांतम्-यइन्द्रत्रयस्त्रिंशत्पर्वतऔष्णिहंत्विति । महाव्रतेनिष्केवल्ये औष्णिहतृचाशीतौ इदमादिके द्वे सूक्ते । तथैवपंचमारण्यकेसूत्र्यते-औष्णिहीतृचाशीतिर्यइन्द्रसोमपातमइति सूक्ते इति । दशमेहनि निष्केवल्ये आदितः षळृच: शंसनीयाः । सूत्र्यतेहि-यइंद्रसोमपातमइति षळुष्णिह- इति । आभिल्पविकेषूक्थॆषु तृतीयसवने ब्रह्मशस्त्रे आद्यस्तृचोवैकल्पिकोनुरूपः सूत्रितंच- यइन्द्रसोमपातमएन्द्रनोगधीति । तृतीयेपर्यायेच्छावा-कशस्त्रेप्ययमेवतृचॊनुरूपः सूत्रितंच-इन्द्रःसुतेषुसोमेषु यइन्द्रसोमपातमइति ।
हे इन्द्र यस्त्वं सोमपातमः अतिशयेन सोमस्य पाता हे शविष्ठ बलवत्तम शवइति बलनाम तस्माद्विनंतादातिशायनिकइष्ठन् विन्मतोर्लुक् टिलोपः हे ईदृशेन्द्र तस्य तव सोमपानजनितोयोमदश्चेतति सम्यग्जानाति वृत्रवधादीनि कार्याणि कर्तुं यइत्यस्य चेततीत्यनेनापि संबंधात् यद्वऋत्तान्नित्यमिति तिङ्न निहन्यते । अथवैतदेवंवाक्यम् हे बलवत्तमेन्द्र सोमपातमः सोमस्यपातृतमोयस्त्वं मदः सोमैर्मादयितव्यः तर्पणीयः सन् चेतति पुरुषव्यत्ययः चेतसि सम्यग्जानासि मदोनुपसर्गे इति मदेः कर्मण्यप् । येन सोमपानजनितेन मदेन अत्रिणमत्तारं राक्षसादिकं निहंसि निकृष्टां हिंसां प्रापयसि तं मदं तादृङ्दोपेतं त्वां वा ईमहे याञ्चाकर्मायम् याचामहे । यद्वा ई गतौ दैवादिकः छांदसोविकरणस्य लुक् ईयामहे उपगच्छामः स्तुतिभिः संभजामहइत्यर्थः ॥ १ ॥
येना॒ दश᳚ग्व॒मध्रि᳚गुं वे॒पय᳚न्तं॒ स्व᳚र्णरम् ।
येना᳚ समु॒द्रमावि᳚था॒ तमी᳚महे ॥
येन᳚ । दश᳚॑ग्वम् । अध्रि᳚॑गुम् । वे॒पय᳚न्तम् । स्वः᳚॑नरम् ।
येन᳚ । स॒मु॒द्रम् । आवि᳚थ । तम् । ई॒म॒हे॒ ॥
हे इन्द्र येन सोमपानजनितेन मदेन दशग्वं ये दशभिर्मासैः सत्रासनं परिसमाप्य निरगमन् ते दशग्वा अंगिरसः । तेषामन्यतमं अध्रिगुं अधृतगमनं अनिवारितगतिं एतत्संज्ञंच ऋषिं वेपयंतं तमांसि वर्जयंतं स्वर्णरं सर्वस्य नेतारं सूर्यं च आविथ वृत्रादेर्दस्योरपनयनेन ररक्षिथ । येनच मदेन समुद्रमुदधिं अंतरिक्षं वा आविथ ररक्षिथ त्वदीयं मदं तद्वंतं त्वां वा ईमहे याचामहे । मदे हि सति हृष्टःसन् इन्द्रोबहुधनं प्रयच्छति अतस्तत्कारणस्य मदस्य याञ्चोपपन्ना ॥ २ ॥
येन॒ सिन्धुं᳚ म॒हीर॒पो रथा{4}᳚ इव प्रचो॒दयः᳚ ।
पन्था᳚मृ॒तस्य॒ यात᳚वे॒ तमी᳚महे ॥
येन᳚ । सिन्धु᳚म् । म॒हीः । अ॒पः । रथा᳚न्॑इव । प्र॒॑चो॒दयः᳚ ।
पन्था᳚म् । ऋ॒तस्य᳚ । यात᳚वे । तम् । ई॒म॒हे॒ ॥
हे इन्द्र महीर्महतीरपः वृष्टचुदकानि सिन्धुं स्यन्दनशीलांनदीं समुद्रं वा प्रति येन सोमपानजन्येन मदेन प्रचोदयः प्रेरयसि । तत्रदृष्टान्तः-रथाँइव यया रथिनोरथान् स्वाभिलषितदेशगमनाय प्रेरयन्ति तद्वत् ऋतस्य यज्ञस्य पन्थां पन्थानं मार्गं यातवे यातुं प्राप्तुं तं मदमीमहे याचामहे ॥ ३ ॥
इ॒मं स्तोम᳚म॒भिष्ट᳚ये घृ॒तं न पू॒तम᳚द्रिवः ।
येना॒ नु स॒द्य ओज᳚सा व॒वक्षि᳚थ ॥
इ॒मम् । स्तोम᳚म् । अ॒भिष्ट᳚ये । घृ॒तम् । न । पू॒तम् । अ॒द्रि॒॑वः॒ ।
येन᳚ । नु । स॒द्यः । ओज᳚सा । व॒वक्षि᳚थ ॥
हे अद्रिवोवज्रवन्निन्द्र घृतंन घृतमिव मन्त्रपूतमाज्यमिवपूतंशुद्धं इममस्मदीयं स्तोमं स्तोत्रं बुध्यस्वेतिशेषः । किमर्थं अभिष्टये अभिप्राध्यै इष्टस्य धनादेरस्माकं लाभायेत्यर्थः । येन स्तोत्रेण स्तूयमानः सन् ओजसात्मीयेन बलेन सद्यस्तदानीमेव स्तुतिसमयएव नु क्षिप्रं ववक्षिथास्मान्वहसि अभिलषितं प्रापयसि इमं स्तोममित्यन्वयः ॥ ४ ॥
इ॒मं जु᳚षस्व गिर्वणः समु॒द्र इ᳚व पिन्वते ।
इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚र्व॒वक्षि᳚थ ॥
इ॒मम् । जु॒ष॒स्व॒ । गि॒र्व॒णः॒ । स॒मु॒द्रः॑इ᳚व । पि॒न्व॒ते॒ ।
इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ । व॒वक्षि᳚थ ॥
हे गिर्वणोगिरां स्तुतीनां संभक्तः यद्वा स्तुतिभिः संभजनीयेन्द्र इमं स्तोमं मया क्रियमाणं जुषस्व सेवस्व सच स्तोमः समुद्रइव समुद्रोयथा चन्द्रोदयं प्राप्य पिन्वते वर्धते अभिधेयस्येन्द्रगुणगणस्याधिक्येन तत्प्रतिपादिकास्तुतिरपि विस्तृता भवतीत्यर्थः । पूर्वस्यामृचि ववक्षिथेत्यनेन युक्तो येनेतिशब्दोत्रापि सामर्थ्यात्तेन संबध्यते अतएवास्य तिड्डःतिङइति निघाताभावः । हे इंद्र येन स्तोमेन हेतुना विश्वाभिर्व्याप्ताभिरूतिभीर- क्षाभिः ववक्षिथ वहसि श्रेयांस्यस्मान्प्रापयसि वहेःसन्नन्ताल्लिटि अमन्त्रइति निषेधादामभावे थलि लिटि रूपमेतत् ॥ ५ ॥
यो नो᳚ दे॒वः प᳚रा॒वतः᳚ सखित्व॒नाय᳚ माम॒हे ।
दि॒वो न वृ॒ष्टिं प्र॒थय᳚न्व॒वक्षि᳚थ ॥
यः । नः॒ । दे॒वः । प॒रा॒॑वतः᳚ । स॒खि॒॑त्व॒नाय᳚ । म॒म॒हे ।
दि॒वः । न । वृ॒ष्टिम् । प्र॒थय᳚न् । व॒वक्षि᳚थ ॥
योनोदेवो दानादिगुणयुक्तइंद्रः पराक्तः परावतात् दूरात् द्युलोकादागत्य नोस्माकं सखित्वनाय सखित्वाय मामहे धनानि प्रददौ मंहतेर्दानक- र्मणएतद्रूपम् । यद्वा अस्माभिः पूज्यते महपूजायाम् अस्माच्छान्दसः कर्मणिलिट् । उत्तरार्धर्चः प्रत्यक्षकृतः हे इन्द्र दिवोन वृष्टिं दिवः सकाशात् वृष्टिमिव प्रथयन् अस्मदीयानि धनानि विस्तारयन् यस्त्वं ववक्षिथ अस्मान्वोदुमिच्छसि तादृशं त्वां स्तौमीति शेषः ॥ ६ ॥
व॒व॒क्षुर᳚स्य के॒तवो᳚ उ॒त वज्रो॒ गभ᳚स्त्योः ।
यत्सूर्यो॒ न रोद᳚सी॒ अव᳚र्धयत् ॥
व॒व॒क्षुः । अ॒स्य॒ । के॒तवः᳚ । उ॒त । वज्रः᳚ । गभ᳚स्त्योः ।
यत् । सूर्यः᳚ । न । रोद᳚सी॒ इति᳚ । अव᳚र्धयत् ॥
अस्येन्द्रस्य केतवः प्रज्ञानानि अस्मतूस्तुतिविषयाणि यद्वा रथे उत्क्षिप्ताः पताकाः केतवः ववक्षुरवहन् अस्मान् श्रेयांसि प्रापयन् । उतापिच ग-भस्त्योः बाहुनामैतत् इन्द्रस्य हस्तयोरवस्थितोवज्रश्र्वावहत् यद्यदा अयमिन्द्रः सूर्योन सर्वस्य प्रेरकआदित्यइव रोदसी द्यावापृथिव्यौ वृष्टचादिप्र- दानेनावर्धयत् तदानीमित्यर्थः ॥ ७ ॥
यदि᳚ प्रवृद्ध सत्पते स॒हस्रं᳚ महि॒षा{4} अघः᳚ ।
आदित्त᳚ इन्द्रि॒यं महि॒ प्र वा᳚वृधे ॥
यदि᳚ । प्र॒॑वृ॒द्ध॒ । स॒त्॑प॒ते॒ । स॒हस्र᳚म् । म॒हि॒षान् । अघः᳚ ।
आत् । इत् । ते॒ । इ॒न्द्रि॒यम् । महि᳚ । प्र । व॒वृ॒धे॒ ॥
हे प्रवृध्द प्रकर्षेणमहन् हे सत्पते सतामनुष्ठातृणां पालयितरिन्द्र सहस्त्रं सहस्त्रसंख्याकान् महिषान्महन्नामैतत् महतोसुरान् वृत्रादीन् यदि यदा अघः अवधीः हन्तेश्छान्दसमेतद्रूपम् । यद्वा घसॢ अदने लुङिसिपि मन्त्रेघसेति ल्चेर्लुक् । आदित् अनंतरमेव हे इन्द्र ते तव इन्द्रियं वीर्यं महि महद्व- हुलं सत्प्रवावृधे प्रकर्षेण वर्धते ॥ ८ ॥
इन्द्र॒ः सूर्य᳚स्य र॒श्मिभि॒र्न्य᳚र्शसा॒नमो᳚षति ।
अ॒ग्निर्वने᳚व सास॒हिः प्र वा᳚वृधे ॥
इन्द्रः᳚ । सूर्य᳚स्य । र॒श्मि॑भिः᳚ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ।
अ॒ग्निः । वना᳚॑इव । स॒स॒हिः । प्र । व॒वृ॒धे॒ ॥
अयमिन्द्रः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य रश्मिभिः किरणैः करणभूतैः अर्शसानं अर्तेर्गुणः शुट्चेति ऋगतावित्यस्मादसानच्प्रत्ययः शुडागम- श्च अयं केवलोप्यर्तिराङ्पूर्वार्थोद्रष्टव्यः आङ्पूर्वश्च बाधनेवर्तते यथा आर्तिमार्तोरिति । अर्शसानं बाधमानं मन्देहादिकमसुरं न्योषति नितरांदह- ति उषदाहे । तत्रदृष्टांतः-अन्गिर्वनेव यथा वनान्यरण्यानि दावानलोभस्मसात्करोति तद्वत् । एवं सासहिः शत्रूणामभिभवनशीलइन्द्रः प्रवावृधे प्रकर्षेण वर्धते ॥ ९ ॥
इ॒यं त᳚ ऋ॒त्विया᳚वती धी॒तिरे᳚ति॒ नवी᳚यसी ।
स॒प॒र्यन्ती᳚ पुरुप्रि॒या मिमी᳚त॒ इत् ॥
इ॒यम् । ते॒ । ऋ॒त्विय᳚॑वती । धी॒तिः । ए॒ति॒ । नवी᳚यसी ।
स॒प॒र्यन्ती᳚ । पु॒रु॒॑प्रि॒या । मिमी᳚ते । इत् ॥
हे इन्द्र ते त्वां इयं पुरोवर्तिनि मया क्रियमाणा धीतिः स्तुतिः एति गच्छति कीदृशी ऋत्वियावती ऋतौ वसंतादिकाले अनुष्ठेयं यज्ञकर्म ऋ- त्वियं तद्वती नवीयसीअतिशयेनाभिनवा स्तुतिः सपर्यंती पूजयन्ती पुरुप्रिया पुरु बहुलं प्रीणयित्रीसती मिमीतइत् इन्द्रगतानूगुणान् परिच्छिनत्येव माहात्मयं प्रख्यापयत्येव सेयमित्यन्वयः । अनुमायमानेन यच्छब्देनच योगात् मिमीत इत्यस्य निघाताभावः । यद्वा सपर्यन्ती पुरुप्रियेतीदमपि एतीत्यनेन संबंधनीयं अतः पूर्वपदस्य भिन्नवाक्यस्थत्वात् समानवाक्ये युष्म्दस्मदादेशावक्तव्याइति वचनात्तदपेक्षया निघाताभावे सत्यभ्यस्ताना- मादिरित्याद्युदात्तत्वम् ॥ १० ॥
गर्भो᳚ य॒ज्ञस्य᳚ देव॒युः क्रतुं᳚ पुनीत आनु॒षक् ।
स्तोमै॒रिन्द्र᳚स्य वावृधे॒ मिमी᳚त॒ इत् ॥
गर्भः᳚ । य॒ज्ञस्य᳚ । दे॒व॒॑युः । क्रतु᳚म् । पु॒नी॒ते॒ । आ॒नु॒षक् ।
स्तोमैः᳚ । इन्द्र᳚स्य । व॒वृ॒धे॒ । मिमी᳚ते । इत् ॥
यज्ञस्य यष्टव्यस्येन्द्रस्य गर्भोगरिता स्तोता गृशब्दे अर्तिगृभ्यांभन् यद्वा यजेर्भावएव नङ्प्रत्ययः यागस्य गर्भोगृहीता अनुष्ठाता देवयुः देवं दाना- दिगुणयुक्तमिन्द्रमात्मनइच्छन् आनुषगनुषक्तं आनुपूर्व्येण संततं यथा भवति तथा क्रतुं प्रज्ञापकं सोमं पुनीते दशापवित्रेण शोधयति इन्द्रपानार्थमि- तिशेषः । यद्वा यज्ञस्य गर्भोदीक्षितः । पुनर्वा एतमृत्विजोगर्भंकुर्वन्तीत्यादिब्राह्मणम् । सदेवकामः क्रतुं ज्योतिष्टोमादिकं आनुषक् आनुपूर्व्यनामैतत् यदाहयास्कः-आनुषगिति नामानुपूर्व्यस्येर्ति । सः स्तोता इन्द्रस्य कर्मणि षष्ठी इन्द्रविषयैः स्तोमैः स्तोत्रैर्ववृधे वर्धते यद्वा वृधिना प्रयोज्यव्यापारवा- चिना प्रयोजक व्यापारो लक्ष्यते । स्तोमैः स्तोत्रैः तमिन्द्रं वर्धयति सच स्तोमैर्मिमीतइत् इन्द्रस्य गुणजातं परिच्छिनत्येव अनुगतार्थो भवतीत्यर्थः ॥ ११ ॥
स॒निर्मि॒त्रस्य᳚ पप्रथ॒ इन्द्र॒ः सोम᳚स्य पी॒तये᳚ ।
प्राची॒ वाशी᳚व सुन्व॒ते मिमी᳚त॒ इत् ॥
स॒निः । मि॒त्रस्य᳚ । प॒प्र॒थे॒ । इन्द्रः᳚ । सोम᳚स्य । पी॒तये᳚ ।
प्राची᳚ । वाशी᳚॑इव । सु॒न्व॒ते । मिमी᳚ते । इत् ॥
मित्रस्य मित्रभूतस्य स्तोतुः सनिर्धनस्य दाता इन्द्रः सोमस्य पीतये पानाय पप्रथे प्रथितोविस्तीर्णशरीरोबभूव यथा पीतोबहुलः सोमउदरेन्त- र्भवति तथा प्रवृद्धशरीरोबभूवेत्यर्थः । तत्र प्रथमे दृष्टांतः-प्राची प्रांचती प्रकर्षेण स्तुत्यगुणगणं प्राप्नुवती वाशीव वाङामैतत् स्तुतिरूपा वाक् सुन्वते । षष्ठचर्थे चतुर्थीवक्तव्येतिचतुर्थी । सुन्वतः सोमाभिषवं कुर्वतोयजमानस्य संबंधिनी यथा स्तुत्यगुणबाहुल्येन दिस्तीर्णाभवति तथेन्द्रः पप्रथइत्यर्थः । प्रथिताच सा मिमीतइत् इन्द्रमाहात्म्यं यथावत्परिच्छिनत्येव ॥ १२ ॥
यं विप्रा᳚ उ॒क्थवा᳚हसो॑भिप्रम॒न्दुरा॒यवः᳚ ।
घृ॒तं न पि᳚प्य आ॒सन्यृ॒तस्य॒ यत् ॥
यम् । विप्राः᳚ । उ॒क्थ॑वा᳚हसः । अ॒भि॒॑प्र॒म॒न्दुः । आ॒यवः᳚ ।
घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि᳚ । ऋ॒तस्य᳚ । यत् ॥
विप्रामेधाविनः उक्थवाहसः उक्थानां शस्त्राणां वोढारः प्रापयितारः आयवोमनुष्याः यमिन्द्रं अभिप्रमन्दुः अभि प्रकर्षेण मादयन्ति मदेर्व्यत्ययेन परस्परं द्विर्वचनपरेण छन्दसिवेतिवचनात् द्विर्वचनाभावः । तस्येन्द्रस्य आसनि आस्ये पदृन्नित्यादिना आस्य शब्दस्यासन्नादेशः घृतंन घृतमिव शुद्धं पिप्ये सेचनेन वर्धये प्यायतेश्छान्दसोलिट् लिडचङोश्चेतिपीभावः । किंतद्धविः ऋतस्य यज्ञस्य संबंधि यत्सोमलक्षणं हविरस्ति तदित्यर्थः ॥ १३ ॥
उ॒त स्व॒राजे॒ अदि᳚ति॒ः स्तोम॒मिन्द्रा᳚य जीजनत् ।
पु॒रु॒प्र॒श॒स्तमू॒तय᳚ ऋ॒तस्य॒ यत् ॥
उ॒त । स्व॒॑राजे᳚ । अदि᳚तिः । स्तोम᳚म् । इन्द्रा᳚य । जी॒ज॒न॒त् ।
पु॒रु॒॑प्र॒श॒स्तम् । ऊ॒तये᳚ । ऋ॒तस्य᳚ । यत् ॥
उतापिच अदितिरदीनादेवमाता अखंडनीयस्तोतावा स्वराजे स्वयमेव राजमानायेन्द्राय पुरुप्रशस्तं बहुलमुत्कृष्टं यद्वा पुरुभिर्बहुभिः प्रशंसितव्यं स्तोमं स्तोत्रं जीजनत् अजीजनत् अजनयत् । किमर्थं ऊतये रक्षणार्थं यत्स्तोत्रं ऋतस्य सत्यस्य वा संबंधिभवति तं स्तोममित्यन्वयः ॥ १४ ॥
अ॒भि वह्न᳚य ऊ॒तये॑नू᳚षत॒ प्रश᳚स्तये ।
न दे᳚व॒ विव्र᳚ता॒ हरी᳚ ऋ॒तस्य॒ यत् ॥
अ॒भि । वह्न᳚यः । ऊ॒तये᳚ । अनू᳚षत । प्र॑श᳚स्तये ।
न । दे॒व॒ । वि॑व्र᳚ता । हरी॒ इति᳚ । ऋ॒तस्य᳚ । यत् ॥
वह्रयोवोढारऋत्विजः ऊतये रक्षणार्थं प्रशस्तये प्रशस्त्यर्थंच अभ्यनूषत इन्द्रमभ्यस्तुवन् नु स्तुतौ कुटादिः हे देव दानादिगुणयुक्तेन्द्र नेति संप्रत्यर्थेसंप्रति विव्रता विविधकर्माणौ हरी तदीयावश्वौ ऋतस्य यज्ञस्य सत्यस्य वा संबंधि यत् स्तोत्रं हविर्वा विद्यते तदभिलक्ष्य त्वा वहतइतिशेषः ॥ १५||
यत्सोम᳚मिन्द्र॒ विष्ण᳚वि॒ यद्वा᳚ घ त्रि॒त आ॒प्त्ये ।
यद्वा᳚ म॒रुत्सु॒ मन्द᳚से॒ समिन्दु᳚भिः ॥
यत् । सोम᳚म् । इ॒न्द्र॒ । विष्ण᳚वि । यत् । वा॒ । घ॒ । त्रि॒ते । आ॒प्त्ये ।
यत् । वा॒ । म॒रुत्॑सु᳚ । मन्द᳚से । सम् । इन्दु᳚॑भिः ॥
हे इन्द्र विष्णवि विष्णौ पानार्थमागतेसति अन्यदीये यागे सोमं यद्यदि तेन विष्णुना सार्धं पिबसि यद्वा यदिच आध्ये अपांपुत्रे त्रिते एतत्संज्ञे राजर्षौ यजमाने सोमं पिबसि घेतिपूरणः यद्वा यदिच मरुत्सुच सोमपानायागतेषु अन्यदीये यज्ञे मन्दसे माद्यसि तथा प्यस्मदीयैरेवेन्दुभिः सोमैः सं सम्यङूमाद्य ॥ १६ ॥
यद्वा᳚ शक्र परा॒वति᳚ समु॒द्रे अधि॒ मन्द᳚से ।
अ॒स्माक॒मित्सु॒ते र᳚णा॒ समिन्दु᳚भिः ॥
यत् । वा॒ । श॒क्र॒ । प॒रा॒॑वति᳚ । स॒मु॒द्रे । अधि᳚ । मन्द᳚से ।
अ॒स्माक᳚म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु᳚॑भिः ॥
हे शक्रेन्द्र परावति परागते दूरदेशे समुद्रे समुन्दनशीले सोमे अधिः सप्तम्यर्थानुवादी यद्वा यदिवा मन्दसे माद्यसि तथापि अस्माकमित् अस्माकमेव सोमेभिषुते सति इन्दुभिः सोमरसैः संरण सम्यग्रमस्व ॥ १७ ॥
यद्वासि᳚ सुन्व॒तो वृ॒धो यज᳚मानस्य सत्पते ।
उ॒क्थे वा॒ यस्य॒ रण्य᳚सि॒ समिन्दु᳚भिः ॥
यत् । वा॒ । असि᳚ । सु॒न्व॒तः । वृ॒धः । यज᳚मानस्य । स॒त्॑प॒ते॒ ।
उ॒क्थे । वा॒ । यस्य᳚ । रण्य᳚सि । सम् । इन्दु᳚॑भिः ॥
हे सत्पते सतां पालयितरिन्द्र सुन्वतः सोमाभिपवं कुर्वतोयजमानस्य यद्वा यदिवा वृधोसि वर्धयिता भवसि वृधेरन्तर्णीदण्यर्थादिगुपधलक्षणः कः । यस्यच यजमानस्य उक्थे शस्त्रे वा शंसिते सति रण्यसि रमसे एवमपि इन्दुभिरस्मदीयैरेवसोमैः सम्यग्रमस्व ॥ १८ ॥
दे॒वंदे᳚वं॒ वो॑व᳚स॒ इन्द्र᳚मिन्द्रं गृणी॒षणि᳚ ।
अधा᳚ य॒ज्ञाय᳚ तु॒र्वणे॒ व्या᳚नशुः ॥
दे॒वम्॑दे᳚वम् । वः॒ । अव᳚से । इन्द्र᳚म्॑इन्द्रम् । गृ॒णी॒षणि᳚ ।
अध᳚ । य॒ज्ञाय᳚ । तु॒र्वणे᳚ । वि । आ॒न॒शुः॒ ॥
हे ऋत्विग्यजमानाः वोयुप्माकमवसे रक्षणाय देवं देवमिन्द्रं इन्द्रं दानादिगुणयुक्तं इन्द्रः बहुषु देशेषु युगपत्प्रवृत्तेषु यागेषु तत्रतत्र हविःस्वीक- रणाय बहूनि शरीराण्याददानः स्वयमेकोप्यनेकःसन् तत्रतत्र सन्निधत्ते तथाचनिगमांतरं-इन्द्रोमायाभिः पुरुरूपईयतइतिम् । तदपेक्षयेयं वीप्सा बहु- विभज्य वर्तमानं सर्वं तमिन्द्रं गृणीषणि अहं स्तौमि गृणातेर्लिङि छान्दसमेतद्रूपम् । यद्वा कारकमेवैतत् गृणीषणि स्तवनेच्छायां सत्यां अधानंतरं सर्वमिन्द्रं मदीयाः स्तुतयः व्यानशुर्व्याप्रुवन्ति किमर्थं तुर्वणे तूर्णं संभजनाय यज्ञाय् यागार्थम् । यद्वा क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाञ्चतु- र्थी । यज्ञं यष्टव्यं तुर्वणे शत्रूणां हिंसितारं तूर्णसंभजनं वा ॥ १९ ॥
य॒ज्ञेभि᳚र्य॒ज्ञवा᳚हसं॒ सोमे᳚भिः सोम॒पात᳚मम् ।
होत्रा᳚भि॒रिन्द्रं᳚ वावृधु॒र्व्या᳚नशुः ॥
य॒ज्ञेभिः᳚ । य॒ज्ञ॑वा᳚हसम् । सोमे᳚भिः । सो॒म॒॑पात᳚मम् ।
होत्रा᳚भिः । इन्द्र᳚म् । व॒वृ॒धुः॒ । वि । आ॒न॒शुः॒ ॥
यज्ञेभिर्यज्ञैर्यजमानसाधनैर्हविर्भिर्यज्ञवाहसं यज्ञे वोढव्यं प्रापणीयं यज्ञैर्यागैः यज्ञानां यजमानानां फलस्य प्रापयितारं वा अथवा यज्ञवाहसं यज्ञे- नप्राप्यं न केवलमेकेन यज्ञेन अपितु सर्वैरित्याह यज्ञेभिरिति एवं सोमेभिः सोमपातमं सर्वेषां सोमानां पातृनममिन्द्रं होत्राभिः स्तुतिभिः वावृधुः स्तोतारोवर्धनात ताश्र्व क्रियमाणाः स्तुतयः व्यानशुः तमिन्द्रं व्याप्रुवन्तिच अश्रोतेर्व्यत्ययेन परस्मैपदम् ॥ २० ॥
म॒हीर᳚स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश᳚स्तयः ।
विश्वा॒ वसू᳚नि दा॒शुषे॒ व्या᳚नशुः ॥
म॒हीः । अ॒स्य॒ । प्र॑नी᳚तयः । पू॒र्वीः । उ॒त । प्र॑श᳚स्तयः ।
विश्वा᳚ । वसू᳚नि । दा॒शुषे᳚ । वि । आ॒न॒शुः॒ ॥
अस्येन्द्रस्य प्रणीतयः प्रणयनानि धनानां प्रकृष्टप्रापणानि महीर्महत्यः महांति भवन्ति उतापिच अस्य प्रशस्तयः प्रशंसनीयाः कीर्तयः पूर्वीर्ब- ह्व्योविस्तृततमाभवन्ति ताउभयविधाः दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय दातुं विश्वा विश्वानि सर्वाणि वसूनि धनानि व्यानशुर्व्याप्नु- वन्ति ॥ २१ ॥
इन्द्रं᳚ वृ॒त्राय॒ हन्त᳚वे दे॒वासो᳚ दधिरे पु॒रः ।
इन्द्रं॒ वाणी᳚रनूषता॒ समोज᳚से ॥
इन्द्र᳚म् । वृ॒त्राय᳚ । हन्त᳚वे । दे॒वासः᳚ । द॒धि॒रे॒ । पु॒रः ।
इन्द्र᳚म् । वाणीः᳚ । अ॒नू॒ष॒त॒ । सम् । ओज᳚से ॥
देवासोदेवाः वृत्राय हन्तवे वृत्रमावरकमसुरं हंतुं हंतेस्तुमर्थे तवेन्प्रत्ययः इममिन्द्रं पुरोदधिरे पुरस्तात् स्वामित्वेनाधारयन् वाणीः वाण्यः स्तु- तिरूपावाचश्र्व इममेवेन्द्रमनूषत स्तुवन्तिकिमर्थं सं समीचीनाय ओजसे बलर्थं यथा वृत्रवधानुगुणमुत्कृष्टं बलमस्यजायते तथास्तुवन्तीत्यर्थः ॥ २२ ॥
म॒हान्तं᳚ महि॒ना व॒यं स्तोमे᳚भिर्हवन॒श्रुत᳚म् ।
अ॒र्कैर॒भि प्र णो᳚नुम॒ः समोज᳚से ॥
म॒हान्त᳚म् । म॒हि॒ना । व॒यम् । स्तोमे᳚भिः । ह॒व॒न॒॑श्रुत᳚म् ।
अ॒र्कैः । अ॒भि । प्र । नो॒नु॒मः॒ । सम् । ओज᳚से ॥
महिना महिप्त्रा महान्तं सर्वेभ्योधिकं हवनश्रृतं हवनस्याह्वानस्य श्रोतारमिब्द्रं वयं स्तोमेभिः स्तोमैः त्रिवृत्पञ्चदशादिभिः अर्कैः अर्चनसाधनैः श- स्त्रैश्र्व अभिप्रणोनुमः आभिमुख्येन प्रकर्षेण पुनःपुनः स्तुमः ॥ २३ ॥
न यं वि᳚वि॒क्तो रोद᳚सी॒ नान्तरि᳚क्षाणि व॒ज्रिण᳚म् ।
अमा॒दिद᳚स्य तित्विषे॒ समोज᳚सः ॥
न । यम् । वि॒वि॒क्तः । रोद᳚सी॒ इति᳚ । न । अ॒न्तरि᳚क्षाणि । व॒ज्रिण᳚म् ।
अमा᳚त् । इत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । सम् । ओज᳚सः ॥
यं वज्रिणं वज्रवन्तमिन्द्रं रोदसी द्यावापृथिव्यौ नविविक्तः नपृथक्कुरुतः स्वसमीपात् पृथक्कर्तुं नशक्रुतः द्यावापृथिव्यौ व्याप्य यइन्द्रोवर्धते इ- त्यर्थः विचिरूपृथग्भावे अन्तरिक्षाणि अन्तराक्षांतानि द्यावापृथिव्योर्वर्तमानानि गंधर्वादीनां स्थानानिच यन्नपृथक्कुर्वन्ति अस्येन्द्रस्य अमादित् अमति रुजति शत्रूननेत्यमोबलं बलोदेव सर्वं तित्विषेसर्वं जगद्दीत्यते । किमर्थं ओजसः चलस्य संगमाय । यद्वा ओजःशब्दाद्विहितस्य विनो बहुलं- छन्दसीतिलुक् ओजस्विनो बलवतोस्येन्द्रस्येति योज्यम् । समित्युपसर्गः सतित्विषइत्यनेन संवध्यते ॥ २४ ॥
यदि᳚न्द्र पृत॒नाज्ये᳚ दे॒वास्त्वा᳚ दधि॒रे पु॒रः ।
आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ॥
यत् । इ॒न्द्र॒ । पृ॒त॒नाज्ये᳚ । दे॒वाः । त्वा॒ । द॒धि॒रे । पु॒रः ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति᳚ । व॒व॒क्ष॒तुः॒ ॥
हे इन्द्र पृतनाज्ये संग्रामनामैतत् पृतनाः सेनाःअजंति गच्छन्त्यस्मिन्नितिवा पृतना जीयतेत्रेति का पृतनाज्यं संग्रामस्तत्र त्वा त्वां यद्यदा देवाः पुरोदधिरे वृत्रहननाय पुरतोधारयन् आदित् अनंतरमेव हर्यता हर्यतौ कांतौ हर्यगतिकान्त्योः भृमृदृशीत्यादिना औणादिकःअतच् प्रत्ययः ईदृशौ हरी अश्वौ ते त्वां ववक्षतुः आवहताम् ॥ २५ ॥
य॒दा वृ॒त्रं न᳚दी॒वृतं॒ शव᳚सा वज्रि॒न्नव᳚धीः ।
आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ॥
य॒दा । वृ॒त्रम् । न॒दी॒॑वृत᳚म् । शव᳚सा । व॒ज्रि॒न् । अव᳚धीः ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति᳚ । व॒व॒क्ष॒तुः॒ ॥
हे वज्रिन् वज्रवन्निन्द्र नदीवृतं नदीनां नद्यआपः श्रूयतेहि-अहावनदताहतेतस्मादानद्योनामस्थेति । ताआवृण्वंतं वृत्रमवर्षणशीलंमेघमसुरं वा यदा यस्मिन्काले शवसा बलेनावधीरहिंसीः शिष्टं समानं ॥ २६ ॥
य॒दा ते॒ विष्णु॒रोज᳚सा॒ त्रीणि᳚ प॒दा वि᳚चक्र॒मे ।
आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ॥
य॒दा । ते॒ । विष्णुः᳚ । ओज᳚सा । त्रीणि᳚ । प॒दा । वि॒॑च॒क्र॒मे ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति᳚ । व॒व॒क्ष॒तुः॒ ॥
हे इन्द्र ते तव अतुजोदिष्णुर्व्यापनशीलोदेवः ओजसा बलेन यदा यस्मिन्काले त्रीणि पदा पदानि पदत्रयरूपेण त्रीन् लोकान् विचक्रमे विक्रांतवान परिच्छिन्नवान् गतमन्यत् ॥ २७ ॥
य॒दा ते᳚ हर्य॒ता हरी᳚ वावृ॒धाते᳚ दि॒वेदि᳚वे ।
आदित्ते॒ विश्वा॒ भुव᳚नानि येमिरे ॥
य॒दा । ते॒ । ह॒र्य॒ता । हरी॒ इति᳚ । व॒वृ॒धाते॒ इति᳚ । दि॒वे॑दि᳚वे ।
आत् । इत् । ते॒ । विश्वा᳚ । भुव᳚नानि । ये॒मि॒रे॒ ॥
हे इन्द्र त्वदीयौ हर्यता हर्यतौ कांतौ हरी हरणशीलावश्वौ दिवेदिवे प्रतिदिवसं यदा यस्मिन्काले ववृधाते प्रवृध्दौ बभूवतुः । आदित् अनंतरमेव ते त्वया विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि येमिरे नियम्यन्तेस्म ॥ २८ ॥
य॒दा ते॒ मारु᳚ती॒र्विश॒स्तुभ्य᳚मिन्द्र नियेमि॒रे ।
आदित्ते॒ विश्वा॒ भुव᳚नानि येमिरे ॥
य॒दा । ते॒ । मारु᳚तीः । विशः᳚ । तुभ्य᳚म् । इ॒न्द्र॒ । नि॒॑ये॒मि॒रे ।
आत् । इत् । ते॒ । विश्वा᳚ । भुव᳚नानि । ये॒मि॒रे॒ ॥
हे इन्द्र तुभ्यं त्वदर्थं मारुतीर्मारुत्यः मरुद्रूपाः ते त्वदीयाः विशः प्रजाः यदा यस्मिन्काले नियेमिरे नियच्छन्ति भूतजातानि । अन्यद्रतम् ॥ २९ ॥
य॒दा सूर्य᳚म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा᳚रयः ।
आदित्ते॒ विश्वा॒ भुव᳚नानि येमिरे ॥
य॒दा । सूर्य᳚म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः᳚ । अधा᳚रयः ।
आत् । इत् । ते॒ । विश्वा᳚ । भुव᳚नानि । ये॒मि॒रे॒ ॥
हे इन्द्र अमुं विप्रकृष्टं शुकं निर्मलं ज्योतिर्द्योतमानं सूर्यं सर्वस्य प्रेरकं शोभनवीर्यं वा आदित्यं दिवि द्युलोके जगतः प्रकाशनाय यदा यस्मिन्काले अधारयः धाग्तिवानसि । समानमन्यत् ॥ ३० ॥
इ॒मां त᳚ इन्द्र सुष्टु॒तिं विप्र᳚ इयर्ति धी॒तिभि᳚ः ।
जा॒मिं प॒देव॒ पिप्र᳚तीं॒ प्राध्व॒रे ॥
इ॒माम् । ते॒ । इ॒न्द्र॒ । सु॒॑स्तु॒तिम् । विप्रः᳚ । इ॒य॒र्ति॒ । धी॒ति॑भिः᳚ ।
जा॒मिम् । प॒दा॑इ᳚व । पिप्र᳚तीम् । प्र । अ॒ध्व॒रे ॥
हे इन्द्र विप्रोमेधावी स्तोता अध्वरे यज्ञे इमां पुरोवर्तिनीं पिप्रतीं पूजयन्तीं प्रीणयन्तीं वा सुष्टुतिं शोभनां स्तुतीं धीतिभिः कर्मभिः कर्मभिः परिचरणैः सार्धं ते त्वां प्रेयर्ति प्रेरयति प्रगमयति । जामिं पदेव यथा बंधुभूतं पुरुषं उत्कृष्टानि पदानि स्थानानि प्रापयति तद्वत् ॥ ३१ ॥
यद᳚स्य॒ धाम᳚नि प्रि॒ये स᳚मीची॒नासो॒ अस्व᳚रन् ।
नाभा᳚ य॒ज्ञस्य᳚ दो॒हना॒ प्राध्व॒रे ॥
यत् । अ॒स्य॒ । धाम᳚नि । प्रि॒ये । स॒मी॒ची॒नासः᳚ । अस्व᳚रन् ।
नाभा᳚ । य॒ज्ञस्य᳚ । दो॒हना᳚ । प्र । अ॒ध्व॒रे ॥
अध्वरे यज्ञे अस्येन्द्रस्य धामनि स्थाने तेजसि वा प्रिये प्रीणयितव्ये सति समीचीनासः संगताः स्तोतारः यद्यदा प्रास्वरन् प्रकर्षेणास्तुवन् स्वृ- शब्दोपतापयोः । अयाळिन्द्रस्यप्रियाधामानीतिहिनिगमः । कस्मिन्देशे नाभा नाभौ पृथिव्या नाभिस्थानीये मध्ये यज्ञस्य यजनसाधनस्य सोमस्य दोहना दोहने दोहनाधिकरणेभिषवस्थाने वेद्यामित्यर्थः तदानीं धनं प्रदेहीति उत्तरत्र संबंधः ॥ ३२ ॥
सु॒वीर्यं॒ स्वश्व्यं᳚ सु॒गव्य᳚मिन्द्र दद्धि नः ।
होते᳚व पू॒र्वचि᳚त्तये॒ प्राध्व॒रे ॥
सु॒॑वीर्य᳚म् । सु॒॑अश्व्य᳚म् । सु॒॑गव्य᳚म् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ ।
होता᳚॑इव । पू॒र्व॑चि᳚त्तये । प्र । अ॒ध्व॒रे ॥
सुवीर्यं शोभनवीर्योपेतं स्वश्व्यं शोभनेनाश्वसंघेन च युक्तं सुगव्यं शोभनगोसंघयुक्तंच धनं हे इन्द्र नोस्मभ्यं दध्दि ददस्व । दददाने अनुदात्तेत् व्यत्ययेन परस्मैपदम् छांदसः शपोलुक् । अहं च अध्वरे यागे होतेव यथा मानुषोहोता ऋत्विक् स्तौति एवमेव पूर्वचित्तथे पूर्व- प्रज्ञानाय अन्येभ्यः स्तोतृभ्यः पूर्वमेवास्मत्स्तोत्रपरिज्ञानाय प्राशंसिषमिति शेषः ॥ ३३ ॥
तृतीयेनुवाकेअष्टशूक्तानि तत्रेन्द्रःसुतेष्विति त्रयस्त्रिंशदृचं प्रथमं सूक्तं काण्वस्य नारदस्यार्षमौष्णिहमैन्द्रं तथाचानुक्रांतम् – इन्द्रःसुतेषु नारदइति । महाव्रते निष्केवल्ये औष्णिहतृचाशीतौ पूर्वसूक्तेनसहोक्तोविनियोगः । तृतीयेपर्यायेच्छावाकशस्त्रे इन्द्रःसुतेष्वितितृचःस्तोत्रियः सूञ्यतेहि – इन्द्रःसुतेषुसोमेषु यइन्द्रसोमपातमइति ।