अष्टमं मण्डलम् - सूक्तम् 24

30 ऋचः

ऋषिः: विश्वमना वैयश्वः देवता: इंद्रः छन्दः: उष्णिक्

सूक्तम् 8.24 - सम्पूर्णम्

1 / 30
ऋक्: 8.24.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (30)
8.24.1 समानपद
सखा᳚य॒ आ शि᳚षामहि॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ ।
स्तु॒ष ऊ॒ षु वो॒ नृत᳚माय धृ॒ष्णवे᳚ ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । आ । शि॒षा॒म॒हि॒ । ब्रह्म᳚ । इन्द्रा᳚य । व॒ज्रिणे᳚ ।
स्तु॒षे । ऊं॒ इति᳚ । सु । वः॒ । नृ॑त᳚माय । धृ॒ष्णवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखायः मित्रभूता हे ऋत्विजः वज्रिणे वज्रहस्तायेन्द्राय ब्रह्म कर्तव्यमेतत्सूक्तरूपं स्तोत्रमाशिषामहि वयमाशास्मः शासु अनुशिष्टौ लुङि च्लेरङादे- शःइत्वषत्वे व्यत्ययेनात्मनेपदम् । तत्र वः सर्वेषामेव युष्माकं अर्थाय नृतमाय सर्वेषां नेतृतमाय यद्वा संग्रामेषु आयुधादीनां नेतृतमाय धृष्णवे शत्रू- णां धर्षणशीलाय तस्माइन्द्राय अहमेव सु सुष्ठु स्तुषे स्तौमि ॥ १ ॥

8.24.2
शव᳚सा॒ ह्यसि᳚ श्रु॒तो वृ᳚त्र॒हत्ये᳚न वृत्र॒हा ।
म॒घैर्म॒घोनो॒ अति᳚ शूर दाशसि ॥
▶ पदपाठः (Word-by-word)
शव᳚सा । हि । असि᳚ । श्रु॒तः । वृ॒त्र॒॑हत्ये᳚न । वृ॒त्र॒॑हा ।
म॒घैः । म॒घोनः᳚ । अति᳚ । शू॒र॒ । दा॒श॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं शवसा बलेन श्रुतः प्रसिद्धोसि भवसि हिप्रसिद्धौ । तदेवाह वृत्रहत्येन वृत्रासुरहननेन वृत्रहा वृत्रहन्तेति प्रसिद्धोभवसि । शूर शौर्यवन् हे इन्द्र मघोनोमघवतोधनवतः पुरुषान्मघैः त्वदीयैर्धनैरति अतिक्रम्य दाशसि स्तोतृभ्योस्मभ्यं प्रयच्छसि ॥ २ ॥

8.24.3
स न॒ः स्तवा᳚न॒ आ भ᳚र र॒यिं चि॒त्रश्र᳚वस्तमम् ।
नि॒रे॒के चि॒द्यो ह᳚रिवो॒ वसु᳚र्द॒दिः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । स्तवा᳚नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र᳚वः॑तमम् ।
नि॒रे॒के । चि॒त् । यः । ह॒रि॒॑वः॒ । वसुः᳚ । द॒दिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सतथाविधस्त्वं स्तवानः अस्माभिः स्तूयमानः सन् चित्रश्रवस्तमं अतिशयेन नानाविधान्नोपेतं रयिं पुत्रं धनं वा नोस्मभ्यमाभर आसंपादय देहित्यर्थः । हरिवः हरी अश्वौ तद्वन् हे इन्द्र यस्त्वं निरेकेचित् निर्गमनएव वसुः शत्रूणां वासयिताभवसि तवायुधनिर्गमनादेव शत्रवःपलायन्ते खलु । किच्च त्वं ददिर्धनानां दाता भवसि ॥ ३ ॥

8.24.4
आ नि᳚रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना᳚नाम् ।
धृ॒ष॒ता धृ᳚ष्णो॒ स्तव᳚मान॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
आ । नि॒रे॒कम् । उ॒त । प्रि॒यम् । इन्द्र᳚ । दर्षि᳚ । जना᳚नाम् ।
धृ॒ष॒ता । धृ॒ष्णो॒ इति᳚ । स्तव᳚मानः । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र उतापिच प्रियं प्रीणनात् प्रियतमं निरेकं धनं भवति विरेचनान्निर्गमनाद्वेति तद्धनं जनानां स्तोतृणामस्माकं आदर्षि आविदारय विवृतं कुरु । दृ विदारणे छांदसोविकरणस्य लुक् । वितृत्यच धृष्णो शत्रूणां धर्षणशील हे इन्द्र स्तवानः स्तोतृभिरस्माभिः स्तूयमानः सन् घृष्टेन मनसा सह आ- भर तद्धनमस्मभ्यं देहि ॥ ४ ॥

8.24.5
न ते᳚ स॒व्यं न दक्षि᳚णं॒ हस्तं᳚ वरन्त आ॒मुरः᳚ ।
न प᳚रि॒बाधो᳚ हरिवो॒ गवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । स॒व्यम् । न । दक्षि᳚णम् । हस्त᳚म् । व॒र॒न्ते॒ । आ॒॑मुरः᳚ ।
न । प॒रि॒॑बाधः᳚ । ह॒रि॒॑वः॒ । गो॑इ᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरिवोश्ववन्निद्र आमुरः संग्रामेआभिमुख्येन कर्तारः प्रतियोद्धारो गविष्टिषु पणिभिरपहृतानामंगिरसांगवामन्वेषणेषु ते तव सव्यं हस्तं नवरंते न निवारयन्ति तेषामायुधादिभिर्न निवार्यतइत्यर्थः । तथा दक्षिणंह्स्तंच न निवारयन्ति । किंच परिबाधः परितोबाधमानाः वृत्रादयोसुराश्च तव स- व्यदक्षिणहस्तौ ननिवारयन्ति संग्रामेषु त्वया सर्वे शत्रवः छिन्नहस्ताः सर्वतोगच्छन्तु त्वंतु तैरबाधितोवर्तसइत्यर्थः ॥ ५ ॥

8.24.6 समानपद
आ त्वा॒ गोभि᳚रिव व्र॒जं गी॒र्भिरृ᳚णोम्यद्रिवः ।
आ स्मा॒ कामं᳚ जरि॒तुरा मनः᳚ पृण ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । गोभिः᳚॑इव । व्र॒जम् । गीः॒॑भिः । ऋ॒णो॒मि॒ । अ॒द्रि॒॑वः॒ ।
आ । स्म॒ । काम᳚म् । ज॒रि॒तुः । आ । मनः᳚ । पृ॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवः वज्रवन्निन्द्र गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः त्वा त्वां आऋणोमि प्राप्नोमि । ऋणु गतौ तनादिः । तत्रदृष्टान्तः-गोभिरिव यथागोपालोगो- भिर्व्रजं गोष्ठं गच्छति तद्वत्त्वां स्तुतिभिः प्राप्नोमीत्यर्थः । ततस्त्वं जरितुः स्तोतुर्मम कामं धनादिविषयं आपृण आपूरय तथा मदीयं मनोमानसं ध- नादिभिः प्रदानेनापूरय ॥ ६ ॥

8.24.7
विश्वा᳚नि वि॒श्वम᳚नसो धि॒या नो᳚ वृत्रहन्तम ।
उग्र᳚ प्रणेत॒रधि॒ षू व᳚सो गहि ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । वि॒श्व॑म᳚नसः । धि॒या । नः॒ । वृ॒त्र॒ह॒न्॑त॒म॒ ।
उग्र᳚ । प्र॒ने॒त॒रिति᳚ प्र॑नेतः । अधि᳚ । सु । व॒सो॒ इति᳚ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्तम अतिशयेन वृत्रासुरस्योपद्रवाणांवा हन्तः । नाद्घ् स्येति तमपोनुडागमः । कीदृशउग्र उदूर्णबल प्रणेतः स्तोतृणां प्रकर्षेण धनादेर्नेतः । आमंत्रितइति उग्रेत्यस्याविद्यमानवद्धावप्रतिषेधः । तथाविध वसो शत्रूणां वासयितरिन्द्र नः पूजायां बहुवचनं विश्वमनसएतन्नाम्नोमय विश्वानि सर्वाणि स्तोत्राणि कर्माणि वा धिया मनसा सु सुष्ठु अधिगहि अधिगच्छ स्तुत्यतया यष्टव्यतया वा मनोवेगेन गच्छेत्यर्थः । गमेर्लोटि छान्दसः शपो- लुक् हेर्ङिद्वद्धावादनुदात्तोपदेशेत्यनुनासिकलोपः ॥ ७ ॥

8.24.8
व॒यं ते᳚ अ॒स्य वृ᳚त्रहन्वि॒द्याम᳚ शूर॒ नव्य᳚सः ।
वसो᳚ः स्पा॒र्हस्य᳚ पुरुहूत॒ राध᳚सः ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒॑ह॒न् । वि॒द्याम᳚ । शू॒र॒ । नव्य᳚सः ।
वसोः᳚ । स्पा॒र्हस्य᳚ । पु॒रु॒॑हू॒त॒ । राध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् वृत्रस्यहन्तः शूर बलवन्पुरुहूत पुरुभिर्बहुभिराह्वातव्येन्द्र नव्यसः नवीयसः ईयसुनईकालोपश्छांदसः नवतरं स्पार्हस्य स्पृहणीयं राधसः राधसाध संसिद्धौ शर्मादेः संसाधकं ते तव त्वदीयं अस्य वसोः क्रियाग्रहणं कर्तव्यमिति वसोः सम्प्रदानसंज्ञा चतुर्थ्यर्थे बहुलंछंदसीति वसोः षष्ठी त्वदीयमिदं परिदृश्यमानं धनं वयं विद्याम लभेमहि । विदॢलाभे आदादिकः छांदसोविकरणस्यलुक् ॥ ८ ॥

8.24.9
इन्द्र॒ यथा॒ ह्यस्ति॒ ते॑प᳚रीतं नृतो॒ शवः᳚ ।
अमृ᳚क्ता रा॒तिः पु᳚रुहूत दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । यथा᳚ । हि । अस्ति᳚ । ते॒ । अप᳚रि॑इतम् । नृ॒तो॒ इति᳚ । शवः᳚ ।
अमृ᳚क्ता । रा॒तिः । पु॒रु॒॑हू॒त॒ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृतो सर्वस्यांतर्यामितया नर्तयितरिन्द्र ते त्वदीयं शवोबलं यथा अपरीतमस्ति शत्रुभिरपरिगतमव्याप्तंभवति हिप्रसिद्धौ । तथा हे पुरुहूत पुरुभि- र्बहुभिराहूतेन्द्र दाशुषे हविर्दत्तवते यजमानाय रातिः धनादिदानममृक्ता शत्रुभिरहिंसितं भवति त्वत्तोलब्धं यजमानस्यधनं शत्रवोनहिंसन्ति । यथा त्वदीयबलस्य रक्षकः एवं तस्य धनस्यापि रक्षकइत्यर्थः ॥ ९ ॥

8.24.10
आ वृ᳚षस्व महामह म॒हे नृ᳚तम॒ राध᳚से ।
दृ॒ळ्हश्चि᳚द्दृह्य मघवन्म॒घत्त᳚ये ॥
▶ पदपाठः (Word-by-word)
आ । वृ॒ष॒स्व॒ । म॒हा॒॑म॒ह॒ । म॒हे । नृ॒॑त॒म॒ । राध᳚से ।
दृ॒ळ्हः । चि॒त् । दृ॒ह्य॒ । म॒घ॒॑व॒न् । म॒घत्त᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महामह अतिशयेन सर्वैः पूजनीय नृतम नेतृतमेन्द्र महे महते राधसे शत्रुधनानां संसाधकाय बलार्थं आवृषस्व स्वोदरमासिच्च सोमं पिबेत्यर्थः । हे मघवन् धनवन्निन्द्र सोमपानेन मत्तःसन् दृह्ळश्चित् दृढानि परैः अबाधितान्यपि शत्रुपुराणि मघत्तये मघानां धनानां लाभाय दृह्य जिघांस विदार- येत्यर्थः ॥ १० ॥

8.24.11
नू अ॒न्यत्रा᳚ चिदद्रिव॒स्त्वन्नो᳚ जग्मुरा॒शसः᳚ ।
मघ᳚वञ्छ॒ग्धि तव॒ तन्न᳚ ऊ॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
नु । अ॒न्यत्र᳚ । चि॒त् । अ॒द्रि॒॑वः॒ । त्वत् । नः॒ । ज॒ग्मुः॒ । आ॒॑शसः᳚ ।
मघ᳚॑वन् । श॒ग्धि । तव᳚ । तत् । नः॒ । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवः वज्रवन्निन्द्र त्वं धनवान् दाताचेत्यपरिज्ञाय नोस्मदीयानि आशसः आशंसनान्यभिलाषाः त्वत् त्वत्तोन्यत्र देवादौ नूचित् पुरा जग्मुः अग- च्छन् तत्र फलं नालभन्त । इदानीं त्वं धनवान् त्वं दानशीलइत्यस्माभिर्ज्ञातं अतएव हे मघवन् धनवन् इन्द्र तव त्वदीयं तच्छत्रुपुरविदारणलब्धं ध- नं ऊतिभिः तद्रक्षणैः नोस्मभ्यं शग्धि देहि शग्धीति दानकर्मा शक्रोतेर्लोटि छान्दसोविकरणस्यलुक् ॥ ११ ॥

8.24.12
न॒ह्य१॒᳚ङ्ग नृ᳚तो॒ त्वद॒न्यं वि॒न्दामि॒ राध᳚से ।
रा॒ये द्यु॒म्नाय॒ शव᳚से च गिर्वणः ॥
▶ पदपाठः (Word-by-word)
न॒हि । अ॒ङ्ग । नृ॒तो॒ इति᳚ । त्वत् । अ॒न्यम् । वि॒न्दामि᳚ । राध᳚से ।
रा॒ये । द्यु॒म्नाय᳚ । शव᳚से । च॒ । गि॒र्व॒णः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृतो नर्तयितः गिर्वणः गीर्भिः स्तुतिभिः वननीय संभजनीयेन्द्र राधसे बलसंसाधकायान्नाय राये धनाय द्युम्नाय द्योतमानाय यशसे शवसे वर्ध- काय बलायच त्वत्त्वतोन्यं नहि विन्दामि न लभे । अंग प्रसिद्धौ ॥ १२ ॥

8.24.13
एन्दु॒मिन्द्रा᳚य सिञ्चत॒ पिबा᳚ति सो॒म्यं मधु᳚ ।
प्र राध᳚सा चोदयाते महित्व॒ना ॥
▶ पदपाठः (Word-by-word)
आ । इन्दु᳚म् । इन्द्रा᳚य । सि॒ञ्च॒त॒ । पिबा᳚ति । सो॒म्यम् । मधु᳚ ।
प्र । राध᳚सा । चो॒द॒या॒ते॒ । म॒हि॒॑त्व॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः इन्द्रुं स्यंदनशीलं सोमं इंद्राय इन्द्रार्थमासिच्चत आश्रयणद्रव्येण सेचनं कुरुत अभिषुतेत्यर्थः । ततः सोम्यं सोममयं मधु मधुकरं सोमरसं पिबाति पिबतु पीत्वाच सइन्द्रः महित्वना स्वमहत्त्वेनैव राधसा अन्नेन सह धनादिकं स्तोतृभ्यः प्रचोदयाते प्रकर्षेण चोदयति । यद्वा यजमानःमहि- त्वना इन्द्राय प्रदीयमानत्वादस्य महत्वं महत्वयुक्तेन राधसान्नेन सह स्तोतृन्प्रचोदयति इन्द्राय हविर्दत्तेति स्तोतृन् प्रेरयतीत्यर्थः ॥ १३ ॥

8.24.14
उपो॒ हरी᳚णां॒ पतिं॒ दक्षं᳚ पृ॒ञ्चन्त᳚मब्रवम् ।
नू॒नं श्रु᳚धि स्तुव॒तो अ॒श्व्यस्य᳚ ॥
▶ पदपाठः (Word-by-word)
उपो॒ इति᳚ । हरी᳚णाम् । पति᳚म् । दक्ष᳚म् । पृ॒ञ्चन्त᳚म् । अ॒ब्र॒व॒म् ।
नू॒नम् । श्रु॒धि॒ । स्तु॒व॒तः । अ॒श्व्यस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरीणां हरितवर्णानामश्वानां पतिं पालयितारं दक्षं वर्धकं स्वबलं पृंचन्तं पृचीसंपर्के मरुत्सु योजयन्तम् यद्वा शत्रुषु स्वबलमायुधादिभिः संपर्चयन्त- मेतादृशमिन्द्रं त्वामुपो अब्रवं विश्वमना अहं स्तोत्रं करवाणि । अश्व्यस्य व्यश्वोनामर्षिः अश्वशब्देनोच्यते तस्य पुत्रस्य स्तुवतः स्तोत्रं कुर्वतोमम संबन्धिनीं त्वद्विषयां स्तुतिं नूनं सम्प्रति श्रुधि शृणु ॥ १४ ॥

8.24.15
न॒ह्य१॒᳚ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत᳚र॒स्त्वत् ।
नकी᳚ रा॒या नैवथा॒ न भ॒न्दना᳚ ॥
▶ पदपाठः (Word-by-word)
न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒र॑त᳚रः । त्वत् ।
नकिः᳚ । रा॒या । न । ए॒व॑था᳚ । न । भ॒न्दना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वत् त्वत्तः पुरा पूर्वं वीरतरः सामर्थ्यवान्कश्चिन्नहि जज्ञे न जातः खलु । अंग प्रसिद्धौ । त्वमेव सामर्थ्यवान् जातइत्यर्थः । किच्च त्वत्तोपि रा- या धनेन समर्थोनकिर्नकश्चिदस्ति । तथा एवथा शत्रुपुराणि संग्रामं वा प्रतिगमनेन त्वत्तोधिकोनजातः । यद्वा एवथा अवरक्षणादिषु अकारस्य ए- कारश्छान्दसः औणादिकोथप्रत्ययः शरणागतानां स्तोतृणां चावनेन त्वत्तोधिकोनास्ति । किंच भन्दना भंदतिः स्तुतिकर्मा स्तुत्याच त्वदधिकोनजा- तः धनवान् रक्षकः स्तुत्यश्च त्वत्तोन्योनजज्ञइति ॥ १५ ॥ एदृमध्वइति तृचः पूर्वोक्तेब्राह्मणाच्छंसिशस्त्रे वैकल्पिकोनुरूपः सूत्रितंच-एदुमध्वोमदिन्तरमेतोन्विन्द्रंस्तवामसखायइति ।

8.24.16
एदु॒ मध्वो᳚ म॒दिन्त᳚रं सि॒ञ्च वा᳚ध्वर्यो॒ अन्ध᳚सः ।
ए॒वा हि वी॒रः स्तव᳚ते स॒दावृ᳚धः ॥
▶ पदपाठः (Word-by-word)
आ । इत् । ऊं॒ इति᳚ । मध्वः᳚ । म॒दिन्॑त᳚रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति᳚ । अन्ध᳚सः ।
ए॒व । हि । वी॒रः । स्तव᳚ते । स॒दा॑वृ᳚धः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यो अध्वरस्यनेत ऋत्विक् मध्वोमदकरस्यान्धसः सोमलक्षणस्यान्नस्य मदिन्तरं अत्यर्थं मादयितृतमं सोमरसमेव आसिच्च इन्द्रार्थम् । अयमेवे- न्द्रः स्तवतेहि स्तोत्रशस्त्रादिभिः स्तूयते खलु । कीदृशः वीरः विक्रान्तः सदावृधः सर्वदावर्धमानः स्तुतायेन्द्राय सोमोदातव्यः तस्मादासिच्चेति समन्वयः ॥ १६ ॥

8.24.17
इन्द्र᳚ स्थातर्हरीणां॒ नकि᳚ष्टे पू॒र्व्यस्तु᳚तिम् ।
उदा᳚नंश॒ शव᳚सा॒ न भ॒न्दना᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः᳚ । ते॒ । पू॒र्व्य॑स्तु᳚तिम् ।
उत् । आ॒नं॒श॒ । शव᳚सा । न । भ॒न्दना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरीणां स्थातः अश्वानामधिष्ठातरिन्द्र ते त्वदीयां पूर्व्यस्तुतिं पूर्वैरृषिभिः कृतां स्तुतिमुपलक्षणं इदानींतनैः क्रियमाणामपिस्तुतिं नकिर्नकश्चित् शवसा बलेन उदानंश व्याप्नोति । अशूव्याप्तौ लिटि अश्नोतेश्चेतिनुट् छान्दसआगमः कश्चिन्नातिक्रामतीत्यर्थः । किंच भन्दना सर्वैः प्रार्थनीयत्वात् पूजनीयेन धनेन स्तुत्यावा त्वदीयां स्तुतिं नकश्चिदतिक्रामति त्वत्तोबलवान्धनी स्तुत्योवान्योनास्तीत्यर्थः ॥ १७ ॥

8.24.18
तं वो॒ वाजा᳚नां॒ पति॒महू᳚महि श्रव॒स्यवः᳚ ।
अप्रा᳚युभिर्य॒ज्ञेभि᳚र्वावृ॒धेन्य᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । वाजा᳚नाम् । पति᳚म् । अहू᳚महि । श्र॒व॒स्यवः᳚ ।
अप्रा᳚यु॑भिः । य॒ज्ञेभिः᳚ । व॒वृ॒धेन्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्रायुभिः कर्मसु अप्रमाद्यन्मनुष्ययुक्तैः अथवा अप्रमत्ताएकत्रस्थित्वैवकर्मकुर्वन्ति कर्मप्रारभ्यनान्यंदेशं गच्छन्तीत्यर्थः एवं विधमनुष्ययुक्तैर्यज्ञेभिर्य- ज्ञैः एतादृशमनुष्यैर्यज्ञैर्वा वावृधेन्यं वर्धनीयं वाजानामन्नानां पतिं स्वामिनं वः यष्टृयष्टव्यसंबन्धेन युष्मदीयंतं तादृशमिन्द्रं श्रवस्यवः वयमन्नकामाः सन्तः अहूमहि आह्वयामः । ह्वयतेर्लुङि बहुलंछन्दसीति संप्रसारणम् ॥ १८ ॥ पूर्वोक्तएव शस्त्रे एतोन्विन्द्रमित्येतौतृचौ वैकल्पिकौस्तोत्रियानुरूपौ सूत्रितच्च-एतोन्विन्द्रंस्तवामसखायः स्तुहीन्द्रंव्यश्ववदिति ।

8.24.19 समानपद
एतो॒ न्विन्द्रं॒ स्तवा᳚म॒ सखा᳚य॒ः स्तोम्यं॒ नर᳚म् ।
कृ॒ष्टीर्यो विश्वा᳚ अ॒भ्यस्त्येक॒ इत् ॥
▶ पदपाठः (Word-by-word)
एतो॒ इति᳚ । नु । इन्द्र᳚म् । स्तवा᳚म । सखा᳚यः । स्तोम्य᳚म् । नर᳚म् ।
कृ॒ष्टीः । यः । विश्वाः᳚ । अ॒भि । अस्ति᳚ । एकः᳚ । इत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः समानख्याना मित्रभूतावा हे ऋत्विजः नु क्षिप्रं एतो आगच्छतैव । किमर्थं तदाह स्तोम्यं स्तोमार्हं नरं सर्वस्यनेतारं तमिन्द्रं स्तवाम स्तो- त्रं करवाम । यइन्द्रः एकइत् एकोसहायएवसन् विश्वाः सर्वाः कृष्टीः शत्रुसेनाः अभ्यस्ति अभिभवति तं स्तवामेतिशेषः ॥ १९ ॥

8.24.20 समानपद
अगो᳚रुधाय ग॒विषे᳚ द्यु॒क्षाय॒ दस्म्यं॒ वचः᳚ ।
घृ॒तात्स्वादी᳚यो॒ मधु᳚नश्च वोचत ॥
▶ पदपाठः (Word-by-word)
अगो᳚॑रुधाय । गो॒॑इषे᳚ । द्यु॒क्षाय᳚ । दस्म्य᳚म् । वचः᳚ ।
घृ॒तात् । स्वादी᳚यः । मधु᳚नः । च॒ । वो॒च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः अगोरुधाय गाःस्तुतीरुणद्धीति गोरुधः नगोरुध अगोरुधःतान् अविनाशयति आदरेण श्रृणोतीत्यर्थःतादृशाय अतएव गविषे स्तोत्राणी- च्छते द्युक्षाय दीप्यमानायेन्द्राय दस्म्यं दर्शनीयं घृतात्स्वादुतराद्वाज्यान्मधुनश्च स्वादीयः अतिशयेन स्वादुभूतं वचः स्तोत्ररूपं वाक्यं वोचत ब्रूत ऋत्विग्भ्यः कृतंकर्म यजमानोपि कृतवान् भवतीति यदिदमिन्द्रविषयंवचः घृतान्मधुनुश्च स्वादुतरं भवत्वित्याशास्ते । तदाहभगवानाश्वलायनः-व- चएवमइदं घृताच्चमधुनश्चस्वादीयोस्तिप्रीतिःस्वादीयोस्त्वित्येवतदाहेति ॥ २० ॥

8.24.21 समानपद
यस्यामि᳚तानि वी॒र्या॒३॒᳚ न राध॒ः पर्ये᳚तवे ।
ज्योति॒र्न विश्व᳚म॒भ्यस्ति॒ दक्षि᳚णा ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अमि᳚तानि । वी॒र्या᳚ । न । राधः᳚ । परि᳚॑एतवे ।
ज्योतिः᳚ । न । विश्व᳚म् । अ॒भि । अस्ति᳚ । दक्षि᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्य वीर्या वीर्याणि वृत्रहननादिलक्षणानि सामर्थ्यानि अमितानि अस्य इयन्ति सामर्थ्यानि नान्यानीति परिमितानि नभवन्ति । यद्वा मीत्र् हिंसायां छान्दसोह्रस्वः शत्रुभिरहिंसितानि भवन्ति । तथा यस्येन्द्रस्य राधोधनं न पर्येतवे शत्रुभिः परिगंतुं प्राप्तुं शक्यं न भवति । अतएवास्यदक्षि- णा धनं दानमभ्यस्ति विश्वं सर्वं स्तोतृजनं अभिभवति । तत्रदृष्टान्तः- ज्योतिर्न ज्योतिषामयनत्वात् ज्योतिरन्तरिक्षं यथान्तरिक्षं सर्वलोकं पिधाय तिष्ठति तद्वत् स्तोतृजनं धनदानेन पिधत्तइत्यर्थः । यद्वा येन दत्तं धनं सर्वं शत्रुजनमभिभवति येनदत्तं धनमादायासतः शत्रूनभिभवतीत्यर्थः ॥ २१ ॥

8.24.22
स्तु॒हीन्द्रं᳚ व्यश्व॒वदनू᳚र्मिं वा॒जिनं॒ यम᳚म् ।
अ॒र्यो गयं॒ मंह᳚मानं॒ वि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
स्तु॒हि । इन्द्र᳚म् । व्य॒श्व॒॑वत् । अनू᳚र्मिम् । वा॒जिन᳚म् । यम᳚म् ।
अ॒र्यः । गय᳚म् । मंह᳚मानम् । वि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वमनः अनूर्मिं ऊर्मिर्हिंसाकर्मा कैश्विदप्यहिंस्यं अथवा शत्रुभिरगंतव्यं अतएव वाजिनं बलवन्तं यमं स्तोतृभिः सुनियतमेतादृशमिन्द्रं स्तुहि । स्तोत्रेदृष्टान्तः-व्यश्ववत् यथा व्यश्वोविश्वमनसः पिता इन्द्रमस्तौत् तद्वत् स्तुहीत्यर्थः । स्तुतश्चेत् अर्यः स्वामीन्द्रः दाशुषे हविर्दत्तवते यजमानाय मंह- मानं पूज्यमानं गयं धनं यद्वा देवानां पूजायै गयं गृहम् । गृहमस्तिचेत् देवाहविर्भिःपूज्यन्ते तादृशं गृहं वितरति तस्मात् त्वं धनगृहलाभाय स्तुहीत्य- र्थः ॥ २२ ॥

8.24.23
ए॒वा नू॒नमुप᳚ स्तुहि॒ वैय᳚श्व दश॒मं नव᳚म् ।
सुवि᳚द्वांसं च॒र्कृत्यं᳚ च॒रणी᳚नाम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । नू॒नम् । उप᳚ । स्तु॒हि॒ । वैय᳚श्व । द॒श॒मम् । नव᳚म् ।
सु॑वि᳚द्वांसम् । च॒र्कृत्य᳚म् । च॒रणी᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वैयश्व व्यश्वस्यपुत्र विश्वमनः चर्षणीनां मनुष्याणां देहेस्थितानां नवानां प्राणानां दशमं दशसंख्यापूरकम् । तत्रमन्त्रः-नववै पुरुषेप्राणामनुष्येषुर्वत- मानाइन्द्रस्तेषां दशधाभवतींद्रस्यात्मानं दशधाचरन्तमिति । एतादृशं अतएव नवं स्तुत्यं सुविद्वांसं अंतर्यामित्वात् सुष्ठु सर्वं जानन्तं चर्कृत्यं भूयोभू- यः कार्येषु सर्वैर्नमस्कर्तव्यमेवंविधमिन्द्रं एव नूनमिदानीमुपस्तुहि समीपेस्तुहि ॥ २३ ॥

8.24.24
वेत्था॒ हि निरृ᳚तीनां॒ वज्र᳚हस्त परि॒वृज᳚म् ।
अह᳚रहः शु॒न्ध्युः प᳚रि॒पदा᳚मिव ॥
▶ पदपाठः (Word-by-word)
वेत्थ᳚ । हि । निः॑ऋ᳚तीनाम् । वज्र᳚॑हस्त । प॒रि॒॑वृज᳚म् ।
अहः᳚॑अहः । शु॒न्ध्युः । प॒रि॒पदा᳚म्॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमृषिरिन्द्रं संबोध्यआह हे वज्रहस्त वज्रयुक्तहस्तेन्द्र निरृतीनामुपद्रवकारिणां रक्षसां परिवृजं परिवर्जनं हिरवधारणे त्वमेववेत्थ जानीषे । त- त्रदृष्टान्तः-अहरहः शुंध्युः अस्मिन्नुदितेसति ब्राह्मणा आत्मीयं कर्म कृत्वा शुद्धाभवन्तीति शोभाहेतुत्वात् शुन्ध्युरादित्यः परिपदामिव परितः यज- मानानां इव यद्वा परिपदां समानाधिकरणः परितः पततां पक्षिणां वर्जनं स्वस्थानत्यागं अहरहः प्रतिदिवसं यथा वेत्ति उदिते सूर्ये पक्षिणःस्वस्था- नं परित्यज्य सर्वतोगच्छन्ति खलु । एवं त्वयीन्द्रे स्वबलेन प्रकाशमानेसति शत्रवः स्वपुरादि त्यत्क्का पलायन्त इत्यर्थः ॥ २४ ॥

8.24.25
तदि॒न्द्राव॒ आ भ᳚र॒ येना᳚ दंसिष्ठ॒ कृत्व᳚ने ।
द्वि॒ता कुत्सा᳚य शिश्नथो॒ नि चो᳚दय ॥
▶ पदपाठः (Word-by-word)
तत् । इ॒न्द्र॒ । अवः᳚ । आ । भ॒र॒ । येन᳚ । दं॒सि॒ष्ठ॒ । कृत्व᳚ने ।
द्वि॒ता । कुत्सा᳚य । शि॒श्न॒थः॒ । नि । चो॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तदवस्तद्रक्षणमस्मभ्यमाभर हे दंसिष्ठ अत्यन्तं दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र कृत्वने कर्मकुर्वते यजमानाय तदर्थं येन पालनमकृथाः तद्रक्षणमाभरेति समन्वयः । किच्च कुत्साय कुत्सनामकाय राजर्षये द्विता द्विधा प्रकारेण शिश्नथः त्वं शत्रूनवधीः तस्मै द्वैधं पालनमकार्षीरित्यर्थः तद्रक्षणमप्यस्मभ्यं निचोदय नितरामत्यर्थं प्रेरय । यद्वा कृत्वनइति सामान्येनोक्त्वा निःशेषेण तदेवाह कुत्सायेत्यादि । शेषं पूर्ववत् ॥ २५ ॥

8.24.26
तमु᳚ त्वा नू॒नमी᳚महे॒ नव्यं᳚ दंसिष्ठ॒ सन्य᳚से ।
स त्वं नो॒ विश्वा᳚ अ॒भिमा᳚तीः स॒क्षणि᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । नू॒नम् । ई॒म॒हे॒ । नव्य᳚म् । दं॒सि॒ष्ठ॒ । सन्य᳚से ।
सः । त्वम् । नः॒ । विश्वाः᳚ । अ॒भि॑मा᳚तीः । स॒क्षणिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दंसिष्ठ अतिशयेन दर्शनीयेन्द्र नव्यं स्तोतृभिः स्तोतव्यं तमु तादृशमेव त्वा त्वां नूनमिदानीमीमहे वयं याचामहे । किमर्थं संन्यसे असुक्षेपणे भावे- क्किप् संन्यासार्थं याचामहइति शेषः । सतादृशस्त्वं नोस्माकं विश्वाः सर्वाअभिमातीः शत्रुसेनाः सक्षणिः सहेः सनिः प्रत्ययः सहनशीलोभिभवनशी- लोभवसि ॥ २६ ॥

8.24.27
य ऋक्षा॒दंह᳚सो मु॒चद्यो वार्या᳚त्स॒प्त सिन्धु᳚षु ।
वध᳚र्दा॒सस्य᳚ तुविनृम्ण नीनमः ॥
▶ पदपाठः (Word-by-word)
यः । ऋक्षा᳚त् । अंह᳚सः । मु॒चत् । यः । वा॒ । आर्या᳚त् । स॒प्त । सिन्धु᳚षु ।
वधः᳚ । दा॒सस्य᳚ । तु॒वि॒॑नृ॒म्ण॒ । नी॒न॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोर्धर्चः परोक्षकृतः यइन्द्रऋक्षात् ऋन्मनुष्यान् क्षणोति क्षणोतेरौणादिकोडप्रत्ययः तस्माद्रक्षसोजातादंहसः पापरूपादुपद्रवान्मुचत् मुच्चति रा- क्षसएनं नबाधते किंपुनस्तंहन्तीत्यर्थः । अपिच यइन्द्रः सप्तसिंधुषु गंगाद्यासु नदीषु यद्वा सप्त सर्पणशीलासु सिंधुषु तत्कूलेष्वित्यर्थः गंगायांघोषइ- तिवत् । तेषु वर्तमानानां स्तोतृणां आर्यात् धनादिकं प्रेरयेत् ऋगतिप्रापणयोः आशीर्लिङि गुणोर्तिसंयोगाद्योरिति गुणः बहुलंछन्दसीति लिङ्यप्या- डागमः । अथप्रत्यक्षः हे तुविनृम्ण बहुधनेन्द्र दासस्योपक्षपयितुरसुरस्य वधः हननसाधनमायुधं नीनमः नमय ॥ २७ ॥

8.24.28
यथा᳚ वरो सु॒षाम्णे᳚ स॒निभ्य॒ आव᳚हो र॒यिम् ।
व्य᳚श्वेभ्यः सुभगे वाजिनीवति ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । व॒रो॒ इति᳚ । सु॒॑साम्णे᳚ । स॒नि॑भ्यः᳚ । आ । अव᳚हः । र॒यिम् ।
वि॑अ᳚श्वेभ्यः । सु॒॑भ॒गे॒ । वा॒जि॒नी॒॑व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनेनतृचेन वरोर्दानंस्तूयते-हे वरो वरुनामकराजन् सुषाम्णे सुसाम्ने सुषामाख्यं राजानं स्वपितरमुद्दिश्य तस्योत्तमलोकप्राप्त्यर्थं सनिभ्यो भिक्षमा- णेभ्यो आ कोशात् आहृत्यरयिं धनं यथा पुरा अवहः प्रापितवानसि अतएवमिदानीं व्यश्वेभ्यः व्यश्वपुत्रेभ्योस्मभ्यं धनमावह । वाजिनीवतीतिपद- लिंगादियमुषस्या अयंतृचोप्युषस्यइति शौनकेनोक्तम्-यथा वरोसुषाम्णइत्युत्तमस्त्वौषसस्तृचइति । हे सुभगे शोभनधनयुक्ते वाजिनीवति अन्नवति मतुबनुवादार्थः । यद्वा वाजोवाजनं गमनमस्यास्तीति वाजिनी अन्नं तद्वति हे उषः त्वं चास्मभ्यं धनं प्रयच्छ वरोर्बहुधनदानात्तस्य दानस्तुतिः । यद्वा विश्वमनाऋषिः वरुं संबोध्याह हे सुभगे शोभनधने वाजिनीवति अन्नवति हे उषःयथा त्वं सुषाम्णे सुषामनाम्ने मम पित्रे धनं दत्वा तेनैव सुषाम्णा सनिभ्योयाचमानेभ्यः धनं यथा प्रापितवत्यसि तेन यथा दानमकारयः एवं मह्यमपि धनं दत्वा व्यश्वेभ्यः पूजायां बहुवचनं व्यश्वपुत्राय विश्वमनसे धनं प्रापयेति मयापि दानंकरोषि । हेवरो उषसमेवंवदेत्यृषिराह ॥ २८ ॥

8.24.29
आ ना॒र्यस्य॒ दक्षि᳚णा॒ व्य᳚श्वा{4} एतु सो॒मिनः᳚ ।
स्थू॒रं च॒ राधः᳚ श॒तव᳚त्स॒हस्र᳚वत् ॥
▶ पदपाठः (Word-by-word)
आ । ना॒र्यस्य᳚ । दक्षि᳚णा । वि॑अ᳚श्वान् । ए॒तु॒ । सो॒मिनः᳚ ।
स्थू॒रम् । च॒ । राधः᳚ । श॒त॑व᳚त् । स॒हस्र᳚॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया धनं ऋषिरादत्तवानित्याह नार्यस्य नरहितोनर्यः तस्यापत्यंनार्यःतस्मात् संबन्धमात्रे तस्येदमित्यण् तस्य सोमिनःसोमवतोयजमानस्य यद्वा व्यश्वानां विशेषणं तादृशस्य वरोर्दक्षिणादानं सोमवतोव्यश्वान् व्यश्वपुत्रानस्मानैतु आगच्छतु । किंच स्थूरं स्थूलं शतवत्सहस्रवत् शतसहस्रधनयुक्तं राधोन्नं चास्मानागच्छतु ॥ २९ ॥

8.24.30 समानपद
यत्त्वा᳚ पृ॒च्छादी᳚जा॒नः कु᳚ह॒या कु᳚हयाकृते ।
ए॒षो अप᳚श्रितो व॒लो गो᳚म॒तीमव᳚ तिष्ठति ॥
▶ पदपाठः (Word-by-word)
यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒॑कृ॒ते॒ ।
ए॒षः । अप᳚॑श्रितः । व॒लः । गो॒॑म॒तीम् । अव᳚ । ति॒ष्ठ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमुषसं संबोध्याभिधीयते हे कुहयाकृते सवरुः कुह कुत्रतिष्ठतीत्येतदिच्छयाभिलक्षणप्रवृत्तैर्जिज्ञासुभिः पुरस्कृते कुहशब्दात् क्यच् एतादृशे हे उषःत्वा त्वां यद्यदां कश्चित् पृच्छात् पृच्छति ईजानः इष्टवान् वरुः कुहया क्वतिष्ठतीति यदा पृच्छति तदानीमपश्रितः सर्वैराश्रितःयद्वा विवृतद्वारः । यदा याचमानाआगच्छन्ति तदा दौवारिका न प्रतिबध्नन्तीत्यर्थः तादृशः वलोवरः स्वबलेनावरकः शत्रूणां यद्वा भिक्षूणां धनादिप्रदानेनावरिता एषोएषवरुः गोमतीं एतन्नामिकां तदीं कालाध्वनोरितिद्वितीया तस्यास्तीरे अवतिष्ठतीति तदानीं त्वं कथयसि ॥ ३० ॥

तावामिति चतुर्विंशत्यृचं पच्चमं सूक्तम् अत्रेयमनुक्र्मणिका-तावांचतुर्विशतिर्मैत्रावरुणं दशम्याद्यास्तिस्रोवैश्वदेव्यउपान्त्योष्णिग्गर्भेति । व्यश्वपुत्रो- वैयश्वनामा ऋषिः पूर्ववदुष्णिक् छ्न्दः त्रयोविंशीउष्णिग्गर्भा । षट्सप्तैकादशाउष्णिग्गर्भेति तल्लक्षणोपेतत्वात् । दशम्येकादशीद्वादश्योवैश्वदेव्यः अवशिष्टानां मित्रावरुणौ देवता सूक्तविनियोगोलैंगिकः ।