त्वाव᳚तः पुरूवसो व॒यमि᳚न्द्र प्रणेतः ।
स्मसि᳚ स्थातर्हरीणाम् ॥
त्वा॑व᳚तः । पु॒रु॒व॒सो॒ इति᳚ पुरु॑वसो । व॒यम् । इ॒न्द्र॒ । प्र॒ने॒त॒रिति᳚ प्र॑नेतः ।
स्मसि᳚ । स्था॒तः॒ । ह॒री॒णा॒म् ॥
तत्रत्वावतइतित्रयस्त्रिंशदृचं चतुर्थंसूक्तम् अश्वपुत्रस्य वशाख्यस्यार्षं प्राग्वत्सप्रपरिभाषया आद्याश्चतस्रोगायत्र्यःतत्राद्या पादनिचृत् त्रयःसप्तकाः पादनिचृत् इत्युक्तलक्षणोपेतत्वात् । दधानोगोमदश्ववदित्येषा पञ्चमीककुपू अष्टकद्वादशाष्टकैःपादैरुपेतत्वात् मध्यमश्चेत्ककुबिति हि तल्लक्षणं तमिन्द्रमितिषष्ठी गायत्री । तस्मिन् हिसन्तीतिसप्तमी बृहती यस्तेमदइत्यष्टम्यनुष्टुपू योदुष्टरइतिनवमी सतोबृहती अयुजौजागतौसतोबृहतीतिह्यु- क्तम् गव्योषुणइतिदशमी गायत्री नहितेशूरेत्येकादशी बृहती यऋष्वइतिद्वादशी विपरीतासतोबृहती प्रथमतृतीययोरष्टाक्षरवती द्वितीयचतुर्थयो- र्द्वादशाक्षराच युजौचेद्विपरीतेत्युक्तत्वात् । सनोवाजेष्वितित्रयोदशी चतुर्विंशत्यक्षराद्विपदा । अभिवोवीरमितिचतुर्दशी पिपीलिकमध्या बृहती त्र- योदशिनोर्मध्येष्टकः पिपीलिकमध्येत्युक्तत्वात् । ददीरेक्णइतिपञ्चदशी ककुम्न्यंकुशिरा त्रैष्टुभजागतचतुष्काः ककुम्न्यंकुशिरेत्युक्तत्वात् । विश्वेषामि- तिषोडशीविराट् महःसुवइति सप्तदशी जगती येपातयन्तइत्यष्टादशी उपरिष्टाद्बृहती चतुर्थपादस्यद्वादशाक्षरत्वात् प्रभङ्गमित्येकोनविंशी बृहती सनितःसुसनितरितिविंशी विषमपदाबृहती नवकाष्ट्येकादश्यष्टिनोविषमपदेत्युक्तत्वात् आसएतु षष्टिंसहस्रेत्येकविंशीद्वाविंश्यौ पंक्ती दशश्यावाइ- ति त्रयोविंशीगायत्री दानासइतिचतुर्विंशीपंक्तिः पञ्चविंशीसप्तविंश्यौबृहत्यौ षड्विंश्यष्टाविंश्यौसतोबृहत्यौ । एकोनत्रिंशीगायत्री गावोनयूथमि- तित्रिंशी विशत्यक्षरा द्विपदा विराट् एकत्रिंश्युष्णिक् द्वात्रिंशीपंक्तिः त्रयस्त्रिंशीगायत्री । आसएत्वित्यादिभिश्चतसृभिः कनीतपुत्रस्य पृथुश्रवसोदानं- स्तूयते अतस्तद्देवताकाः । आनोवायवित्यादीनां चतसृणां द्वात्रिंश्याश्च वायुर्देवता । शिष्टाअनादेशपरिभाषयेन्द्रदेवताकाः । एतत्सर्वमनुक्रमण्यामु- क्तम् त्वावतस्त्रयस्त्रिंशद्वशोश्व्य आसआदि कानीतस्य पृथुश्रवसोदानस्तुतिराद्यापादनिचृत् पञ्चम्यादि ककुप् गायत्री बृहत्यनुष्टुप् सतोबृहती गायत्री विपरीतोत्तरः प्रगाथो द्विपदाचतुर्विंशिका बृहती पिपीलिकमध्या ककुम्न्यंकुशिरा विराट् जगत्युपरिष्टाद्बृहतीबृहत्यौ विषमपदोत्तरे पङ्क्तीगाय- त्रीपङ्क्तिप्रगाथौ च वायव्यौ गायत्रीद्विपदोष्णिक्पंक्तिर्वायव्यगायत्रीति । महाव्रते निष्केवल्ये सनितःसुसनितरित्यन्तमेवसूक्तम् । तथाच पञ्चमार- ण्यकेशौनकेनसूत्रितम्-त्वावतः पुरूवसवितिवशः सनितःसुसनितरित्येतदन्तइति ।
हे पुरूवसो बहुधनेन्द्र प्रणेतः कर्मणांपारं प्रकर्षेण प्रापयितरिन्द्र त्वावतः त्वत्सदृशस्य इन्द्रसमानस्यान्यस्याभावात्तवेत्यर्थः तव स्वभूतावयं स्मसि स्मः हे हरीणां एतत्संज्ञकानामश्वानां स्थातरधिष्ठातः ॥ १ ॥
त्वां हि स॒त्यम᳚द्रिवो वि॒द्म दा॒तार᳚मि॒षाम् ।
वि॒द्म दा॒तारं᳚ रयी॒णाम् ॥
त्वाम् । हि । स॒त्यम् । अ॒द्रि॒॑वः॒ । वि॒द्म । दा॒तार᳚म् । इ॒षाम् ।
वि॒द्म । दा॒तार᳚म् । र॒यी॒णाम् ॥
हे अद्रिवः अत्ति शत्रुमित्यद्रिः वज्रः तद्वन्निन्द्र त्वां सत्यं निश्चयं इषामन्नानां दातारं विद्म जानीमः । तथा रयीणां धनानां दातारं विद्म ॥ २ ॥
आ यस्य᳚ ते महि॒मानं॒ शत᳚मूते॒ शत᳚क्रतो ।
गी॒र्भिर्गृ॒णन्ति᳚ का॒रवः᳚ ॥
आ । यस्य᳚ । ते॒ । म॒हि॒मान᳚म् । शत᳚म्॑ऊते । शत᳚क्रतो॒ इति॒ शत᳚॑क्रतो ।
गीः॒॑भिः । गृ॒णन्ति᳚ । का॒रवः᳚ ॥
हे शतमूते अपरिमितरक्षण हे शतक्रतो बहुकर्मयुक्तेन्द्र यस्य ते महिमानं माहात्म्यं कारवः स्तोतारोगीर्भिः स्तुतिभिर्गृणन्ति स्तुवन्ति स्वाभीष्टाय ॥ ३ ॥
सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम᳚र्य॒मा ।
मि॒त्रः पान्त्य॒द्रुहः᳚ ॥
सु॒॑नी॒थः । घ॒ । सः । मर्त्यः᳚ । यम् । म॒रुतः᳚ । यम् । अ॒र्य॒मा ।
मि॒त्रः । पान्ति᳚ । अ॒द्रुहः᳚ ॥
रामर्त्योमनुष्यो यजमानः सुनीथः सुयज्ञः सुनयनोवा भवति । घेति प्रसिद्धौ । सइत्युक्तं कमित्याह यं यजमानं मरुतोदेवाः पान्ति रक्षन्ति । अद्रुहः अद्रोहकर्तारः तथा यमर्यमा पातियंचमित्रः पाति सएवं भवतीति ॥ ४ ॥
दधा᳚नो॒ गोम॒दश्व᳚वत्सु॒वीर्य᳚मादि॒त्यजू᳚त एधते ।
सदा᳚ रा॒या पु᳚रु॒स्पृहा᳚ ॥
दधा᳚नः । गो॑म᳚त् । अश्व᳚॑वत् । सु॒॑वीर्य᳚म् । आ॒दि॒त्य॑जू᳚तः । ए॒ध॒ते॒ ।
सदा᳚ । रा॒या । पु॒रु॒॑स्पृहा᳚ ॥
आदित्यजूतः आदित्यप्रेरितः आदित्यानुगृहीतो यजमानो गोमद्गोभिरुपेतं अश्ववदश्वैरुपेतं सुवीर्यं शोभनवीर्योपेतं पुत्रं दधानो धारयन्नेधते वर्धते सदा सर्वदा । किञ्च पुरुस्पृहा बहुभिः स्पृहणीयेन राया धनेन सदैधते ॥ ५ ॥
तमिन्द्रं॒ दान᳚मीमहे शवसा॒नमभी᳚र्वम् ।
ईशा᳚नं रा॒य ई᳚महे ॥
तम् । इन्द्र᳚म् । दान᳚म् । ई॒म॒हे॒ । श॒व॒सा॒नम् । अभी᳚र्वम् ।
ईशा᳚नम् । रा॒यः । ई॒म॒हे॒ ॥
तं प्रसिद्धमिन्द्रं दानं देयं रायोधनं ईमहे याचामहे । कीदृशमिन्द्रं शवसानं बलमाचरन्तं अभीर्वं अभीरुं ईशानं सर्वस्य स्वामिनं ॥ ६ ॥
तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी᳚रव॒ः सचा᳚ ।
तमा व᳚हन्तु॒ सप्त᳚यः पुरू॒वसुं॒ मदा᳚य॒ हर᳚यः सु॒तम् ॥
तस्मि᳚न् । हि । सन्ति᳚ । ऊ॒तयः᳚ । विश्वाः᳚ । अभी᳚रवः । सचा᳚ ।
तम् । आ । व॒ह॒न्तु॒ । सप्त᳚यः । पु॒रु॒॑वसु᳚म् । मदा᳚य । हर᳚यः । सु॒तम् ॥
तस्मिन्निन्द्रे ऊतयोगंत्र्यो विश्वाः सर्वा अभीरवोकातराः सचा सहायभूता मरुद्रूपाः सेनाः सन्ति भवन्ति अथवा तस्मिन्सर्वारक्षणाः सह संभवन्ति तमिन्द्रं सप्तयः सर्पणशीलाहरयोश्वाः पुरूवसुं बहुधनं बहुधनप्रदमित्यर्थः तं मदाय सुतमभिषुतसोमं प्रत्याबहन्तु आगमयन्तु ॥ ७ ॥
यस्ते॒ मदो॒ वरे᳚ण्यो॒ य इ᳚न्द्र वृत्र॒हन्त᳚मः ।
य आ᳚द॒दिः स्व१॒᳚र्नृभि॒र्यः पृत᳚नासु दु॒ष्टरः᳚ ॥
यः । ते॒ । मदः᳚ । वरे᳚ण्यः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्॑त᳚मः ।
यः । आ॒॑द॒दिः । स्वः᳚ । नृ॑भिः᳚ । यः । पृत᳚नासु । दु॒स्तरः᳚ ॥
पूर्वमन्त्रे मदाय हरय इत्युक्तम् समदः स्तूयते । हे इन्द्र ते तव योमदो वरेण्यो वरणीयः यश्च मदः संग्रामे वृत्रहन्तमः शत्रूणामतिशयेन हन्ता यश्चाद- दिरादाता स्वः सु अरणं धनं नृभिर्नृभ्यः शत्रुभ्यः यश्च पृतनासु संग्रामेषु दुष्टरोनभिभाव्यस्तस्मै मदाय हरयो वहन्त्विति ॥ ८ ॥
यो दु॒ष्टरो᳚ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति᳚ तरु॒ता ।
स नः᳚ शविष्ठ॒ सव॒ना व᳚सो गहि ग॒मेम॒ गोम᳚ति व्र॒जे ॥
यः । दु॒स्तरः᳚ । वि॒श्व॒॑वा॒र॒ । श्र॒वाय्यः᳚ । वाजे᳚षु । अस्ति᳚ । त॒रु॒ता ।
सः । नः॒ । श॒वि॒ष्ठ॒ । सव᳚ना । आ । व॒सो॒ इति᳚ । ग॒हि॒ । ग॒मेम᳚ । गो॑म᳚ति । व्र॒जे ॥
हे विश्ववार विश्वैर्वरणीयेन्द्र वाजेषु युद्धेषु यस्तवदुष्टरो दुःखेनतरीतुंशक्यः तरुता शत्रूणां तारकोस्ति भवति । हे वसो वासक हे शविष्ठातिशये- नबलवन्निन्द्र सत्वं नः अस्माकं सवना सवनानि आगहि आगच्छ । वयंच गोमति व्रजे गोमन्तं व्रजं गमेम गच्छेम ॥ ९ ॥
ग॒व्यो षु णो॒ यथा᳚ पु॒राश्व॒योत र᳚थ॒या ।
व॒रि॒व॒स्य म᳚हामह ॥
ग॒व्यो इति᳚᳚ । सु । नः॒ । यथा᳚ । पु॒रा । अ॒श्व॒॑या । उ॒त । र॒थ॒॑या ।
व॒रि॒व॒स्य । म॒हा॒॑म॒ह॒ ॥
हे महामह महाधनेन्द्र गव्या । गव्या उ इति निपाताऽनिपातद्वयसमुदायस्य आदिवद्भावेन निपातवद्भावात् प्रकृतिभावः । अस्माकं गवामिच्छया अस्माकं गादातुं यथा पुरापूर्वं यथास्माकं गवादिदानाय वरिवस्यसि तद्वदद्यापि सु सुष्ठु वरिवस्य परिचर आगच्छेत्यर्थः । न केवलं गवेच्छया किंतु अश्वया अश्वप्रदानेच्छया उतापिच रथया रथेच्छयाच वरिवस्येति ॥ १० ॥
न॒हि ते᳚ शूर॒ राध॒सो॑न्तं᳚ वि॒न्दामि᳚ स॒त्रा ।
द॒श॒स्या नो᳚ मघव॒न्नू चि᳚दद्रिवो॒ धियो॒ वाजे᳚भिराविथ ॥
न॒हि । ते॒ । शू॒र॒ । राध᳚सः । अन्त᳚म् । वि॒न्दामि᳚ । स॒त्रा ।
द॒श॒स्य । नः॒ । म॒घ॒॑व॒न् । नु । चि॒त् । अ॒द्रि॒॑वः॒ । धियः᳚ । वाजे᳚भिः । आ॒वि॒थ॒ ॥
हे शूर विक्रन्तेन्द्र ते तव राधसो धनस्यान्तं इयत्तां सत्रा सत्यं नहि विन्दामि न लभे । यस्मादेवं तस्मात् हे मघवन् धनवन् हे अद्रिवो बज्रवन्निन्द्र नोस्माकं नूचित् क्षिप्रमेव दशस्य देहि तद्धनम् । किञ्च वाजेभिर्वाजैरन्नैर्धियोस्मदीयानि कर्माण्याविथ रक्ष ॥ ११ ॥
य ऋ॒ष्वः श्रा᳚व॒यत्स᳚खा॒ विश्वेत्स वे᳚द॒ जनि᳚मा पुरुष्टु॒तः ।
तं विश्वे॒ मानु᳚षा यु॒गेन्द्रं᳚ हवन्ते तवि॒षं य॒तस्रु᳚चः ॥
यः । ऋ॒ष्वः । श्र॒व॒यत्॑स᳚खा । विश्वा᳚ । इत् । सः । वे॒द॒ । जनि᳚म । पु॒रु॒॑स्तु॒तः ।
तम् । विश्वे᳚ । मानु᳚षा । यु॒गा । इन्द्र᳚म् । ह॒व॒न्ते॒ । त॒वि॒षम् । य॒त॑स्रु᳚चः ॥
यइन्द्रः ऋष्वोदर्शनीयः श्रावयत्सखा श्रावयन्तः सखायऋत्विजो यस्य सतादृशः श्रावयत्सखा पुरुष्टुतो बहुभिर्यजमानैःस्तुतो यइन्द्रः सविश्वेत् सर्वा- ण्यपि जनिम जन्मानि प्राणिनां वेद जानाति तं तविषं बलवन्तमिन्द्रं विश्वे सर्वेपि अध्वर्य्वादयो यतश्रुचः स्वीकृतहविष्काःसन्तो मानुषा मनुष्यसं- बन्धिनो युगा युगानि कालान् सर्वेषुकालेषु हवन्ते आह्वयन्ति स्तुवन्ति ॥ १२ ॥
स नो॒ वाजे᳚ष्ववि॒ता पु᳚रू॒वसु᳚ः पुरःस्था॒ता म॒घवा᳚ वृत्र॒हा भु᳚वत् ॥
सः । नः॒ । वाजे᳚षु । अ॒वि॒ता । पु॒रु॒॑वसुः᳚ । पु॒रः॒॑स्था॒ता । म॒घ॑वा᳚ । वृ॒त्र॒॑हा । भु॒व॒त् ॥
एषा द्विपदा जगती । सपुरूवसुर्बहुधनो मघवा धनवान् वृत्रहा शत्रूणां हन्तेन्द्रो नोस्माकं वाजेषु सङ्गामेषु अविता रक्षिता पुरःस्थाता तदर्थं पुर- तोवर्तमानो भुवद्भवतु ॥ १३ ॥
अ॒भि वो᳚ वी॒रमन्ध᳚सो॒ मदे᳚षु गाय गि॒रा म॒हा विचे᳚तसम् ।
इन्द्रं॒ नाम॒ श्रुत्यं᳚ शा॒किनं॒ वचो॒ यथा᳚ ॥
अ॒भि । वः॒ । वी॒रम् । अन्ध᳚सः । मदे᳚षु । गा॒य॒ । गि॒रा । म॒हा । वि॑चे᳚तसम् ।
इन्द्र᳚म् । नाम᳚ । श्रुत्य᳚म् । शा॒किन᳚म् । वचः᳚ । यथा᳚ ॥
हे उद्गात्रादयो वोयूयमित्यर्थः अथवा हे यजमानाः वोयुष्माकं हिताय अन्धसः सोमस्य मदेषु उत्पाद्यमानेषु सत्सु वीरं शत्रूणामीरयितारं नाम शत्रूणामीतारं नाम शत्रूणां नामकं विचेतसं विशिष्टप्रज्ञं श्रुत्यं सर्वत्रश्रोतव्यं शाकिनं शक्तं ईदृशमिन्द्रं महा महत्या गिरा स्तुत्या वचो वाग्युष्मदी- या यथा येनप्रकारेण प्रवर्तते गायत्र्यात्रिष्टुभावा तथा अभिगाय गायत स्तुतिं कुरुत ॥ १४ ॥
द॒दी रेक्ण᳚स्त॒न्वे᳚ द॒दिर्वसु᳚ द॒दिर्वाजे᳚षु पुरुहूत वा॒जिन᳚म् ।
नू॒नमथ᳚ ॥
द॒दिः । रेक्णः᳚ । त॒न्वे᳚ । द॒दिः । वसु᳚ । द॒दिः । वाजे᳚षु । पु॒रु॒॑हू॒त॒ । वा॒जिन᳚म् ।
नू॒नम् । अथ᳚ ॥
हे पुरुहूत बहुभिराहूतेन्द्र त्वं तन्वे मत्द्यं शरीराय रेक्णोधनं ददिर्दाताभव । कदेत्युच्यते नूनं क्षिप्रमथेदानीमेव एवं प्रतिवाक्यं योज्यम् । तथा वसु धनं पुत्रादिभ्यो ददिर्दाताभव तथा वाजेषु संग्रामेषु वाजिनमन्नवन्तं रयिं ददिर्दाताभवेति । अत्रसर्वेष्वपि वाक्येषु ददिरित्यस्य लिङ्भा- वान्नलोकाव्ययेति षष्ठीप्रतिषेधः ॥ १५ ॥
विश्वे᳚षामिर॒ज्यन्तं॒ वसू᳚नां सास॒ह्वांसं᳚ चिद॒स्य वर्प᳚सः ।
कृ॒प॒य॒तो नू॒नमत्यथ᳚ ॥
विश्वे᳚षाम् । इ॒र॒ज्यन्त᳚म् । वसू᳚नाम् । स॒स॒ह्वांस᳚म् । चि॒त् । अ॒स्य । वर्प᳚सः ।
कृ॒प॒॑य॒तः । नू॒नम् । अति᳚ । अथ᳚ ॥
हे इन्द्र त्वां विश्वेषां सर्वेषां वसूनां धनानामिरज्यन्तं ईशानं अस्य वर्पसः वारकस्य कृपयतो युद्धं कल्पयतः शत्रोः सासह्वांसं अभिभवितारं स्तुव- न्तइतिशेषः । सत्वं नूनं क्षिप्रं अथातिचित् इदानीमपि धनं प्रयच्छेत्यर्थः ॥ १६ ॥
म॒हः सु वो॒ अर᳚मिषे॒ स्तवा᳚महे मी॒ळ्हुषे᳚ अरंग॒माय॒ जग्म᳚ये ।
य॒ज्ञेभि᳚र्गी॒र्भिर्वि॒श्वम᳚नुषां म॒रुता᳚मियक्षसि॒ गाये᳚ त्वा॒ नम᳚सा गि॒रा ॥
म॒हः । सु । वः॒ । अर᳚म् । इ॒षे॒ । स्तवा᳚महे । मी॒ळ्हुषे᳚ । अ॒र॒म्॑ग॒माय᳚ । जग्म᳚ये ।
य॒ज्ञेभिः᳚ । गीः॒॑भिः । वि॒श्व॑म᳚नुषाम् । म॒रुता᳚म् । इ॒य॒क्ष॒सि॒ । गाये᳚ । त्वा॒ । नम᳚सा । गि॒रा ॥
हे इन्द्र महो महतो वः तवेत्यर्थः व्यत्ययेन बहुवचनं अरंगमनमस्मद्विषयं इषे इच्छामि अर्तेररमितिरूपम् । तदर्थं मीह्ळुषे सेक्रे अरंगमाय अरंगम- नाय संपूर्णगमनाय जग्मये गमनशीलाय यज्ञं प्रति एवंभूताय देवाय सुष्ठु स्तवामहे त्वां स्तुमइत्यर्थः । केन साधनेनेति तदुच्यतेयज्ञेभिर्यजमानसा- धनैर्हविर्भिर्यज्ञैरेववा गीर्भिः स्तुतिभिःहे देव विश्वमनुषां विशेषां मनुष्याणां यष्टृणां इयक्षसि एतैरिज्यसे मरुतां संबन्धई त्वम् । किञ्च त्वा त्वां नमसा नमस्कारेण गिरा स्तुत्याच गाये स्तुवे ॥ १७ ॥
ये पा॒तय᳚न्ते॒ अज्म᳚भिर्गिरी॒णां स्नुभि᳚रेषाम् ।
य॒ज्ञं म᳚हि॒ष्वणी᳚नां सु॒म्नं तु᳚वि॒ष्वणी᳚नां॒ प्राध्व॒रे ॥
ये । पा॒तय᳚न्ते । अज्म᳚॑भिः । गि॒री॒णाम् । स्नु॑भिः᳚ । ए॒षा॒म् ।
य॒ज्ञम् । म॒हि॒॑स्वनी᳚नाम् । सु॒म्नम् । तु॒वि॒॑स्वनी᳚नाम् । प्र । अ॒ध्व॒रे ॥
ये मरुतो गिरीणां मेघानां स्नुभिः प्रत्नवद्भिः अज्मभिः बलैर्बलकरैरुदकैः सह पातयन्ते पतन्ति गच्छन्ति । एषां मरुतां महिष्वणीनां प्रभूतध्वनीनां यज्ञं कुर्मइतिशेषः । कृत्वाच तुविष्वणीनां बहुध्वनीनां सुम्नं सुखं तैःकृतं अध्वरे यज्ञे प्र प्राप्नुयाम । अथवा चतुर्थ्यर्थेषष्ठी प्रभूतस्वने भ्यः सुम्नं उक्त- लक्षणं हविः प्र प्राप्नुयामाध्वरे यज्ञे ॥ १८ ॥
प्र॒भ॒ङ्गं दु᳚र्मती॒नामिन्द्र᳚ शवि॒ष्ठा भ᳚र ।
र॒यिम॒स्मभ्यं॒ युज्यं᳚ चोदयन्मते॒ ज्येष्ठं᳚ चोदयन्मते ॥
प्र॒॑भ॒ङ्गम् । दुः॒॑म॒ती॒नाम् । इन्द्र᳚ । श॒वि॒ष्ठ॒ । आ । भ॒र॒ ।
र॒यिम् । अ॒स्मभ्य᳚म् । युज्य᳚म् । चो॒द॒य॒त्॑म॒ते॒ । ज्येष्ठ᳚म् । चो॒द॒य॒त्॑म॒ते॒ ॥
दुर्मतीनां दुष्टमनस्कानां वृत्रादीनां प्रभङ्ग प्रकर्षेण भञ्चकं त्वां याचामहइतिशेषः । हे इन्द्र शविष्ठातिशयेनबलवन् स्तुतस्त्वमस्मभ्यं रयिं धनं युज्यं योग्यमस्माकमुचितं धनमाभराहर । हे चोदयन्मते चोदयन्ती धनं प्रेरयन्तीमतिर्यस्य सतथोक्तः हे तादृशदेव किञ्च हे चोदयन्मते उक्तार्थ ज्येष्ठं धनमाभर ॥ १९ ॥
सनि᳚त॒ः सुस᳚नित॒रुग्र॒ चित्र॒ चेति᳚ष्ठ॒ सूनृ᳚त ।
प्रा॒सहा᳚ सम्रा॒ट् सहु᳚रिं॒ सह᳚न्तं भु॒ज्युं वाजे᳚षु॒ पूर्व्य᳚म् ॥
सनि᳚त॒रिति᳚ । सु॑स᳚नितः । उग्र᳚ । चित्र᳚ । चेति᳚ष्ठ । सूनृ᳚त ।
प्र॒॑सहा᳚ । सम्॑रा॒ट् । सहु᳚रिम् । सह᳚न्तम् । भु॒ज्युम् । वाजे᳚षु । पूर्व्य᳚म् ॥
हे सनितः संभक्तः सुसनितः दातर्वा उग्र उद्गूर्णबल चित्र चायनीय चेतिष्ठात्यन्तं चेतयितः सूनृत सुसत्य प्रासहा प्रसह्य हे सम्राट् सर्वस्य स्वामिन् सम्यग्राजमान वा त्वं सहुरिं सहनशीलं सहन्तं भुज्युं भोजयितारं पूर्व्यं प्रवृद्धं मुख्यमित्यर्थः । ईदृशं धनं वाजेषु संग्रामेषु आभरेतिशेषः ॥ २० ॥
आ स ए᳚तु॒ य ईव॒दा{4} अदे᳚वः पू॒र्तमा᳚द॒दे ।
यथा᳚ चि॒द्वशो᳚ अ॒श्व्यः पृ᳚थु॒श्रव᳚सि कानी॒ते॒३॒᳚॑स्या व्युष्या᳚द॒दे ॥
आ । सः । ए॒तु॒ । यः । ईव᳚त् । आ । अदे᳚वः । पू॒र्तम् । आ॒॑द॒दे ।
यथा᳚ । चि॒त् । वशः᳚ । अ॒श्व्यः । पृ॒थु॒॑श्रव᳚सि । कानी॒ते । अ॒स्याः । वि॒॑उषि᳚ । आ॒॑द॒दे ॥
अत्रशौनकः-वशायाश्व्याययत्प्रादात्कानीतस्तुपृथुश्रवाः । तदत्रस्तूयतेदानमासएत्वेवमादिभिः ॥ १ ॥ ऎतु आगच्छतु सः यः अदेवः देवादन्यो मनुष्यो वशईवत् गमनवत् गवादिलक्षणं पूर्तं पूर्णं आददे आदत्ते स्वीकृतवानित्यर्थः । देवश्चेन्माययाप्यागन्तुमर्हति अतः प्रकाशेनैवागच्छत्वित्यर्थः । कथम- स्याधनावाप्तिप्रसङ्गश्चेति । तदुच्यते-यथाचित् चिदितिपूरणः येन कारणेन यस्माद्वा वश एतत्संज्ञकः अश्व्यः अश्वपुत्रः पृथुश्रदसि एतन्नामकेराज्ञि कानीते कानीतपुत्रे कन्यायाः पुत्रे अस्या उषसो व्युषि व्युष्टौ आददे आदत्ते तेन प्रकारेणन तस्माद्वा कारणादायात्विति एवमश्वो बन्धुवर्गोवाब्रूते ॥ २१ ॥
ष॒ष्टिं स॒हस्राश्व्य᳚स्या॒युता᳚सन॒मुष्ट्रा᳚नां विंश॒तिं श॒ता ।
दश॒ श्यावी᳚नां श॒ता दश॒ त्र्य᳚रुषीणां॒ दश॒ गवां᳚ स॒हस्रा᳚ ॥
ष॒ष्टिम् । स॒हस्रा᳚ । अश्व्य᳚स्य । अ॒युता᳚ । अ॒स॒न॒म् । उष्ट्रा᳚नाम् । विं॒श॒तिम् । श॒ता ।
दश᳚ । श्यावी᳚नाम् । श॒ता । दश᳚ । त्रि॑अ᳚रुषीणाम् । दश᳚ । गवा᳚म् । स॒हस्रा᳚ ॥
सवश आगत्यब्रूते अश्व्यस्याश्वसम्बन्धिनः षष्टिं सहस्रा सहस्राणि अयुता अयुतानि वासनमभजं उष्ट्राणां विंशातिं शता शतानि चासनं श्यावीनां श्याववर्णानां वडवानां दशशता शतानि चासनम् त्र्यरुषीणां त्रीण्यारोचमानानि शुभ्राणि ककुप् पृष्ठपार्श्वादिस्थानानि यासां तादृशीनां गवां दशसहस्रा दशसहस्राण्यभजम् ॥ २२ ॥
दश᳚ श्या॒वा ऋ॒धद्र᳚यो वी॒तवा᳚रास आ॒शवः᳚ ।
म॒थ्रा ने॒मिं नि वा᳚वृतुः ॥
दश᳚ । श्या॒वाः । ऋ॒धत्॑र᳚यः । वी॒त॑वा᳚रासः । आ॒शवः᳚ ।
म॒थ्राः । ने॒मिम् । नि । व॒वृ॒तुः॒ ॥
दश दशसंख्याकाः श्यावाः श्याववर्णाः आशवोश्वाः नेमिं रथनेमिं निवावृतुः निवर्तयन्ति रथंवहन्तीत्यर्थः । कीदृशास्ते ऋधद्रयः प्रवृद्धवेगाः वीत- वारासः क्रान्तबलाः प्राप्तबलावा आशवः मथ्राः मथनशीलाः ॥ २३ ॥
दाना᳚सः पृथु॒श्रव᳚सः कानी॒तस्य᳚ सु॒राध᳚सः ।
रथं᳚ हिर॒ण्ययं॒ दद॒न्मंहि᳚ष्ठः सू॒रिर᳚भू॒द्वर्षि᳚ष्ठमकृत॒ श्रवः᳚ ॥
दाना᳚सः । पृ॒थु॒॑श्रव᳚सः । का॒नी॒तस्य᳚ । सु॒॑राध᳚सः ।
रथ᳚म् । हि॒र॒ण्यय᳚म् । दद᳚त् । मंहि᳚ष्ठः । सू॒रिः । अ॒भू॒त् । वर्षि᳚ष्ठम् । अ॒कृ॒त॒ । श्रवः᳚ ॥
पूर्वमन्त्रैः प्रतिपादितानि धनानि बंधूनां पितुर्वा पुरस्तान्निर्दिशन्नाशास्ते । पृथुश्रवसः कानीतस्य सुराधसः शोभनधनस्य यतस्तस्य धनं दानाय कल्पितं अतः ससुराधाः तस्य दानासोदानाः दत्तानि धनानीमानि सच पृथुश्रवाः पूर्वमुक्तानि हिरण्ययं हिरण्मयं रथञ्च ददत् प्रयच्छन् मंहिष्ठोति- शयेन दाता सूरिः सर्वस्य प्रेरकः प्राज्ञोवा भूत् भवति भवतु वा । वर्षिष्ठं अतिशयेन प्रवृद्धां श्रवः कीर्तिमकृत करोति करोतु वा ॥ २४ ॥
आ नो᳚ वायो म॒हे तने᳚ या॒हि म॒खाय॒ पाज᳚से ।
व॒यं हि ते᳚ चकृ॒मा भूरि᳚ दा॒वने᳚ स॒द्यश्चि॒न्महि᳚ दा॒वने᳚ ॥
आ । नः॒ । वा॒यो॒ इति᳚ । म॒हे । तने᳚ । या॒हि । म॒खाय᳚ । पाज᳚से ।
व॒यम् । हि । ते॒ । च॒कृ॒म । भूरि᳚ । दा॒वने᳚ । स॒द्यः । चि॒त् । महि᳚ । दा॒वने᳚ ॥
हे वायो त्वं नोस्मान्प्रत्यायाह्यागच्छ । किमर्थं महे महते तने धनाय मखाय महनीयाय पाजसे बलाय च उभयं प्रदातुमित्यर्थः । किमत्रास्तीति चेदुच्यते वयं हि वयं खलु ते भूरिदावने प्रभूतधनदात्रे चकृम स्तुतिं हविर्वा सद्यश्चित्तदानीमेव तवागमनानन्तरमेव चकृम । महिमहतो धनस्य दावने दात्रे ॥ २५ ॥
यो अश्वे᳚भि॒र्वह᳚ते॒ वस्त᳚ उ॒स्रास्त्रिः स॒प्त स᳚प्तती॒नाम् ।
ए॒भिः सोमे᳚भिः सोम॒सुद्भि᳚ः सोमपा दा॒नाय᳚ शुक्रपूतपाः ॥
यः । अश्वे᳚भिः । वह᳚ते । वस्ते᳚ । उ॒स्राः । त्रिः । स॒प्त । स॒प्त॒ती॒नाम् ।
ए॒भिः । सोमे᳚भिः । सो॒म॒सुत्॑भिः᳚ । सो॒म॒॑पाः॒ । दा॒नाय᳚ । शु॒क्र॒पू॒त॒॑पाः॒ ॥
यः पृथुश्रवा अश्वेभिरश्वैर्वहते गृहं वस्ते वसति चोस्रागाः ताभिश्च गच्छतीत्यर्थः । त्रिः सप्तेति तासां गवां संख्योक्ताच । सा संख्या विशेष्यते सप्त- तीनां त्रिःसप्त उक्तसंख्याकाभिर्गोभिरश्वैश्च योगच्छति सपृथुश्रवाः एभिः सोमेभिः सोमैः सोमसुद्भिः सोममभिषुण्वद्भिश्च हेसोमपाः सोमस्यपात- रिति वायोः संबोधनं हे शक्रपूतपाः दीप्तपूतस्यच सोमस्य पातर्वायो दानाय तुभ्यं सोमं दातुं सोमैर्युक्तो भवतीतिशेषः ॥ २६ ॥
यो म᳚ इ॒मं चि᳚दु॒ त्मनाम᳚न्दच्चि॒त्रं दा॒वने᳚ ।
अ॒र॒ट्वे अक्षे॒ नहु᳚षे सु॒कृत्व᳚नि सु॒कृत्त᳚राय सु॒क्रतु᳚ः ॥
यः । मे॒ । इ॒मम् । चि॒त् । ऊं॒ इति᳚ । त्मना᳚ । अम᳚न्दत् । चि॒त्रम् । दा॒वने᳚ ।
अ॒र॒ट्वे । अक्षे᳚ । नहु᳚षे । सु॒॑कृत्व᳚नि । सु॒कृत्॑त᳚राय । सु॒॑क्रतुः᳚ ॥
यः पृथुश्रवाः मे मह्यं इमं पुरतोवर्तमानं चित्रं चायनीयं गवाश्वादिकं दावने दानाय त्मना आत्मना स्वबुध्यैव अमदत् अमंदत अमाद्यत । सच सुक्रतुः शोभनकर्मा राजा सुकृत्तराय सुकृतकर्तृत्वाय अरट्वे अक्षे नहुषे सुकृत्वनिच एते तस्य राज्ञोध्यक्षाः तेष्वन्वशात् अस्मै गवादिकान्संयो- जयतेति । यद्वा अरट्वादयोन्येराजानः तेषु मध्ये सुकृत्तरायामन्ददिति ॥ २७ ॥
उ॒च॒थ्ये॒३॒᳚ वपु᳚षि॒ यः स्व॒राळु॒त वा᳚यो घृत॒स्नाः ।
अश्वे᳚षितं॒ रजे᳚षितं॒ शुने᳚षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥
उ॒च॒थ्ये᳚ । वपु᳚षि । यः । स्व॒॑राट् । उ॒त । वा॒यो॒ इति᳚ । घृ॒त॒॑स्नाः ।
अश्व᳚॑इषितम् । रजः᳚॑इषितम् । शुना᳚॑इषितम् । प्र । अज्म᳚ । तत् । इ॒दम् । नु । तत् ॥
उचथ्ये वक्तव्ये स्तुत्ये वपुषि शरीरे यःस्वराट् स्वयं राजते यद्वा उचथ्यो वपुश्चोभौराजानौ तयोरपि यः स्वराट् स्वाराज्यं करोति अतिशयेन वर्तते । उतापिच हे वायो यश्च घृतश्नाः घृतवच्छुद्धः सराजा अश्वेषितं अश्वैःप्रापितम् । रजेषितं रजःशब्देनोष्ट्रो गर्दभोवोच्यते । तेनाप्यानीतं शुनेषितंचा- ज्मान्नं प्रादात् तदन्नमश्वाद्यानीतं इदं पुरतो दृश्यते तत् तवैवानुग्रहादित्यर्थः । अथवैकस्तच्छब्दः पूरणः अश्वाद्यानीतं यदस्ति तदिदं खल्विति ॥ २८ ॥
अध᳚ प्रि॒यमि᳚षि॒राय᳚ ष॒ष्टिं स॒हस्रा᳚सनम् ।
अश्वा᳚ना॒मिन्न वृष्णा᳚म् ॥
अध᳚ । प्रि॒यम् । इ॒षि॒राय᳚ । ष॒ष्टिम् । स॒हस्रा᳚ । अ॒स॒न॒म् ।
अश्वा᳚नाम् । इत् । न । वृष्णा᳚म् ॥
अधाधुना इषिराय धनादिप्रेरयित्रे राज्ञे प्रियं श्रद्धेयं अश्वानामिन्न अश्वानामिव वृष्णां सेक्तृणां गवां सहस्रा सहस्राणां षष्टिं षष्टिसहस्रसंख्याकं प्रिय- भूतं असनं अभजम् ॥ २९ ॥
गावो॒ न यू॒थमुप᳚ यन्ति॒ वध्र᳚य॒ उप॒ मा य᳚न्ति॒ वध्र᳚यः ॥
गावः᳚ । न । यू॒थम् । उप᳚ । य॒न्ति॒ । वध्र᳚यः । उप᳚ । मा॒ । आ । य॒न्ति॒ । वध्र᳚यः ॥
गावोन गावइव ता यथा संगवेयूथमुपयन्ति उपगच्छन्तितद्वद्वध्रयः छिन्नमुष्काः वृषभाः पृथुश्रवसा दत्ताः मा मामुपयन्ति समीपं प्राप्नुवन्ति । मा मां वध्रय उपायन्तीति पुनरुक्तिरादरार्था ॥ ३० ॥
अध॒ यच्चार᳚थे ग॒णे श॒तमुष्ट्रा{4}॒ अचि᳚क्रदत् ।
अध॒ श्वित्ने᳚षु विंश॒तिं श॒ता ॥
अध᳚ । यत् । चार᳚थे । ग॒णे । श॒तम् । उष्ट्रा᳚न् । अचि᳚क्रदत् ।
अध᳚ । श्वित्ने᳚षु । विं॒श॒तिम् । श॒ता ॥
अधाथ यद्यदा चारथे चरथं चरणं गमनं तत्संबन्धिनि चार्यमाणे वनाय चार्यमाणइत्यर्थः तादृशे गणे उष्ट्रसंघे उष्ट्रन् शतं उष्ट्राणां शतं अचिक्रदत् अस्मभ्यं प्रदानाय जुहाव । अधापिचास्मदर्थमेव श्वित्नेषु श्वेतवर्णेषु गोयूथेषु विंशतिं शता च शतानि च अथवा शतानां विंशतिं अचिक्रदत् ॥ ३१ ॥
श॒तं दा॒से ब᳚ल्बू॒थे विप्र॒स्तरु᳚क्ष॒ आ द᳚दे ।
ते ते᳚ वायवि॒मे जना॒ मद॒न्तीन्द्र᳚गोपा॒ मद᳚न्ति दे॒वगो᳚पाः ॥
श॒तम् । दा॒से । ब॒ल्बू॒थे । विप्रः᳚ । तरु᳚क्षे । आ । द॒दे॒ ।
ते । ते॒ । वा॒यो॒ इति᳚ । इ॒मे । जनाः᳚ । मद᳚न्ति । इन्द्र᳚॑गोपाः । मद᳚न्ति । दे॒व॑गो᳚पाः ॥
अयं विप्रोमेधावी वशो जनोहं बल्बूथे एतन्नामके दासे तरुक्षे गवाश्वादीनां तारके गवाद्यधिकृते राज्ञास्माकं प्रदिष्टधनदातरि आददे । किं दानं गवा- श्वादीनां शतं शतशब्दोपरिमितवचनः हे वायो ते तव स्वभूताः ते स्तोतारः इमे जनावयमित्यर्थः आत्मनएव परोक्षत्वेन वादः त्वयानुगृहीतत्वादि- न्द्रगोपा इन्द्रो गोपायिता येषां ते तथोक्ताःइन्द्रेण रक्षिता मदन्ति तथा देवगोपा मदन्ति इन्द्रं देवांश्च राज्ञोलब्धेन धनेन यजन्तो मदन्तीत्यर्थः ॥ ३२ ।
अध॒ स्या योष᳚णा म॒ही प्र᳚ती॒ची वश᳚म॒श्व्यम् ।
अधि᳚रुक्मा॒ वि नी᳚यते ॥
अध᳚ । स्या । योष᳚णा । म॒ही । प्र॒ती॒ची । वश᳚म् । अ॒श्व्यम् ।
अधि᳚॑रुक्मा । वि । नी॒य॒ते॒ ॥
अधाधुना स्या सा योषणा योषा राज्ञा प्रदत्ता मही महती पूज्या प्रतीची अस्मदभिमुखी अश्व्यमश्वपुत्रं वशं मां प्रति सा अधिरुक्माभरणा सती विनोयते तां कन्यां मां प्रत्यानयन्तीत्यर्थः । अत्र वायव्यास्वृक्षु यत्र वायुर्नस्तूयते परं दानप्रशंसैव तासु सर्वासु हे वायोत्वदनुग्रहादेवमितियोज्य वायुपरत्वमवगन्तव्यम् ॥ ३३ ॥
महिवइत्यष्टादशर्चं पञ्चमं सूक्तं आप्त्यस्य त्रितस्यार्षं षडष्टकामहापङ्क्तिश्छन्दः आद्यास्त्रयोदशर्चः आदित्यदेवताकाः यच्चगोष्वित्याद्याः पञ्चर्च उषोदेवताकाः आदित्यदेवताकाश्च । तथाचानुक्रमणिका-महिवोद्मूना त्रितआप्त्यआदित्येभ्योन्त्याः पञ्चओषसेपि महापाङ्क्तमिति । सूक्तविनियो- गोलैङ्गिकः ।