अष्टमं मण्डलम् - सूक्तम् 25

24 ऋचः

ऋषिः: विश्वमना वैयश्वः देवता: मित्रावरुणौ छन्दः: उष्णिक्

सूक्तम् 8.25 - सम्पूर्णम्

1 / 24
ऋक्: 8.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (24)
8.25.1
ता वां॒ विश्व᳚स्य गो॒पा दे॒वा दे॒वेषु᳚ य॒ज्ञिया᳚ ।
ऋ॒तावा᳚ना यजसे पू॒तद᳚क्षसा ॥
▶ पदपाठः (Word-by-word)
ता । वा॒म् । विश्व᳚स्य । गो॒पा । दे॒वा । दे॒वेषु᳚ । य॒ज्ञिया᳚ ।
ऋ॒त॑वा᳚ना । य॒ज॒से॒ । पू॒त॑द᳚क्षसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ विश्वस्य सर्वस्य लोकस्य गोपा गोपायितारौ देवा देवौ द्योतनशीलौ देवेषु मध्ये यज्ञिया यज्ञार्हौ ता तौ तादृशौ वां युवां हविःप्रदा- नार्थं यजमानंभजथः अतएव हे विश्वमनाः ऋतावाना ऋतावानौ सत्यवन्तौ यज्ञवन्तौ यज्ञवन्तौवा पूतदक्षसा पूतदक्षसौ शुद्धबलौ । आवां बलव- न्ताविति वचनमात्रेण बलवन्तौ न भवतः । किन्तु यथार्थत्वेन सामर्थ्यवंतौ मित्रावरुणौ यजसे हविर्भिः पूजयसि ॥ १ ॥

8.25.2
मि॒त्रा तना॒ न र॒थ्या॒३॒᳚ वरु᳚णो॒ यश्च᳚ सु॒क्रतु᳚ः ।
स॒नात्सु᳚जा॒ता तन᳚या धृ॒तव्र᳚ता ॥
▶ पदपाठः (Word-by-word)
मि॒त्रा । तना᳚ । न । र॒थ्या᳚ । वरु᳚णः । यः । च॒ । सु॒॑क्रतुः᳚ ।
स॒नात् । सु॒॑जा॒ता । तन᳚या । धृ॒त॑व्र᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुक्रतुः शोभनकर्मा योवरुणः सुकर्मा मित्रश्च मित्रावरुणौ कीदृशौ तना तन्वन्ति मुकुटकटकादिनेति तनानि धनानि नश्चार्थे धनानिच रथया रथयौ नेतारौ । यद्वा धनानि कर्मणः कर्तृपक्षत्वात् प्रयच्छन्ताविति संबध्यते । तादृशौ रथयौ रथवन्तौ सनाच्चिरादेव सुजाता सुजातौ शोभनजन्मानौ तदे- वाह तनया तनयौ अदितेः पुत्रौ धृतव्रता धृतव्रतौ धृतकर्माणौ तौ यजसइति पूर्वेणसमन्वयः ॥ २ ॥

8.25.3
ता मा॒ता वि॒श्ववे᳚दसासु॒र्या᳚य॒ प्रम᳚हसा ।
म॒ही ज᳚जा॒नादि᳚तिरृ॒ताव᳚री ॥
▶ पदपाठः (Word-by-word)
ता । मा॒ता । वि॒श्व॑वे᳚दसा । अ॒सु॒र्या᳚य । प्र॑म᳚हसा ।
म॒ही । ज॒जा॒न॒ । अदि᳚तिः । ऋ॒त॑व᳚री ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितेस्तनयत्वमेव स्फुटयति-विश्ववेदसा विश्ववेदसौ सर्वधनौ यद्वा विश्वानि स्थावरजंगमात्मकानि सर्वाणि विदतुर्जानीतइति विश्ववेदसौ प्रमह- सा प्रमहसौ प्रकृष्टतेजस्कौ ता तौ तादृशौ मित्रावरुणौ मही महती ऋतावरी सत्यवती माता देवमाता अदितिः जजान जनयामास । किमर्थं असु- र्याय असुराणां हन्त्रे बलाय असुरान्हंतुमुत्पादितवतीत्यर्थः ॥ ३ ॥

8.25.4 समानपद
म॒हान्ता᳚ मि॒त्रावरु᳚णा स॒म्राजा᳚ दे॒वावसु᳚रा ।
ऋ॒तावा᳚नावृ॒तमा घो᳚षतो बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
म॒हान्ता᳚ । मि॒त्रावरु᳚णा । स॒म्॑राजा᳚ । दे॒वौ । असु᳚रा ।
ऋ॒त॑वा᳚नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महान्ता गुणाधिक्येन महान्तौ सम्राजौ सम्यग्दीप्यमानौ असुरा असुरौ बलवन्तौ यद्वा सर्वान्तर्यामितया प्रेरकौ ऋतावानौ सत्यवन्तौ मित्रावरुणौ देवौ बृहत् स्तोत्रशस्त्रादिना महान्तं ऋतं यज्ञमाघोषतः स्वदीप्त्या प्रकाशयतः घुषेर्लटिरूपम् ॥ ४ ॥

8.25.5
नपा᳚ता॒ शव᳚सो म॒हः सू॒नू दक्ष᳚स्य सु॒क्रतू᳚ ।
सृ॒प्रदा᳚नू इ॒षो वास्त्वधि᳚ क्षितः ॥
▶ पदपाठः (Word-by-word)
नपा᳚ता । शव᳚सः । म॒हः । सू॒नू इति᳚ । दक्ष᳚स्य । सु॒क्रतू॒ इति᳚ सु॒॑क्रतू᳚ ।
सृ॒प्रदा᳚नू॒ इति᳚ सृ॒प्र॑दा᳚नू । इ॒षः । वास्तु᳚ । अधि᳚ । क्षि॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महोमहतः शवसोबलस्यनपाता नपातौ पौत्रौ बलेनोत्पादिताविति बलस्य पौत्रौ तादृशा दक्षस्य । दक्षवृद्धौ शीघ्रार्थेचेति दक्षोवेगः । तस्य सूनू पुत्रौ । बलाद्वेगइति तयोःपुत्रत्वम् । तौ सुक्रतू शोभनकर्माणौ सृप्रदानू प्रसृतधनादिदानौ मित्रावरुणौ इषोन्नस्य वास्तु निवासस्थाने अधिक्षितः अधिवसतः । अधिशीङिति वास्तुनः कर्मसंज्ञा क्षयतेर्लटि छान्दसोविकरणस्यलुक् ॥ ५ ॥

8.25.6
सं या दानू᳚नि ये॒मथु᳚र्दि॒व्याः पार्थि᳚वी॒रिषः᳚ ।
नभ᳚स्वती॒रा वां᳚ चरन्तु वृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । या । दानू᳚नि । ये॒मथुः᳚ । दि॒व्याः । पार्थि᳚वीः । इषः᳚ ।
नभ᳚स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ या यौ युवां दानूनि देयानि धनानि संयेमथुः अस्मासु संयच्छतं तथा दिव्यानि दिविभवानि पार्थिवीः पृथिव्यामुत्पन्नानि इषोन्नानि संयच्छतं वृष्ट्यभावे कथमन्नंलभ्यतइतिचेत् तदुच्यते-नभस्वतीः उदकवत्योवृष्टयः तादृशौ वां युवां आचरन्तूपतिष्ठन्तु ॥ ६ ॥

8.25.7
अधि॒ या बृ᳚ह॒तो दि॒वो॒३॒᳚॑भि यू॒थेव॒ पश्य᳚तः ।
ऋ॒तावा᳚ना स॒म्राजा॒ नम᳚से हि॒ता ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । या । बृ॒ह॒तः । दि॒वः । अ॒भि । यू॒था॑इ᳚व । पश्य᳚तः ।
ऋ॒त॑वा᳚ना । स॒म्॑राजा᳚ । नम᳚से । हि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

या यौ मित्रावरुणौ बृहता दिवोद्योतमानान् देवानधिपश्यतः । तत्रदृष्टान्तः-यूथेव यथा वृषभः गोयूथानिरन्तुमभि अभिमुखं पश्यति तद्वदेतौ स्ववी- र्येणासुरान् हत्वा देवान्मोदयितुं पश्यतइत्यर्थः । कीदृशौ ऋतावाना सत्यवन्तौ सम्राजा सम्राजौ सम्यग्दीप्यमानौ नमसे हविषे हिता हितौ प्रियौ पश्यतइति ॥ ७ ॥

8.25.8
ऋ॒तावा᳚ना॒ नि षे᳚दतु॒ः साम्रा᳚ज्याय सु॒क्रतू᳚ ।
धृ॒तव्र᳚ता क्ष॒त्रिया᳚ क्ष॒त्रमा᳚शतुः ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚ना । नि । से॒द॒तुः॒ । साम्॑रा᳚ज्याय । सु॒क्रतू॒ इति᳚ सु॒॑क्रतू᳚ ।
धृ॒त॑व्र᳚ता । क्ष॒त्रिया᳚ । क्ष॒त्रम् । आ॒श॒तुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावाना ऋतावानौ सत्यवन्तौ सुक्रतू शोभनकर्माणौ सुप्रज्ञौवा मित्रावरुणौ साम्राज्याय साम्राज्यार्थं निषीदतुः न्यसीदताम् । तथामन्त्रः-निषसा- दधृतव्रतोवरुणःपस्त्यास्वा । साम्राज्यायसुक्रतुरिति । धृतव्रता धृतव्रतौ धृतकर्माणौ क्षत्रिया क्षत्रियौ बलवन्तौ क्षत्रं बलमाशतुः आनशाते व्याप्नुत- इअत्यर्थः ॥ ८ ॥

8.25.9
अ॒क्ष्णश्चि᳚द्गातु॒वित्त᳚रानुल्ब॒णेन॒ चक्ष᳚सा ।
नि चि᳚न्मि॒षन्ता᳚ निचि॒रा नि चि᳚क्यतुः ॥
▶ पदपाठः (Word-by-word)
अ॒क्ष्णः । चि॒त् । गा॒तु॒वित्॑त᳚रा । अ॒नु॒ल्ब॒णेन᳚ । चक्ष᳚सा ।
नि । चि॒त् । मि॒षन्ता᳚ । नि॒॑चि॒रा । नि । चि॒क्य॒तुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्ष्णश्चित् चक्षुषोपि पूर्वं गातुवित्तरौ अतिशयेन मार्गवेत्तारौ यद्वा गातुवित्तरौ गातु गमनशीलं प्राणिजातं चक्षुषोपि पूर्वं वेत्तारौ मित्रावरुणौ कीदृशौ निमिषन्ता निमिषन्तौ सर्वमुन्मेषयन्तौ स्वस्वकर्मणि निचिरा नितरां चिरंतनौ तौ अनुल्बणेन उल्ब्रणमिति दुःसहमग्नेस्तेजः तद्वत् दुःसहेन चक्षसाहोरात्रयोर्व्याप्तेन तेजसैव निचिक्यतुः पूजितौ बभूवतुः । चिदवधारणे ॥ ९ ॥

8.25.10
उ॒त नो᳚ दे॒व्यदि᳚तिरुरु॒ष्यतां॒ नास᳚त्या ।
उ॒रु॒ष्यन्तु᳚ म॒रुतो᳚ वृ॒द्धश᳚वसः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । दे॒वी । अदि᳚तिः । उ॒रु॒ष्यता᳚म् । नास᳚त्या ।
उ॒रु॒ष्यन्तु᳚ । म॒रुतः᳚ । वृ॒द्ध॑श᳚वसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच देवी द्योतनशीला अदितिर्मित्रावरुणयोर्माता नोस्मान्रक्षतु नासत्या नासत्यौ असत्यमनयोर्नास्तीति नासत्यौ अश्विनौच उरुष्यतां रक्षताम् । उरुष्यतिः कंड्वादिः वृद्धश्रवसः वृद्धवेगा अतिशयेन वेगवन्तइत्यर्थः यद्वा वर्धनशीलहविर्लक्षणान्नोपेताः मरुतः उरुष्यन्तु अस्मान्पालयन्तु ॥ १० ॥

8.25.11
ते नो᳚ ना॒वमु᳚रुष्यत॒ दिवा॒ नक्तं᳚ सुदानवः ।
अरि᳚ष्यन्तो॒ नि पा॒युभि᳚ः सचेमहि ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा᳚ । नक्त᳚म् । सु॒॑दा॒न॒वः॒ ।
अरि᳚ष्यन्तः । नि । पा॒यु॑भिः᳚ । स॒चे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः शोभनदानामरुतः अरिष्यन्तः केनाप्यहिंसिताः ते तादृशायूयं नोस्मदीयां नावं यज्ञियां नावं दिवानक्तंच उरुष्यत पालयत । ततोवयं पायुभिर्युष्मदीयैः पालनैः निसचेमहि नितरां समवेताभवेम ॥ ११ ॥

8.25.12
अघ्न᳚ते॒ विष्ण᳚वे व॒यमरि᳚ष्यन्तः सु॒दान᳚वे ।
श्रु॒धि स्व᳚यावन्त्सिन्धो पू॒र्वचि᳚त्तये ॥
▶ पदपाठः (Word-by-word)
अघ्न᳚ते । विष्ण᳚वे । व॒यम् । अरि᳚ष्यन्तः । सु॒॑दान᳚वे ।
श्रु॒धि । स्व॒॑या॒व॒न् । सि॒न्धो॒ इति᳚ । पू॒र्व॑चि᳚त्तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वार्धर्चः परोक्षकृतः अरिष्यन्तःपालनवत्वात् केनाप्यबाधितावयं अघ्नते स्तोतृणां यष्टृणा चाहिन् काय सुदानवे शोभनदानाय विष्णवे स्वमहत्त्वेन सर्वव्यापकाय एतन्नामकाय देवाय स्तुतिं कुमः । अथ प्रत्यक्षः हे स्वयावन् स्वयमेवासहायः सन् दिवि संग्रामेवा यातीति स्वयावन् सिन्धो स्तोतृन् प्रति धनानां स्यन्दनशील विष्णो पूर्वचित्तये न्वित्तिः कर्म मन्त्रान्तरेपि तथाश्रवणात् । साचित्तिभिर्निहिचकारमर्त्यमिति । पूर्वं प्रारब्धकर्मणे यज- मानाय तदर्थं श्रुधि अस्माभिः क्रियमाणां स्तुतिं त्वं शृणु ॥ १२ ॥

8.25.13
तद्वार्यं᳚ वृणीमहे॒ वरि᳚ष्ठं गोप॒यत्य᳚म् ।
मि॒त्रो यत्पान्ति॒ वरु᳚णो॒ यद᳚र्य॒मा ॥
▶ पदपाठः (Word-by-word)
तत् । वार्य᳚म् । वृ॒णी॒म॒हे॒ । वरि᳚ष्ठम् । गो॒प॒यत्य᳚म् ।
मि॒त्रः । यत् । पान्ति᳚ । वरु᳚णः । यत् । अ॒र्य॒मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरिष्ठं उरुतरं गोपयत्यं सर्वेषां रक्षकं सर्वैः पालनीयं वा वार्यं सर्वैर्वननीयं तद्धनं वृणीमहे वयं संभजामहे । यद्धनं मित्रः सर्वेषां मित्रभूतः वरुणः शत्रूणां वारयिता अर्यमा सर्वदागच्छन् एतन्नामकास्त्रयोदेवाः पांति पालयन्ति तद्धनं वृणीमहे अस्मदीयस्य धनस्य रक्षकाभवन्तीत्यर्थः ॥ १३ ॥

8.25.14
उ॒त न॒ः सिन्धु᳚र॒पां तन्म॒रुत॒स्तद॒श्विना᳚ ।
इन्द्रो॒ विष्णु᳚र्मी॒ढ्वांसः᳚ स॒जोष᳚सः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । सिन्धुः᳚ । अ॒पाम् । तत् । म॒रुतः᳚ । तत् । अ॒श्विना᳚ ।
इन्द्रः᳚ । विष्णुः᳚ । मी॒ढ्वांसः᳚ । स॒॑जोष᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनरपि धनरक्षणमेवाशास्ते उतापिच अपामुदकानां सिन्धुः स्यन्दनशीलः पर्जन्यः नोस्मदीयं तद्धनं रक्षतु तदेव मरुतश्च पालयन्तु अश्विना अश्वि- नौ देवौ तद्धनं पालयताम् । तथा इन्द्रोविष्णुश्च मिढ्वांसः कामानां सेक्तारएत सर्वेदेवाः सजोषसः संगताः संतः अस्मदीयं धनं रक्षन्तु एतेदेवा अस्मभ्यं धनं दत्वा पालयन्त्वित्यर्थः ॥ १४ ॥

8.25.15
ते हि ष्मा᳚ व॒नुषो॒ नरो॒॑भिमा᳚तिं॒ कय᳚स्य चित् ।
ति॒ग्मं न क्षोदः᳚ प्रति॒घ्नन्ति॒ भूर्ण᳚यः ॥
▶ पदपाठः (Word-by-word)
ते । हि । स्म॒ । व॒नुषः᳚ । नरः᳚ । अ॒भि॑मा᳚तिम् । कय᳚स्य । चि॒त् ।
ति॒ग्मम् । न । क्षोदः᳚ । प्र॒ति॒॑घ्नन्ति᳚ । भूर्ण᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनुषः वननीयाः संभजनीयाः नरो नेतारस्तेहिष्म तेखलु देवाः भूर्णयः क्षिप्रगमनाः सन्तः कयस्यचित्कस्यचिच्छत्रोरभिमातिमभिमानं प्रतिघ्नन्ति प्रतिकूलं यथाभवति तथा हिंसन्ति । तत्रदृष्टान्तः-तिग्मंन यथा तिग्मं तीक्ष्णं जवेन गच्छत् क्षोदः उदकं अग्रतः स्थितं वृक्षमुन्मूलयति तद्वत् तस्याभि- मानं घ्नन्तीत्यर्थः ॥ १५ ॥

8.25.16
अ॒यमेक᳚ इ॒त्था पु॒रूरु च᳚ष्टे॒ वि वि॒श्पति᳚ः ।
तस्य᳚ व्र॒तान्यनु᳚ वश्चरामसि ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । एकः᳚ । इ॒त्था । पु॒रु । उ॒रु । च॒ष्टे॒ । वि । वि॒श्पतिः᳚ ।
तस्य᳚ । व्र॒तानि᳚ । अनु᳚ । वः॒ । च॒रा॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रस्य कर्माण्याह विश्पतिः विशां पालयिता अनयोर्मित्रावरुणयोरेकः अयं मित्रः पुरु पुरूणि बहूनिच उरु उरूणिच द्रव्याणि इत्था इत्थं विचष्टे स्वतेजसा पश्यति तस्य मित्रस्य व्रतानि कर्माणि वोयुष्मदर्थं अनुचरामसि अनुचरामः कुर्मइत्यर्थः ॥ १६ ॥

8.25.17
अनु॒ पूर्वा᳚ण्यो॒क्या᳚ साम्रा॒ज्यस्य᳚ सश्चिम ।
मि॒त्रस्य᳚ व्र॒ता वरु᳚णस्य दीर्घ॒श्रुत् ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । पूर्वा᳚णि । ओ॒क्या᳚ । सा॒म्॑रा॒ज्यस्य᳚ । स॒श्चि॒म॒ ।
मि॒त्रस्य᳚ । व्र॒ता । वरु᳚णस्य । दी॒र्घ॒॑श्रुत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

साम्राज्यस्य सम्राजोभावः साम्राज्यं साम्राज्यमस्यास्तीति साम्राज्यः अर्शआदिभ्यइत्यच् प्रत्ययः साम्राज्यवतोवरुणस्य पूर्वाणि पुरातनानि ओक्या ओकोगृहं तस्मै हितानि कर्माणि वयं सश्चिम । सश्चतिर्गतिकर्मा लिटिरूपं द्विर्वचनस्य छन्दसिविकल्पितत्वादत्रद्विर्वचनाभावः । तदेवाह मित्रस्य व्रता व्रतानि कर्माणिच दीर्घश्रुत् सुपांसुलुगिति षष्ठ्यालुक् दीर्घश्रुतः अतिशयेन प्रसिद्धस्य वर्षणस्य व्रतानिवा सश्चिमेति ॥ १७ ॥

8.25.18
परि॒ यो र॒श्मिना᳚ दि॒वो॑न्ता᳚न्म॒मे पृ᳚थि॒व्याः ।
उ॒भे आ प᳚प्रौ॒ रोद᳚सी महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
परि᳚ । यः । र॒श्मिना᳚ । दि॒वः । अन्ता᳚न् । म॒मे । पृ॒थि॒व्याः ।
उ॒भे इति᳚ । आ । प॒प्रौ॒ । रोद᳚सी॒ इति᳚ । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

योमित्रः दिवः पृथिव्याः द्यावापृथिव्योरन्तान् अन्तरान् रश्मिना स्वतेजसा परिममे परिमिनोति तयोः पर्यन्तान् स्वरश्मिना भासयतीत्यर्थः । सएवउभेरोदसी द्यावापृथिव्यौ महित्वा स्वमहिम्रा आपप्रौ आसमन्तात्पूरयति ॥ १८ ॥

8.25.19
उदु॒ ष्य श᳚र॒णे दि॒वो ज्योति᳚रयंस्त॒ सूर्य᳚ः ।
अ॒ग्निर्न शु॒क्रः स᳚मिधा॒न आहु᳚तः ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्यः । श॒र॒णे । दि॒वः । ज्योतिः᳚ । अ॒यं॒स्त॒ । सूर्यः᳚ ।
अ॒ग्निः । न । शु॒क्रः । स॒म्॑इ॒धा॒नः । आ॑हु᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यः सुवीर्यः सुष्ठु सर्वस्यप्रेरकः स्यः समित्रोवरुणश्च दिवोद्योतमानस्यादित्यस्य शरणे स्थाने नभसि ज्योतिरात्मीयं तेजः उदयंस्त उद्यच्छति ऊर्ध्वं गमयति सर्वत्र विस्तारयतीत्यर्थः । यमेर्लुङिरूपम् । ततः सः अग्निर्न शुक्रः अग्निरिव दीप्यमानः समिधानः हविर्भिः समिध्यमानः आहुतः सर्वैराहूतस्तिष्ठति ॥ १९ ॥

8.25.20 समानपद
वचो᳚ दी॒र्घप्र᳚सद्म॒नीशे॒ वाज᳚स्य॒ गोम᳚तः ।
ईशे॒ हि पि॒त्वो᳚॑वि॒षस्य᳚ दा॒वने᳚ ॥
▶ पदपाठः (Word-by-word)
वचः᳚ । दी॒र्घ॑प्र᳚सद्मनि । ईशे᳚ । वाज᳚स्य । गो॑म᳚तः ।
ईशे᳚ । हि । पि॒त्वः । अ॒वि॒षस्य᳚ । दा॒वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः दीर्घप्रसद्मनि दीर्घं प्रततं विस्तृतं सद्म सदनं यस्मिन्यज्ञे वचः मित्रं वरुणं च स्तुहि वक्तेर्लेट्यडागमः । सवरुणः गोमतः पशुमतः वाजस्या- न्नस्य ईशे ईष्टे स्वामीभवति । केवलं स्वामी न भवति किन्तु अविषस्य महतः प्रीतिकारिणः पित्वोन्नस्य दावने दानायच ईशे समर्थोभवति ये स्तोत्रंकुर्वन्ति तेभ्योन्नंददातीत्यर्थः ॥ २० ॥

8.25.21
तत्सूर्यं॒ रोद᳚सी उ॒भे दो॒षा वस्तो॒रुप᳚ ब्रुवे ।
भो॒जेष्व॒स्मा{4} अ॒भ्युच्च᳚रा॒ सदा᳚ ॥
▶ पदपाठः (Word-by-word)
तत् । सूर्य᳚म् । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । दो॒षा । वस्तोः᳚ । उप᳚ । ब्रु॒वे॒ ।
भो॒जेषु᳚ । अ॒स्मान् । अ॒भि । उत् । च॒र॒ । सदा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यं सुवीर्यं तत् वारुणं मैत्रच्च तेजः उभे रोदसी द्यावापृथिव्यौ च । दोषा सुपांसुलुगिति द्वितीयायालुक् कालाध्वनोरितिद्वितीया । रात्रौ वस्तोः अ- हनि चाहमुपब्रुवे उप्स्तौमि त्वं स्तूयमानोवरुणः भोजेषु दातृष्वस्मान् सदाभ्युच्चर सर्वदाभिमुखंप्रेरय दातृष्वेतेषां दानेष्वस्मान् पुरोभाविनः कुर्वित्यर्थः ॥ २१ ॥

8.25.22 समानपद
ऋ॒ज्रमु᳚क्ष॒ण्याय᳚ने रज॒तं हर᳚याणे ।
रथं᳚ यु॒क्तम᳚सनाम सु॒षाम᳚णि ॥
▶ पदपाठः (Word-by-word)
ऋ॒ज्रम् । उ॒क्ष॒ण्याय᳚ने । र॒ज॒तम् । हर᳚याणे ।
रथ᳚म् । यु॒क्तम् । अ॒स॒ना॒म॒ । सु॒॑साम᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुषाम्णः पुत्रोवरुर्नामराजा सयद्दानं प्रादाद्विश्वमनसे तदसौ विश्वमनाऋषिरनयाचष्टे उक्षण्यायने उक्षनामाकश्चिद्वरोः पूर्वजः तस्य गोत्रापत्ये । उक्षणशब्दात् ण्यः तदन्तात् फक् प्रत्ययः एतौ छान्दसौ वृद्ध्यभावोपि संज्ञापूर्वकोविधिरनित्यइतिनभवति । तस्य गोत्रापत्ये हरयाणे शत्रुजीवितै- श्वर्यादि हरणशीले याने एतादृशे सुषामणि बहुवत्पितृशब्देन पुत्रोभिधीयते सुषाम्णः पुत्रे वरौ राजनि ददति सति किमभूत् ऋज्रं ऋजुगामिनं रज- तं रजतमयं रजतसदृशं वा युक्तं अश्वाभ्यांयुक्तं रथमसनाम एतेषां मित्रादीनां प्रसादाद्वयं संभक्तवन्तोलब्धवन्तोभूम ॥ २२ ॥

8.25.23
ता मे॒ अश्व्या᳚नां॒ हरी᳚णां नि॒तोश᳚ना ।
उ॒तो नु कृत्व्या᳚नां नृ॒वाह᳚सा ॥
▶ पदपाठः (Word-by-word)
ता । मे॒ । अश्व्या᳚नाम् । हरी᳚णाम् । नि॒॑तोश᳚ना ।
उ॒तो इति᳚ । नु । कृत्व्या᳚नाम् । नृ॒॑वाह᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः प्रतिगृहीतावश्वावाह हरीणां हरितवर्णानामश्व्यानामश्वसंघानां मध्ये नितोशना नितोशनौ तोशतिर्हिंसाकर्मा शत्रूणामत्यन्तं बाधकृतौ उतो अपिच कृत्व्यानां युद्धकर्मणि कुशलानांच कुशलमिति बाधकौ नृवाहसा नृवाहसौ आयुधनेतृणां मनुष्याणां वोढारौ ता तावश्वौ मे मह्यं नु क्षिप्रं सौषाम्णेन वरुणा दत्तौ भवेतम् ॥ २३ ॥

8.25.24 समानपद
स्मद᳚भीशू॒ कशा᳚वन्ता॒ विप्रा॒ नवि᳚ष्ठया म॒ती ।
म॒हो वा॒जिना॒वर्व᳚न्ता॒ सचा᳚सनम् ॥
▶ पदपाठः (Word-by-word)
स्मद᳚भीशू॒ इति॒ स्मत्॑अ᳚भीशू । कशा᳚॑वन्ता । विप्रा᳚ । नवि᳚ष्ठया । म॒ती ।
म॒हः । वा॒जिनौ᳚ । अर्व᳚न्ता । सचा᳚ । अ॒स॒न॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरिदानीं तावश्वावग्रहीषमित्याह स्मदभीशू स्मत् सुमत् उकारलोपश्छान्दसः शोभनरज्जुयुक्तौ यद्वा शोभनस्वशरीरकान्ती कशावन्ता कशाव- न्तौ कशायुक्तौ विप्रा विप्रौ मेधाविनामुचितौ मेधावी स्तोता यथा स्तुत्यं देवं स्तुतिभिः प्रीणयति तद्वत् सन्तोषकौ महोमहतः सौषाम्णस्य वरोः संबन्धिनौ वाजिनौ शीघ्रगमनवन्तौ अर्वन्ता अर्वन्तौ द्वावश्वौ सचाशह युगपदेव नविष्ठया नवतरया मती मत्या स्तुत्या मित्रादीन् स्तुवन् असनं विश्वमना अहं समभजं प्रत्यग्रहीषमित्यर्थः ॥ २४ ॥