अ॒यु॒जो अस᳚मो॒ नृभि॒रेकः᳚ कृ॒ष्टीर॒यास्य᳚ः ।
पू॒र्वीरति॒ प्र वा᳚वृधे॒ विश्वा᳚ जा॒तान्योज᳚सा भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
पू॒र्वीरति॒ प्र वा᳚वृधे॒ विश्वा᳚ जा॒तान्योज᳚सा भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
पदपाठः (Word-by-word)
अ॒यु॒जः । अस᳚मः । नृ॑भिः᳚ । एकः᳚ । कृ॒ष्टीः । अ॒यास्यः᳚ ।
पू॒र्वीः । अति᳚ । प्र । व॒वृ॒धे॒ । विश्वा᳚ । जा॒तानि᳚ । ओज᳚सा । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
पू॒र्वीः । अति᳚ । प्र । व॒वृ॒धे॒ । विश्वा᳚ । जा॒तानि᳚ । ओज᳚सा । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयुजः असहायः असमः असदृशोन्यैर्नृभिर्देवैः एकोमुख्यः अयास्यः उपक्षपयितुमशक्यः पूर्वीः कृष्टीः पूर्वतन्यः प्रजाः अतिप्रववृधे अति प्रवर्धते । किञ्च विश्वा सर्वाणि जातानि इदानीमुत्पन्नानि ओजसा बलेनातिप्रवावृधे भद्राइन्द्रस्यरातयः । अथवा यमृषिरयुजोसहायोन्यैरसदृशएकएव सन् पूर्वीः प्रजाः जातानि सर्वाण्यप्यतिक्रम्य वर्धते । शिष्टं समानम् ॥ २ ॥