अष्टमं मण्डलम् - सूक्तम् 88

6 ऋचः

ऋषिः: नोधाः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.88 - सम्पूर्णम्

1 / 6
ऋक्: 8.88.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
8.88.1
तं वो᳚ द॒स्ममृ᳚ती॒षहं॒ वसो᳚र्मन्दा॒नमन्ध᳚सः ।
अ॒भि व॒त्सं न स्वस᳚रेषु धे॒नव॒ इन्द्रं᳚ गी॒र्भिर्न᳚वामहे ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । द॒स्मम् । ऋ॒ति॒॑सह᳚म् । वसोः᳚ । म॒न्दा॒नम् । अन्ध᳚सः ।
अ॒भि । व॒त्सम् । न । स्वस᳚रेषु । धे॒नवः᳚ । इन्द्र᳚म् । गीः॒॑भिः । न॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोधाइन्द्रं स्तौति हे ऋत्विग्यजमानाः दस्मं दर्शनीयं ऋतीषहं ऋतयोबाधकाः शत्रवः तेषामभिभवितारं पुनः कीदृशं वसोर्वासयितुर्दुःरवस्य निवासयितुः यद्वा वसोः पात्रेनिवसतः तादृशस्य अंधसः सोमलक्षणस्यान्नस्य पानेन मंदानं मोदमानं वः यष्टृयष्टव्यत्वेन युष्मत्संबन्धिनं तं तादृशमिन्द्रं गीर्भिः स्तुतिलक्षणाभिर्वाग्भिरभिनवामहे नूस्तवने नुशब्दे अभिष्टुमः । कुत्रेति स्वसरेषु । अत्रयास्कः-स्वसराण्यहानि भवन्ति स्वयंसारीण्यपिवा स्वरादित्योभवति सएनानिसारयतीति । सूर्यकर्तृकेषु दिवसेषु वयमभिष्टुमः । तत्रदृष्टान्तः-वत्संन यथा धेनवो नवप्रसू- तिका धेनवः स्वसरेषु सुष्ठु अस्यन्ते प्रेर्यन्ते गावः अत्रेति स्वसराणि गोष्ठानि तेषु वत्समभिलक्ष्य शब्दयन्ति तद्वत् ॥ १ ॥

8.88.2 समानपद
द्यु॒क्षं सु॒दानुं॒ तवि᳚षीभि॒रावृ᳚तं गि॒रिं न पु᳚रु॒भोज᳚सम् ।
क्षु॒मन्तं॒ वाजं᳚ श॒तिनं᳚ सह॒स्रिणं᳚ म॒क्षू गोम᳚न्तमीमहे ॥
▶ पदपाठः (Word-by-word)
द्यु॒क्षम् । सु॒॑दानु᳚म् । तवि᳚षीभिः । आ॑वृ᳚तम् । गि॒रिम् । न । पु॒रु॒॑भोज᳚सम् ।
क्षु॒॑मन्त᳚म् । वाज᳚म् । श॒तिन᳚म् । स॒ह॒स्रिण᳚म् । म॒क्षु । गो॑म᳚न्तम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्युक्षं दीप्तीनां निवासस्थानं अतिशयितदीप्तमित्यर्थः । यद्वा द्युक्षं दिवि लोके क्षियन्तं निवसन्तं सुदानुं शोभनदानं तविषीभिर्बलैरावृतमाच्छादितम् । आवरणेदृष्टान्तः-गिरिंन तविषीभिर्बलयुक्तैर्मेघैरावृतं शिलोच्चयमिव स्थितम् । पुनःकीदृशं पुरुभोजसं सोमादिहविःप्रदानेन बहुभिर्यजमानैर्भोजयित- व्यं यद्वा बहूनां पालयितारमिन्द्रं क्षुमन्तम् । टुक्षुशब्दे । शब्दवन्तं अनेन पुत्रादिकं लक्ष्यते स्तोत्रादीनि कुर्वाणं शतिनं सहस्रिणं शतसहस्रसंख्याकधन- युक्तं गोमन्तं गवादियुक्तं वाजमन्नं मक्षु शीघ्रं ईमहे याचामहे । यद्वा पूर्वार्धो वाजविशेषणत्वेन वा योजनीयः । प्रदीप्तं शोभनयोग्यं बलादियुक्तं बहुभिः पुत्रमित्रादिभिर्भोक्तव्यं शब्दादियुक्तमन्नमिन्द्रं याचामइति ॥ २ ॥

8.88.3
न त्वा᳚ बृ॒हन्तो॒ अद्र᳚यो॒ वर᳚न्त इन्द्र वी॒ळवः᳚ ।
यद्दित्स᳚सि स्तुव॒ते माव᳚ते॒ वसु॒ नकि॒ष्टदा मि᳚नाति ते ॥
▶ पदपाठः (Word-by-word)
न । त्वा॒ । बृ॒हन्तः᳚ । अद्र᳚यः । वर᳚न्ते । इ॒न्द्र॒ । वी॒ळवः᳚ ।
यत् । दित्स᳚सि । स्तु॒व॒ते । मा॑व᳚ते । वसु᳚ । नकिः᳚ । तत् । आ । मि॒ना॒ति॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र बृहन्तो बलेन महान्तः अतएव वीळवः सर्वतोदृढाअपि अद्रयः पर्वताः त्वा त्वां नवरन्ते बलेन ननिवारयन्ति । अनिवारणमेवोत्तरार्धेन विवृणोति स्तुवते त्वद्विषयं स्तोत्रं कुर्वते मावते मत्सदृशायमादृशाय स्तोत्रे यद्वसु यद्धनं दित्स्सि त्वं तद्दातुमिच्छसि ते तव देयं तद्धनं नकिर्न- कश्चिदामिनाति आभिमुख्येन हिनस्ति । मीञ् हिंसायाम् । मीनातेर्निगमेइति ह्रस्वः । मावते युष्मदस्मड्भ्यां सादृश्यउपसंख्यानमिति वतुप् ॥ ३ ॥

8.88.4
योद्धा᳚सि॒ क्रत्वा॒ शव᳚सो॒त दं॒सना॒ विश्वा᳚ जा॒ताभि म॒ज्मना᳚ ।
आ त्वा॒यम॒र्क ऊ॒तये᳚ ववर्तति॒ यं गोत᳚मा॒ अजी᳚जनन् ॥
▶ पदपाठः (Word-by-word)
योद्धा᳚ । अ॒सि॒ । क्रत्वा᳚ । शव᳚सा । उ॒त । दं॒सना᳚ । विश्वा᳚ । जा॒ता । अ॒भि । म॒ज्मना᳚ ।
आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये᳚ । व॒व॒र्त॒ति॒ । यम् । गोत᳚माः । अजी᳚जनन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र । क्रत्वा वृत्रहननादि कर्मणा अपिवा प्रज्ञानेन शवसा आत्मीयेन बलेन याद्धा शत्रूणां संप्रहारकोसि । उतापिच त्वं दंसना स्वकीयेन कर्मणा मज्मना मजमुजिशब्दार्थाः । मजमुजीचेति मजतिः शब्दार्थः । शत्रूणामाक्रोशनसमर्थेन बलेन विश्वा जाता सर्वाणि भुतजातानि अभिभवसि । उक्तार्थस्य विश्वाजातान्यभ्यस्मिमह्नेत्यादिषु इन्द्रेणैवोक्तत्वात् । एतादृशं त्वा त्वामर्कः अर्चपूजायां अर्चनीयः अयं मंत्रः यद्वा अर्कः देवानामर्चकः पूजकः अयं स्तोता ऊतये स्वरक्षणाय आववर्तति आवर्तयति आत्माभिमुख्ये करोतीत्यर्थः । वर्ततेर्लेटि बहुलंश्लुरडागमश्च । यं त्वां गोतमाः गोतमपुत्रानोधः प्रभृतयः अजीजनन् स्वयज्ञे प्रादुरबीभवन् तं त्वां अयं मंत्रः स्तोता वा आवर्तयति ॥ ४ ॥

8.88.5
प्र हि रि᳚रि॒क्ष ओज᳚सा दि॒वो अन्ते᳚भ्य॒स्परि᳚ ।
न त्वा᳚ विव्याच॒ रज᳚ इन्द्र॒ पार्थि᳚व॒मनु᳚ स्व॒धां व᳚वक्षिथ ॥
▶ पदपाठः (Word-by-word)
प्र । हि । रि॒रि॒क्षे । ओज᳚सा । दि॒वः । अन्ते᳚भ्यः । परि᳚ ।
न । त्वा॒ । वि॒व्या॒च॒ । रजः᳚ । इ॒न्द्र॒ । पार्थि᳚वम् । अनु᳚ । स्व॒धाम् । व॒व॒क्षि॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र दिवोद्युलोकस्य पर्यंतेभ्यः ओजसा हिरवधारणे स्वबलेनैव प्ररिरिक्षे प्रकर्षेणातिरिक्तोभवसि रिचेर्लेटिबहुलंछन्दसीतिश्लुः । प्रत्ययस्वरः । किंच हे इन्द्र पार्थिवं पृथिव्यां भवो रजोलोकः त्वा त्वां महता स्वशरीरेण नविव्याच नव्याप्नोति द्यावापृथिवीभ्यामपि स्वतः सत्वं बलेन समर्थो- भवसीत्यर्थः । एवंभूतःसन् अस्माकं स्वधामन्नमुदकंवा नु ववक्षिथ अनुवोढुमिच्छ । वहेः सन्नंतस्य छान्दसेलिटिरूपं मंत्रत्वादामभावः ॥ ५ ॥

8.88.6
नकि॒ः परि᳚ष्टिर्मघवन्म॒घस्य᳚ ते॒ यद्दा॒शुषे᳚ दश॒स्यसि᳚ ।
अ॒स्माकं᳚ बोध्यु॒चथ᳚स्य चोदि॒ता मंहि᳚ष्ठो॒ वाज᳚सातये ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । परि᳚ष्टिः । म॒घ॒॑व॒न् । म॒घस्य᳚ । ते॒ । यत् । दा॒शुषे᳚ । द॒श॒स्यसि᳚ ।
अ॒स्माक᳚म् । बो॒धि॒ । उ॒चथ᳚स्य । चो॒दि॒ता । मंहि᳚ष्ठः । वाज᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निन्द्र ते तव मघस्य मंहनीयस्य धनस्य परिष्टिः परिबाधको निरोद्धा नकिर्नकश्चिदस्ति यद्यदा दाशुषे हविर्दत्तवते यजमानाय दशस्यसि धनंप्रयच्छसि तदा तस्य निरोधकोनास्तीत्यर्थः । तथासति चोदिता धनानां चोदयिता स्तोतृभ्यः प्रेरयिता अतएव मंहिष्ठोदातृतमो मंहनीयोवा सत्वं अस्माकं संबन्धि उचथस्य स्तोत्रं वाजसातये अन्नलाभाय तदर्थं क्रियमाणमिति बोधि बुधबोधने भौवादिकः लोटि छान्दसः शपोलुक् ध्यादेशः ॥ ६ ॥

बृहदिन्द्रायेति सप्तर्चं नवमं सूक्तं नृमेधपुरुमेधावृषी तौचानुक्तत्वादांगिरसौ आदितोद्वौ प्रगाथौ पंचमीषष्ठ्यावनुष्टुभौ सप्तमीबृहती इन्द्रोदेवता । तथाचानुक्रम्यते-बुहदिन्द्रायसप्त नृमेधपुरुमेधौ ड्यनुष्टुब्बृहत्यंतमिति । चातुर्विंशिकेहनि मरुत्वतीये प्राकृतान्मरुत्वतीयात्प्रगाथादूर्ध्वं द्वौ मरुत्व- तीयौ प्रगाथौ शंसनीयौ बृहदिन्द्रायगायतेत्ययमाद्यः प्रगाथः पृष्ठ्याभिप्लवषडहयोः द्वितीयहनि अयंप्रगाथः । सूत्रितंच-बृहदिन्द्रायगायत नकिः सुदासोरथमिति मरुत्वतीयऊर्ध्वं नित्याइति ।