श्रवणम्

8.25.22 समानपद
ऋ॒ज्रमु᳚क्ष॒ण्याय᳚ने रज॒तं हर᳚याणे ।
रथं᳚ यु॒क्तम᳚सनाम सु॒षाम᳚णि ॥
▶ पदपाठः (Word-by-word)
ऋ॒ज्रम् । उ॒क्ष॒ण्याय᳚ने । र॒ज॒तम् । हर᳚याणे ।
रथ᳚म् । यु॒क्तम् । अ॒स॒ना॒म॒ । सु॒॑साम᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुषाम्णः पुत्रोवरुर्नामराजा सयद्दानं प्रादाद्विश्वमनसे तदसौ विश्वमनाऋषिरनयाचष्टे उक्षण्यायने उक्षनामाकश्चिद्वरोः पूर्वजः तस्य गोत्रापत्ये । उक्षणशब्दात् ण्यः तदन्तात् फक् प्रत्ययः एतौ छान्दसौ वृद्ध्यभावोपि संज्ञापूर्वकोविधिरनित्यइतिनभवति । तस्य गोत्रापत्ये हरयाणे शत्रुजीवितै- श्वर्यादि हरणशीले याने एतादृशे सुषामणि बहुवत्पितृशब्देन पुत्रोभिधीयते सुषाम्णः पुत्रे वरौ राजनि ददति सति किमभूत् ऋज्रं ऋजुगामिनं रज- तं रजतमयं रजतसदृशं वा युक्तं अश्वाभ्यांयुक्तं रथमसनाम एतेषां मित्रादीनां प्रसादाद्वयं संभक्तवन्तोलब्धवन्तोभूम ॥ २२ ॥