अष्टमं मण्डलम् - सूक्तम् 101

16 ऋचः

ऋषिः: जमदग्निर्भार्गवः देवता: मित्रावरुणौ छन्दः: बृहती

सूक्तम् 8.101 - सम्पूर्णम्

1 / 16
ऋक्: 8.101.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
8.101.1 समानपद
ऋध᳚गि॒त्था स मर्त्य᳚ः शश॒मे दे॒वता᳚तये ।
यो नू॒नं मि॒त्रावरु᳚णाव॒भिष्ट᳚य आच॒क्रे ह॒व्यदा᳚तये ॥
▶ पदपाठः (Word-by-word)
ऋध᳚क् । इ॒त्था । सः । मर्त्यः᳚ । श॒श॒मे । दे॒व॑ता᳚तये ।
यः । नू॒नम् । मि॒त्रावरु᳚णौ । अ॒भिष्ट᳚ये । आ॒॑च॒क्रे । ह॒व्य॑दा᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो मनुष्यो नूनं क्षिप्रं हव्यदातये हविषां प्रदात्रे यजमानाय मित्रावरुणौ अभिष्टये अभिमतसिध्यर्थं आचके अभिमुखौ करोति । समर्त्यो मनुष्यः ऋधक् सत्यं इत्था इत्थं देवतातये यज्ञार्थं शशमे हविः संस्करोति ॥ १ ॥

8.101.2
वर्षि᳚ष्ठक्षत्रा उरु॒चक्ष᳚सा॒ नरा॒ राजा᳚ना दीर्घ॒श्रुत्त᳚मा ।
ता बा॒हुता॒ न दं॒सना᳚ रथर्यतः सा॒कं सूर्य᳚स्य र॒श्मिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
वर्षि᳚ष्ठ॑क्षत्रौ । उ॒रु॒॑चक्ष᳚सा । नरा᳚ । राजा᳚ना । दी॒र्घ॒श्रुत्॑त᳚मा ।
ता । बा॒हुता᳚ । न । दं॒सना᳚ । र॒थ॒र्य॒तः॒ । सा॒कम् । सूर्य᳚स्य । र॒श्मि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वर्षिष्ठक्षत्रौ अतिशयेनवृद्धबलौ उरुचक्षसा महादर्शनौ नरा नेतारौ कर्मणां राजाना दीप्यमानौ दीर्घश्रुत्तमा अतिशयेन विद्वांसौ ता तौ मित्रावरुणौ बाहुता न भुजाविव सूर्यस्यरश्मिभिः करणैः साकं सह दंसना दंसनानि कर्माणि । अपः अप्नः दंस इति कर्मनामसु पाठात् । रथर्यतः प्राप्नुतः यथा बाहू सह कर्म प्राप्नुतः तथा मित्रावरुणौ सह यज्ञं प्राप्नुतइत्यर्थः ॥ २ ॥

8.101.3
प्र यो वां᳚ मित्रावरुणाजि॒रो दू॒तो अद्र᳚वत् ।
अयः᳚शीर्षा॒ मदे᳚रघुः ॥
▶ पदपाठः (Word-by-word)
प्र । यः । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒जि॒रः । दू॒तः । अद्र᳚वत् ।
अयः᳚॑शीर्षा । मदे᳚॑रघुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवां अजिरो गमनशीलो यो यजमानः प्राद्रवत् अभिगच्छति सदेवानां दूतोभवति । अयःशीर्षा हिरण्यालंकृतशिराश्च भवति । मदेरघुः मदकरे धने गन्ताच भवति ॥ ३ ॥

8.101.4
न यः स॒म्पृच्छे॒ न पुन॒र्हवी᳚तवे॒ न सं᳚वा॒दाय॒ रम᳚ते ।
तस्मा᳚न्नो अ॒द्य समृ᳚तेरुरुष्यतं बा॒हुभ्यां᳚ न उरुष्यतम् ॥
▶ पदपाठः (Word-by-word)
न । यः । स॒म्॑पृच्छे᳚ । न । पुनः᳚ । हवी᳚तवे । न । स॒म्॑वा॒दाय᳚ । रम᳚ते ।
तस्मा᳚त् । नः॒ । अ॒द्य । सम्॑ऋ᳚तेः । उ॒रु॒ष्य॒त॒म् । बा॒हु॑भ्या᳚म् । नः॒ । उ॒रु॒ष्य॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः शत्रुः संपृच्छे संप्रश्नाय न रमते न क्रीडते । नच पुनःपुनर्हवीतवे हवनाय रमते । नचसंवादाय रमते । तस्माच्छत्रोः समृतेः संग्रामात् नोस्मान् अद्य उरुष्यतं हे मित्रावरुणौ युवां रक्षतम् । किंच तस्य शत्रोर्बाहुभ्यां नोस्मानुरुष्यतं रक्षतम् ॥ ४ ॥

8.101.5
प्र मि॒त्राय॒ प्रार्य॒म्णे स᳚च॒थ्य᳚मृतावसो ।
व॒रू॒थ्यं१॒᳚ वरु᳚णे॒ छन्द्यं॒ वचः᳚ स्तो॒त्रं राज᳚सु गायत ॥
▶ पदपाठः (Word-by-word)
प्र । मि॒त्राय᳚ । प्र । अ॒र्य॒म्णे । स॒च॒थ्य᳚म् । ऋ॒त॒व॒सो॒ इत्यृ᳚त॑वसो ।
व॒रू॒थ्य᳚म् । वरु᳚णे । छन्द्य᳚म् । वचः᳚ । स्तो॒त्रम् । राज᳚॑सु । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋतवसो यज्ञधन मित्राय सचथ्यं सेवार्हं वरूथ्यं यज्ञगृहभवं च स्तोत्रं प्रगायत प्रकर्षेण गायत अर्यम्णेच प्रगायत वरुणे छन्द्यं प्रीणनसाधनं चैतादृशं वचः प्रगायत । प्रगायतेति बहुवचनं पूजार्थम् । एतदेव दर्शयति राजसु मित्रादिषु राजसु स्तोत्रं गायत पठत मित्रादीन् त्रीन् राज्ञः स्तुतेति समुदायार्थः ॥ ५ ॥

8.101.6
ते हि᳚न्विरे अरु॒णं जेन्यं॒ वस्वेकं᳚ पु॒त्रं ति᳚सॄ॒णाम् ।
ते धामा᳚न्य॒मृता॒ मर्त्या᳚ना॒मद᳚ब्धा अ॒भि च᳚क्षते ॥
▶ पदपाठः (Word-by-word)
ते । हि॒न्वि॒रे॒ । अ॒रु॒णम् । जेन्य᳚म् । वसु᳚ । एक᳚म् । पु॒त्रम् । ति॒सॄ॒णाम् ।
ते । धामा᳚नि । अ॒मृताः᳚ । मर्त्या᳚नाम् । अद᳚ब्धाः । अ॒भि । च॒क्ष॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुणमरुणवर्णं जेन्यं जयसाधनं वसु वासकं तिसॄणां पृथिव्यादीनामेकं पुत्रं ते देवाहिन्विरे प्रेरयन्ति त्रैलोक्यस्य तमोनिवारणाय । किंच अदब्धाः केनाप्यहिंसिताः अमृताः मरणरहितास्तेदेवाः मर्त्यानां मनुष्याणां धामानि स्थानानि अभिचक्षते अभिपश्यन्ति ॥ ६ ॥

8.101.7
आ मे॒ वचां॒स्युद्य᳚ता द्यु॒मत्त᳚मानि॒ कर्त्वा᳚ ।
उ॒भा या᳚तं नासत्या स॒जोष᳚सा॒ प्रति᳚ ह॒व्यानि᳚ वी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
आ । मे॒ । वचां᳚सि । उत्॑य᳚ता । द्यु॒मत्॑त᳚मानि । कर्त्वा᳚ ।
उ॒भा । या॒त॒म् । ना॒स॒त्या॒ । स॒॑जोष᳚सा । प्रति᳚ । ह॒व्यानि᳚ । वी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या नासत्यौ सत्यस्य प्रणेतारौ सजोषसा संगतौ उभा उभौ युवां मे जमदग्नेर्मम उद्यता उद्यतानि द्युमत्तमानि दीप्ततमानि वचांसि स्तोत्ररूपाणि वाक्यानि कर्त्वा कर्माणि चायातम् । किंच हव्यानि हवींषि वीतये भक्षणाय प्रतिगच्छतम् ॥ ७ ॥

8.101.8 समानपद
रा॒तिं यद्वा᳚मर॒क्षसं॒ हवा᳚महे यु॒वाभ्यां᳚ वाजिनीवसू ।
प्राचीं॒ होत्रां᳚ प्रति॒रन्ता᳚वितं नरा गृणा॒ना ज॒मद᳚ग्निना ॥
▶ पदपाठः (Word-by-word)
रा॒तिम् । यत् । वा॒म् । अ॒र॒क्षस᳚म् । हवा᳚महे । यु॒वाभ्या᳚म् । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ।
प्राची᳚म् । होत्रा᳚म् । प्र॒॑ति॒रन्तौ᳚ । इ॒त॒म् । न॒रा॒ । गृ॒णा॒ना । ज॒मत्॑अ᳚ग्निना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवसु अन्नधनावश्विनौ वां युवयोः संबन्धि यदरक्षसं रक्षोवर्जितं दानमस्ति तद्यदा हवामहे याचामहे । एतदेव विशदयति युवाभ्यां क्रियमाणां रातिं दानं हवामहे इति तदानीं प्राचीं प्राङ्मुखां होत्रां स्तुतिं प्रतिरन्तौ वर्धयन्तौ नरा नेतारौ जमदग्निना ऋषिणा गृणाना स्तूयमानौ सन्तौ इतं आगच्छतम् ॥ ८ ॥

8.101.9
आ नो᳚ य॒ज्ञं दि᳚वि॒स्पृशं॒ वायो᳚ या॒हि सु॒मन्म᳚भिः ।
अ॒न्तः प॒वित्र᳚ उ॒परि᳚ श्रीणा॒नो॒३॒᳚॑यं शु॒क्रो अ᳚यामि ते ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । य॒ज्ञम् । दि॒वि॒॑स्पृश᳚म् । वायो॒ इति᳚ । या॒हि । सु॒मन्म᳚॑भिः ।
अ॒न्तरिति᳚ । प॒वित्रे᳚ । उ॒परि᳚ । श्री॒णा॒नः । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो त्वं नोस्माकं दिविस्पृशं तं यज्ञमायाहि । किमर्थमागमनमित्यत्राह-सुमन्मभिः सुष्टुतिभिः अन्तः पवित्रे पवित्रस्यमध्ये उपरिश्रीणानः श्रयमाणो निषिच्यमाणोयं शुक्रः सोमस्ते तुभ्यं अयामि नियताअसीदिति ॥ ९ ॥

8.101.10
वेत्य᳚ध्व॒र्युः प॒थिभी॒ रजि᳚ष्ठै॒ः प्रति᳚ ह॒व्यानि᳚ वी॒तये᳚ ।
अधा᳚ नियुत्व उ॒भय᳚स्य नः पिब॒ शुचिं॒ सोमं॒ गवा᳚शिरम् ॥
▶ पदपाठः (Word-by-word)
वेति᳚ । अ॒ध्व॒र्युः । प॒थि॑भिः᳚ । रजि᳚ष्ठैः । प्रति᳚ । ह॒व्यानि᳚ । वी॒तये᳚ ।
अध᳚ । नि॒यु॒त्वः॒ । उ॒भय᳚स्य । नः॒ । पि॒ब॒ । शुचि᳚म् । सोम᳚म् । गो॑आ᳚शिरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नियुत्वः नियुत्संज्ञकाश्ववन्वायो अध्वर्युः हविर्धानात् रजिष्ठैः ऋजुतमैः पथिभिर्मार्गैः वेतिगच्छति वीतये भक्षणाय । तव भक्षणानि हव्यानि हवींषिच प्रतिनयतीतिशेषः । अध अथ नोस्माकं संबन्धिनं उभयस्य उभयविधं सोमं कर्मणिषष्ठी पिब । उभयविधत्वं दर्शयति शुचिं शुद्धं सोमं गवाशिरं गव्येन पयसा मिश्रितं चेति ॥ १० ॥

8.101.11
बण्म॒हा{4} अ᳚सि सूर्य॒ बळा᳚दित्य म॒हा{4} अ᳚सि ।
म॒हस्ते᳚ स॒तो म᳚हि॒मा प᳚नस्यते॒॑द्धा दे᳚व म॒हा{4} अ᳚सि ॥
▶ पदपाठः (Word-by-word)
बट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ ।
म॒हः । ते॒ । स॒तः । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒द्धा । दे॒व॒ । म॒हान् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य त्वं महान् तेजसाधिकोसि बट् सत्यं नैतन्मिथ्येत्यर्थः । हे आदित्य अदितेः पुत्र त्वं महान् बलेनाप्यधिकोसि बट् सत्यम् । महो महतः सतोभवतः ते महिमा महत्त्वं पनस्यते स्तोतृभिः स्तूयते । हे देव द्योतनादिगुणयुक्त सूर्य त्वं महान् वीर्येणाप्यधिकोसि भवसि । अद्धा सत्यमेव अत्र नसंशयइत्यर्थः । बट् सत्रा अद्धेति सत्यनामसु पाठात ॥ ११ ॥

8.101.12
बट् सू᳚र्य॒ श्रव᳚सा म॒हा{4} अ᳚सि स॒त्रा दे᳚व म॒हा{4} अ᳚सि ।
म॒ह्ना दे॒वाना᳚मसु॒र्य᳚ः पु॒रोहि᳚तो वि॒भु ज्योति॒रदा᳚भ्यम् ॥
▶ पदपाठः (Word-by-word)
बट् । सू॒र्य॒ । श्रव᳚सा । म॒हान् । अ॒सि॒ । स॒त्रा । दे॒व॒ । म॒हान् । अ॒सि॒ ।
म॒ह्ना । दे॒वाना᳚म् । अ॒सु॒र्यः᳚ । पु॒रः॑हि᳚तः । वि॒॑भु । ज्योतिः᳚ । अदा᳚भ्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य त्वं श्रवसा श्रवणेन महान् सर्वाधिकोसि बट् सत्यम् । हे देव द्योतमान सूर्य त्वं देवानां मध्ये मह्ना महत्त्वेन महान् अधिकोसि । सत्रा सत्यमेव असुर्यः असुराणां हन्ताचासि । किंच त्वं देवानां पुरोहितो हितोपदेष्टासि । किंच ते ज्योतिस्तेजोविभु महत् अदाभ्यं केनाप्यहिंस्यं च ॥ १२ ॥

8.101.13 समानपद
इ॒यं या नीच्य॒र्किणी᳚ रू॒पा रोहि᳚ण्या कृ॒ता ।
चि॒त्रेव॒ प्रत्य᳚दर्श्याय॒त्य१॒᳚न्तर्द॒शसु᳚ बा॒हुषु᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । या । नीची᳚ । अ॒र्किणी᳚ । रू॒पा । रोहि᳚ण्या । कृ॒ता ।
चि॒त्रा॑इ᳚व । प्रति᳚ । अ॒द॒र्शि॒ । आ॒॑य॒ती । अ॒न्तः । द॒श॑सु᳚ । बा॒हुषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यामृच्युषसःस्तुतिः । सूर्यप्रभायावा । येयं नीची अवाङ्मुखी अर्किणी स्तुतिमती रूपा रूपवती रोहिण्या प्रकाशयुक्ता कृता उषाः सूर्य- प्रभावोत्पादिता सा अन्तर्ब्रह्मांडस्यमध्ये बाहुषु बाहुस्थानीयासु दशसु दशसंख्याकासु दिक्षु आयती आगच्छती चित्रेव चित्रागौरिव प्रत्यदर्शि सर्वैरदृश्यत ॥ १३ ॥

8.101.14
प्र॒जा ह᳚ ति॒स्रो अ॒त्याय᳚मीयु॒र्न्य१॒᳚न्या अ॒र्कम॒भितो᳚ विविश्रे ।
बृ॒हद्ध᳚ तस्थौ॒ भुव᳚नेष्व॒न्तः पव᳚मानो ह॒रित॒ आ वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
प्र॒॑जाः । ह॒ । ति॒स्रः । अ॒ति॒॑आय᳚म् । ई॒युः॒ । नि । अ॒न्याः । अ॒र्कम् । अ॒भितः᳚ । वि॒वि॒श्रे॒ ।
बृ॒हत् । ह॒ । त॒स्थौ॒ । भुव᳚नेषु । अ॒न्तरिति᳚ । पव᳚मानः । ह॒रितः᳚ । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यास्तिस्रः प्रजाः अत्यायमीयुः अत्यायमायन् अन्यास्ताइमाः प्रजाः अर्कमर्चनीयमग्निं अभितोनिविविश्रे अभितोनिविष्टाः ततोनपराबभूवुः । भुवनेष्वन्तर्मध्ये बृहत् महानसावादित्यः प्रजापतिरित्येके तस्थौ प्रकाशयन्नतिष्ठत् हरितोदिशःपवमानोवायुराविवेश आविष्टः । हौ पूरणौ । तथाचैतस्यब्राह्मणं-प्रजाहतिस्रोअत्यायमीयुरिति यावैताइमाः प्रजास्तिस्रोअत्यायमायंस्तानीमानि वयांसि वंगावगधाश्चेररपादान्यन्या अर्कमभितोविविश्रइति ताइमाः प्रजा अर्कमभितोनिविष्टा इममेवाग्निं बृहद्धतस्थौ भुवनेष्वन्तरित्यदउ एवबृहद्भुवनेष्वन्तरसावादित्यः पवमानोहरित आविवेशेति वायुरेव पवमानो दिशोहरित आविष्टइति । वाजसनेयिनोप्यामनन्ति-सतपोतप्यत सप्रजाअसृजत ताअस्यप्रजाः सृष्टाः पराबभूवुः तानीमानिवयांसीत्युपक्रम्य प्रजाहतिस्रोअत्या यमीयुरिति याअमूः प्रजाअत्यायन् न्यन्याअर्कमभितोविविश्रइति अग्निर्वा- अर्कस्तमिमाः प्रजाअभितोनिविष्टास्ताइमाः पराभूता बृहद्धतस्थौभुवनेष्वन्तरिति प्रजापतिमेवैतदभ्यनूक्तं पवमानो हरितआविवेशेति दिशोवैहरितस्ता अयं पवमानआविष्टइति ॥ १४ ॥

8.101.15
मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू᳚नां॒ स्वसा᳚दि॒त्याना᳚म॒मृत᳚स्य॒ नाभि᳚ः ।
प्र नु वो᳚चं चिकि॒तुषे॒ जना᳚य॒ मा गामना᳚गा॒मदि᳚तिं वधिष्ट ॥
▶ पदपाठः (Word-by-word)
मा॒ता । रु॒द्राणा᳚म् । दु॒हि॒ता । वसू᳚नाम् । स्वसा᳚ । आ॒दि॒त्याना᳚म् । अ॒मृत᳚स्य । नाभिः᳚ ।
प्र । नु । वो॒च॒म् । चि॒कि॒तुषे᳚ । जना᳚य । मा । गाम् । अना᳚गाम् । अदि᳚तिम् । व॒धि॒ष्ट॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मिन् द्वृचे गौःस्तूयते-या गौः रुद्राणां रुद्रपुत्राणां मरुतां माता जननी वसूनां दुहिता पुत्री आदित्यानां स्वसा भगिनी अमृतस्य पयसोनाभिः आवासस्थानं तां अनागां अनागसं अदितिमदीनां गां गोरुपां देवीं मावधिष्ट हे जना माहिंसिष्टेति चिकितुषे चेतनावते जनाय नु इदानीं प्रवोचं अहं प्रावोचमिति शुश्रूषमाणेभ्यउपदेशः ॥ १५ ॥

8.101.16
व॒चो॒विदं॒ वाच᳚मुदी॒रय᳚न्तीं॒ विश्वा᳚भिर्धी॒भिरु᳚प॒तिष्ठ᳚मानाम् ।
दे॒वीं दे॒वेभ्य॒ः पर्ये॒युषीं॒ गामा मा᳚वृक्त॒ मर्त्यो᳚ द॒भ्रचे᳚ताः ॥
▶ पदपाठः (Word-by-word)
व॒चः॒॑विद᳚म् । वाच᳚म् । उ॒त्॑ई॒रय᳚न्तीम् । विश्वा᳚भिः । धी॒भिः । उ॒प॒॑तिष्ठ᳚मानाम् ।
दे॒वीम् । दे॒वेभ्यः᳚ । परि᳚ । आ॒॑ई॒युषी᳚म् । गाम् । आ । मा॒ । अ॒वृ॒क्त॒ । मर्त्यः᳚ । द॒भ्र॑चे᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वचोविदं वचसोलंभयित्रीमं वाचमुदीरयन्ती पयाः पीत्वा पश्चाद्वाचमुदीरयन्तीम् । श्रुधितोहि जनो न वाचमुदीरयति भुत्त्का पश्चादु- दीरयति । विश्वाभिः सर्वाभिर्धीभिर्वाग्भिः उपतिष्ठमानां देवीं द्योतमानां देवेभ्यो देवार्थं मा मां एयुषीं अवगच्छन्तीं गां दभ्रचेता अल्पबुद्धिर्मर्त्योमनुष्यः पर्यावृक्त परिवर्जयति ॥ १६ ॥

त्वमग्नइति द्वाविंशत्यृचं नवमं सूक्तं गायत्रमाग्नेयम् । भृगुगोत्रः प्रयोगोनामऋषिः बार्हस्पत्यः पावकविशेषेण विशिष्टोग्न्याख्योवा । यद्वा सहोनाम्नःपुत्रौ गृहपतियविष्ठसंज्ञकौ द्वावग्नी तौ सहेदं सूक्तमपश्यतां तस्मादस्य तावृषी । अथवा तयोरन्यतरः । तथाचानुक्रान्तं-त्वमग्नेद्मधिका भार्गवः प्रयोगो बार्हस्पत्योवाग्निःपावकः सहससुतयोर्वाग्न्योर्गृहपतियविष्ठयोर्वान्यतर आग्नेयंत्विति । प्रातरनुवाकस्याग्नेयेक्रतौ गायत्रेछन्दसि आदितोष्टादशर्चः । सूत्रितंच-त्वमग्नेबृहद्वयइत्यष्टादशार्चन्तस्त्वेतिसूक्तेइति । देवसुवांहविःष्वग्नेर्गृहपतेरनुवाक्या त्वमग्नेबृहद्वयइत्येषा । सूत्रितंचत्वमग्नेबृहद्वयो हव्यवाळग्निरजरःपितानइति । अन्वारंभणीयायामग्नेर्भगिनोनुवाक्या आसवंसवितुरित्येषा । सूत्रितंच-आसवंसवितुर्यथा सनोराधांस्याभरेति । आभिप्लविकेषूक्थ्येषु तृतीयसवने मैत्रावरुणस्याग्निंवोवृधन्तमिति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितंच-अग्निंवोवृधन्तम- ग्नेयंयज्ञमध्वरमिति । दशमेहनि इमंनोयज्ञमिति स्तोकसूक्तस्य द्वितीयस्यस्थाने अग्नेघृतस्येत्येषा । सूत्रितंच-स्तोकसूक्तस्य द्वितीयतृतीययोः- स्थानेग्नेघृतस्यधीतिभिरुमेसुश्चन्द्रसर्पिषइत्येते इति ।