उ॒क्थैरिन्द्र᳚स्य॒ माहि᳚नं॒ वयो᳚ वर्धन्ति सो॒मिनो᳚ भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
पदपाठः (Word-by-word)
उ॒क्थैः । इन्द्र᳚स्य । माहि᳚नम् । वयः᳚ । व॒र्ध॒न्ति॒ । सो॒मिनः᳚ । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अस्माइन्द्रायोपस्तुतिंउपेत्यक्रियमाणांस्तुतिं प्रोभरत प्रकर्षेण संपादयत हे ऋत्विजः । यद्यदि अयमिन्द्रो जुजोषति सेवते तर्हि भरतेति । सोमिनः सोमप्रियस्येन्द्रस्य स्वभूतं माहिनं महत् वयोन्नं सोमलक्षणं उक्थैः शस्त्रैः वर्धन्ति वर्धयन्ति भद्राः स्तुत्यानि खल्विन्द्रस्य रातयो दानानि ॥ १ ॥