अष्टमं मण्डलम् - सूक्तम् 51

10 ऋचः

ऋषिः: श्रुष्टिगुः काण्वः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.51 - सम्पूर्णम्

1 / 10
ऋक्: 8.51.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.51.1
यथा॒ मनौ॒ सांव᳚रणौ॒ सोम᳚मि॒न्द्रापि᳚बः सु॒तम् ।
नीपा᳚तिथौ मघव॒न्मेध्या᳚तिथौ॒ पुष्टि᳚गौ॒ श्रुष्टि᳚गौ॒ सचा᳚ ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । मनौ᳚ । साम्॑व᳚रणौ । सोम᳚म् । इ॒न्द्र॒ । अपि᳚बः । सु॒तम् ।
नीप᳚॑अतिथौ । म॒घ॒॑व॒न् । मेध्य᳚॑अतिथौ । पुष्टि᳚॑गौ । श्रुष्टि᳚॑गौ । सचा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.2 समानपद
पा॒र्ष॒द्वा॒णः प्रस्क᳚ण्वं॒ सम᳚सादय॒च्छया᳚नं॒ जिव्रि॒मुद्धि᳚तम् ।
स॒हस्रा᳚ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य᳚वे॒ वृकः᳚ ॥
▶ पदपाठः (Word-by-word)
पा॒र्ष॒द्वा॒णः । प्रस्क᳚ण्वम् । सम् । अ॒सा॒द॒य॒त् । शया᳚नम् । जिव्रि᳚म् । उद्धि᳚तम् ।
स॒हस्रा᳚णि । अ॒सि॒सा॒स॒त् । गवा᳚म् । ऋषिः᳚ । त्वा॑ऊ᳚तः । दस्य᳚वे । वृकः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.3
य उ॒क्थेभि॒र्न वि॒न्धते᳚ चि॒किद्य ऋ᳚षि॒चोद᳚नः ।
इन्द्रं॒ तमच्छा᳚ वद॒ नव्य᳚स्या म॒त्यवि᳚ष्यन्तं॒ न भोज᳚से ॥
▶ पदपाठः (Word-by-word)
यः । उ॒क्थेभिः᳚ । न । वि॒न्धते᳚ । चि॒कित् । यः । ऋ॒षि॒॑चोद᳚नः ।
इन्द्र᳚म् । तम् । अच्छ᳚ । व॒द॒ । नव्य᳚स्या । म॒ती । अवि᳚ष्यन्तम् । न । भोज᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.4
यस्मा᳚ अ॒र्कं स॒प्तशी᳚र्षाणमानृ॒चुस्त्रि॒धातु᳚मुत्त॒मे प॒दे ।
स त्वि१॒᳚मा विश्वा॒ भुव᳚नानि चिक्रद॒दादिज्ज᳚निष्ट॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । अ॒र्कम् । स॒प्त॑शी᳚र्षाणम् । आ॒नृ॒चुः । त्रि॒॑धातु᳚म् । उ॒त्॑त॒मे । प॒दे ।
सः । तु । इ॒मा । विश्वा᳚ । भुव᳚नानि । चि॒क्र॒द॒त् । आत् । इत् । ज॒नि॒ष्ट॒ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.5 समानपद
यो नो᳚ दा॒ता वसू᳚ना॒मिन्द्रं॒ तं हू᳚महे व॒यम् ।
वि॒द्मा ह्य᳚स्य सुम॒तिं नवी᳚यसीं ग॒मेम॒ गोम᳚ति व्र॒जे ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । दा॒ता । वसू᳚नाम् । इन्द्र᳚म् । तम् । हू॒म॒हे॒ । व॒यम् ।
वि॒द्म । हि । अ॒स्य॒ । सु॒॑म॒तिम् । नवी᳚यसीम् । ग॒मेम᳚ । गो॑म᳚ति । व्र॒जे ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.6
यस्मै॒ त्वं व᳚सो दा॒नाय॒ शिक्ष᳚सि॒ स रा॒यस्पोष᳚मश्नुते ।
तं त्वा᳚ व॒यं म᳚घवन्निन्द्र गिर्वणः सु॒ताव᳚न्तो हवामहे ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । त्वम् । व॒सो॒ इति᳚ । दा॒नाय᳚ । शिक्ष᳚सि । सः । रा॒यः । पोष᳚म् । अ॒श्नु॒ते॒ ।
तम् । त्वा॒ । व॒यम् । म॒घ॒॑व॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒त॑व᳚न्तः । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.7
क॒दा च॒न स्त॒रीर᳚सि॒ नेन्द्र᳚ सश्चसि दा॒शुषे᳚ ।
उपो॒पेन्नु म᳚घव॒न्भूय॒ इन्नु ते॒ दानं᳚ दे॒वस्य᳚ पृच्यते ॥
▶ पदपाठः (Word-by-word)
क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॒सि॒ । दा॒शुषे᳚ ।
उप᳚॑उप । इत् । नु । म॒घ॒॑व॒न् । भूयः᳚ । इत् । नु । ते॒ । दान᳚म् । दे॒वस्य᳚ । पृ॒च्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.8
प्र यो न᳚न॒क्षे अ॒भ्योज᳚सा॒ क्रिविं᳚ व॒धैः शुष्णं᳚ निघो॒षय᳚न् ।
य॒देदस्त᳚म्भीत्प्र॒थय᳚न्न॒मूं दिव॒मादिज्ज᳚निष्ट॒ पार्थि᳚वः ॥
▶ पदपाठः (Word-by-word)
प्र । यः । न॒न॒क्षे । अ॒भि । ओज᳚सा । क्रिवि᳚म् । व॒धैः । शुष्ण᳚म् । नि॒॑घो॒षय᳚न् ।
य॒दा । इत् । अस्त᳚म्भीत् । प्र॒थय᳚न् । अ॒मूम् । दिव᳚म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.9
यस्या॒यं विश्व॒ आर्यो॒ दासः᳚ शेवधि॒पा अ॒रिः ।
ति॒रश्चि᳚द॒र्ये रुश᳚मे॒ परी᳚रवि॒ तुभ्येत्सो अ᳚ज्यते र॒यिः ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अ॒यम् । विश्वः᳚ । आर्यः᳚ । दासः᳚ । शे॒व॒धि॒॑पाः । अ॒रिः ।
ति॒रः । चि॒त् । अ॒र्ये । रुश᳚मे । पवी᳚रवि । तुभ्य᳚ । इत् । सः । अ॒ज्य॒ते॒ । र॒यिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.51.10
तु॒र॒ण्यवो॒ मधु᳚मन्तं घृत॒श्चुतं॒ विप्रा᳚सो अ॒र्कमा᳚नृचुः ।
अ॒स्मे र॒यिः प᳚प्रथे॒ वृष्ण्यं॒ शवो॒॑स्मे सु᳚वा॒नास॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
तु॒र॒ण्यवः᳚ । मधु᳚॑मन्तम् । घृ॒त॒॑श्चुत᳚म् । विप्रा᳚सः । अ॒र्कम् । आ॒नृ॒चुः॒ ।
अ॒स्मे इति᳚ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य᳚म् । शवः᳚ । अ॒स्मे इति᳚ । सु॒वा॒नासः᳚ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty