अष्टमं मण्डलम् - सूक्तम् 53

8 ऋचः

ऋषिः: मेध्यः काण्वः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.53 - सम्पूर्णम्

1 / 8
ऋक्: 8.53.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
8.53.1
उ॒प॒मं त्वा᳚ म॒घोनां॒ ज्येष्ठं᳚ च वृष॒भाणा᳚म् ।
पू॒र्भित्त᳚मं मघवन्निन्द्र गो॒विद॒मीशा᳚नं रा॒य ई᳚महे ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑मम् । त्वा॒ । म॒घोना᳚म् । ज्येष्ठ᳚म् । च॒ । वृ॒ष॒भाणा᳚म् ।
पू॒र्भित्॑त᳚मम् । म॒घ॒॑व॒न् । इ॒न्द्र॒ । गो॒॑विद᳚म् । ईशा᳚नम् । रा॒यः । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.53.2
य आ॒युं कुत्स᳚मतिथि॒ग्वमर्द᳚यो वावृधा॒नो दि॒वेदि᳚वे ।
तं त्वा᳚ व॒यं हर्य᳚श्वं श॒तक्र᳚तुं वाज॒यन्तो᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । आ॒युम् । कुत्स᳚म् । अ॒ति॒थि॒॑ग्वम् । अर्द᳚यः । व॒वृ॒धा॒नः । दि॒वे॑दि᳚वे ।
तम् । त्वा॒ । व॒यम् । हरि᳚॑अश्वम् । श॒त॑क्र᳚तुम् । वा॒ज॒॑यन्तः᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.53.3
आ नो॒ विश्वे᳚षां॒ रसं॒ मध्व᳚ः सिञ्च॒न्त्वद्र᳚यः ।
ये प᳚रा॒वति᳚ सुन्वि॒रे जने॒ष्वा ये अ᳚र्वा॒वतीन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । विश्वे᳚षाम् । रस᳚म् । मध्वः᳚ । सि॒ञ्च॒न्तु॒ । अद्र᳚यः ।
ये । प॒रा॒॑वति᳚ । सु॒न्वि॒रे । जने᳚षु । आ । ये । अ॒र्वा॒॑वति᳚ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.53.4
विश्वा॒ द्वेषां᳚सि ज॒हि चाव॒ चा कृ᳚धि॒ विश्वे᳚ सन्व॒न्त्वा वसु᳚ ।
शीष्टे᳚षु चित्ते मदि॒रासो᳚ अं॒शवो॒ यत्रा॒ सोम᳚स्य तृ॒म्पसि᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । द्वेषां᳚सि । ज॒हि । च॒ । अव᳚ । च॒ । आ । कृ॒धि॒ । विश्वे᳚ । स॒न्व॒न्तु॒ । आ । वसु᳚ ।
शीष्टे᳚षु । चि॒त् । ते॒ । म॒दि॒रासः᳚ । अं॒शवः᳚ । यत्र᳚ । सोम᳚स्य । तृ॒म्पसि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.53.5 समानपद
इन्द्र॒ नेदी᳚य॒ एदि᳚हि मि॒तमे᳚धाभिरू॒तिभि᳚ः ।
आ शं᳚तम॒ शंत᳚माभिर॒भिष्टि᳚भि॒रा स्वा᳚पे स्वा॒पिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । नेदी᳚यः । आ । इत् । इ॒हि॒ । मि॒त॑मे᳚धाभिः । ऊ॒ति॑भिः᳚ ।
आ । श॒म्॑त॒म॒ । शम्॑त᳚माभिः । अ॒भिष्टि᳚॑भिः । आ । सु॒॑आ॒पे॒ । स्वा॒पि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.53.6
आ॒जि॒तुरं॒ सत्प᳚तिं वि॒श्वच᳚र्षणिं कृ॒धि प्र॒जास्वाभ᳚गम् ।
प्र सू ति᳚रा॒ शची᳚भि॒र्ये त᳚ उ॒क्थिन॒ः क्रतुं᳚ पुन॒त आ᳚नु॒षक् ॥
▶ पदपाठः (Word-by-word)
आ॒जि॒॑तुर᳚म् । सत्॑प᳚तिम् । वि॒श्व॑च᳚र्षणिम् । कृ॒धि । प्र॒॑जासु᳚ । आ॑भ᳚गम् ।
प्र । सु । ति॒र॒ । शची᳚भिः । ये । ते॒ । उ॒क्थिनः᳚ । क्रतु᳚म् । पु॒न॒ते । आ॒नु॒षक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.53.7
यस्ते॒ साधि॒ष्ठो॑व᳚से॒ ते स्या᳚म॒ भरे᳚षु ते ।
व॒यं होत्रा᳚भिरु॒त दे॒वहू᳚तिभिः सस॒वांसो᳚ मनामहे ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । साधि᳚ष्ठः । अव᳚से । ते । स्या॒म॒ । भरे᳚षु । ते॒ ।
व॒यम् । होत्रा᳚भिः । उ॒त । दे॒वहू᳚ति॑भिः । स॒स॒॑वांसः᳚ । म॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.53.8 समानपद
अ॒हं हि ते᳚ हरिवो॒ ब्रह्म᳚ वाज॒युरा॒जिं यामि॒ सदो॒तिभि᳚ः ।
त्वामिदे॒व तममे॒ सम᳚श्व॒युर्ग॒व्युरग्रे᳚ मथी॒नाम् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । हि । ते॒ । ह॒रि॒॑वः॒ । ब्रह्म᳚ । वा॒ज॒॑युः । आ॒जिम् । यामि᳚ । सदा᳚ । ऊ॒ति॑भिः᳚ ।
त्वाम् । इत् । ए॒व । तम् । अमे᳚ । सम् । अ॒श्व॒॑युः । ग॒व्युः । अग्रे᳚ । म॒थी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty