अष्टमं मण्डलम् - सूक्तम् 40

12 ऋचः

ऋषिः: नाभाकः काण्वः देवता: इंद्राग्नी छन्दः: महापंक्तिः

सूक्तम् 8.40 - सम्पूर्णम्

1 / 12
ऋक्: 8.40.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
8.40.1
इन्द्रा᳚ग्नी यु॒वं सु न॒ः सह᳚न्ता॒ दास᳚थो र॒यिम् ।
येन᳚ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि᳚त्साहिषी॒मह्य॒ग्निर्वने᳚व॒ वात॒ इन्नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । यु॒वम् । सु । नः॒ । सह᳚न्ता । दास᳚थः । र॒यिम् ।
येन᳚ । दृ॒ळ्हा । स॒मत्॑सु᳚ । आ । वी॒ळु । चि॒त् । स॒हि॒षी॒महि᳚ । अ॒ग्निः । वना᳚॑इव । वाते᳚ । इत् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी सहन्ता शत्रूनभिभवन्तौ युवं युवां नोस्मभ्यं रयिं धनं सुष्ठु दासथः दत्तम् । तं रयिं विशिनष्टि येन रयिणा समत्सु संग्रामे दृढाचित् दृढानि स्थिराण्यपि वीळु शत्रुबलानि अग्निर्वनेव यथाग्निर्वनानि वातइद्वातेनैवाभिभवति तथा सहिषीमहि अभिभवाम । सिद्धमन्यत् ॥ १ ॥

8.40.2
न॒हि वां᳚ व॒व्रया᳚म॒हे॑थेन्द्र॒मिद्य᳚जामहे॒ शवि᳚ष्ठं नृ॒णां नर᳚म् ।
स नः᳚ क॒दा चि॒दर्व᳚ता॒ गम॒दा वाज᳚सातये॒ गम॒दा मे॒धसा᳚तये॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
न॒हि । वा॒म् । व॒व्रया᳚महे । अथ᳚ । इन्द्र᳚म् । इत् । य॒जा॒म॒हे॒ । शवि᳚ष्ठम् । नृ॒णाम् । नर᳚म् ।
सः । नः॒ । क॒दा । चि॒त् । अर्व᳚ता । गम᳚त् । आ । वाज᳚॑सातये । गम᳚त् । आ । मे॒ध॑सा᳚तये । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी वां युवां न वव्रयामहे वयं धनं न याचामहे । अथत्द्यपि तर्हि शविष्ठं अतिशयेन बलवन्तं नृणां नरं नेतॄणामपि नेतारं इन्द्रमिदिन्द्रमेव यजामहे सइन्द्रो नोस्मानर्वताश्वेन कदाचिद्वाजसातयेन्नलाभायागमदागच्छति कदाचिन्मेधसातथे यज्ञभजनायागमत् । सिद्धमन्यत् ॥ २ ॥

8.40.3
ता हि मध्यं॒ भरा᳚णामिन्द्रा॒ग्नी अ᳚धिक्षि॒तः ।
ता उ᳚ कवित्व॒ना क॒वी पृ॒च्छ्यमा᳚ना सखीय॒ते सं धी॒तम᳚श्नुतं नरा॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
ता । हि । मध्य᳚म् । भरा᳚णाम् । इ॒न्द्रा॒ग्नी इति᳚ । अ॒धि॒॑क्षि॒तः ।
ता । ऊं॒ इति᳚ । क॒वि॒॑त्व॒ना । क॒वी इति᳚ । पृ॒च्छ्यमा᳚ना । स॒खि॒॑य॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । न॒रा॒ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ प्रसिद्धाविन्द्राग्नी भरणां मध्यं अधिक्षितः अधिनिवसतो हि । अथ प्रत्यक्षस्तुतिः हे नरा नेतारौ कवित्वना कवित्वेन कवी क्रान्तकर्माणौ पृच्छ्यमाना कविजनैः पृच्छ्यमानौ ताउ ता वेवयुवां सखीयते सखित्वमिच्छते यजमानाय धीतं तत्कृतं कर्म समश्नुतम् । सिद्धमन्यत् ॥ ३ ॥

8.40.4
अ॒भ्य᳚र्च नभाक॒वदि᳚न्द्रा॒ग्नी य॒जसा᳚ गि॒रा ।
ययो॒र्विश्व᳚मि॒दं जग᳚दि॒यं द्यौः पृ᳚थि॒वी म॒ह्यु१॒᳚पस्थे᳚ बिभृ॒तो वसु॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अ॒भि । अ॒र्च॒ । न॒भा॒क॒॑वत् । इ॒न्द्रा॒ग्नी इति᳚ । य॒जसा᳚ । गि॒रा ।
ययोः᳚ । विश्व᳚म् । इ॒दम् । जग᳚त् । इ॒यम् । द्यौः । पृ॒थि॒वी । म॒ही । उ॒प॑स्थे᳚ । बि॒भृ॒तः । वसु᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नाभाक नभाकवत् नभाकवन्ताविन्द्राग्नी यजसा यागेन गिरा स्तुत्या चाभ्यर्चाभिपूजय । ययोरिन्द्राग्न्योर्विश्वं सर्वमिदं जगत्तिष्ठति ययोश्चोपस्थे इयं द्यौर्मही महती पृथिवी च द्यावापृथिव्यावुभे वसु धनं बिभृतो धारयतः । सिद्धमन्यत् ॥ ४ ॥

8.40.5
प्र ब्रह्मा᳚णि नभाक॒वदि᳚न्द्रा॒ग्निभ्या᳚मिरज्यत ।
या स॒प्तबु᳚ध्नमर्ण॒वं जि॒ह्मबा᳚रमपोर्णु॒त इन्द्र॒ ईशा᳚न॒ ओज᳚सा॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
प्र । ब्रह्मा᳚णि । न॒भा॒क॒॑वत् । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । इ॒र॒ज्य॒त॒ ।
या । स॒प्त॑बु᳚ध्नम् । अ॒र्ण॒वम् । जि॒ह्म॑बा᳚रम् । अ॒प॒॑ऊ॒र्णु॒तः । इन्द्रः᳚ । ईशा᳚नः । ओज᳚सा । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्माणि स्तोत्राणि इन्द्राग्निभ्यां नभाकवत् प्रेरज्यत नाभाकः प्रेरयते । या याविन्द्राग्नी सप्तबुध्नं सप्तमूलं जिह्मबारं पिहितद्वारमर्णवमपोर्णुतस्तेजो- भिराच्छादयतः तयोर्मध्ये ओजसा बलेनेन्द्रईशानईश्वरोभवति । सिद्धमन्यत् ॥ ५ ॥

8.40.6
अपि᳚ वृश्च पुराण॒वद्व्र॒तते᳚रिव गुष्पि॒तमोजो᳚ दा॒सस्य᳚ दम्भय ।
व॒यं तद᳚स्य॒ सम्भृ᳚तं॒ वस्विन्द्रे᳚ण॒ वि भ᳚जेमहि॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अपि᳚ । वृ॒श्च॒ । पु॒रा॒ण॒॑वत् । व्र॒ततेः᳚॑इव । गु॒ष्पि॒तम् । ओजः᳚ । दा॒सस्य᳚ । द॒म्भ॒य॒ ।
व॒यम् । तत् । अ॒स्य॒ । सम्॑भृ᳚तम् । वसु᳚ । इन्द्रे᳚ण । वि । भ॒जे॒म॒हि॒ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपिच हे इन्द्र पुराणवत्प्रत्नो यथा व्रततेरिव यथा लतायागुष्पितं निर्गतां शाखां वृश्चति तथा शत्रूणां वृश्च छेदय । तदेवाह दासस्य दासनामकस्य शत्रोः ओजोबलं दंभय नाशय । अथ परोक्षस्तुतिः वयं नाभाकाः अस्य दासस्य तत्प्रसिद्धं संभृतं वसु इन्द्रेण हेतुना विभजेमहि । सिद्धमन्यत् ॥ ६ ॥

8.40.7
यदि᳚न्द्रा॒ग्नी जना᳚ इ॒मे वि॒ह्वय᳚न्ते॒ तना᳚ गि॒रा ।
अ॒स्माके᳚भि॒र्नृभि᳚र्व॒यं सा᳚स॒ह्याम᳚ पृतन्य॒तो व᳚नु॒याम᳚ वनुष्य॒तो नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी इति᳚ । जनाः᳚ । इ॒मे । वि॒॑ह्वय᳚न्ते । तना᳚ । गि॒रा ।
अ॒स्माके᳚भिः । नृ॑भिः᳚ । व॒यम् । स॒स॒ह्याम᳚ । पृ॒त॒न्य॒तः । व॒नु॒याम᳚ । व॒नु॒ष्य॒तः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् ये इमे जनाः तना धनेन गिरा स्तुत्या च इन्द्राग्नी विह्वयन्ते विशेषेण ह्वयन्ति तेषु मध्ये वयं नाभाकाः पृतन्यतः पृतनामिच्छन्तः अस्माकेभि- रस्माकीनैर्नृभिर्मनुष्यैः ससह्याम शत्रूनभिभवेम । वनुष्यतः स्तुतिमिच्छन्तः शत्रून् वनुयामच । सिद्धमन्यत् ॥ ७ ॥

8.40.8
या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा᳚त॒ उप॒ द्युभि᳚ः ।
इ॒न्द्रा॒ग्न्योरनु᳚ व्र॒तमुहा᳚ना यन्ति॒ सिन्ध᳚वो॒ यान्त्सीं᳚ ब॒न्धादमु᳚ञ्चतां॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
या । नु । श्वे॒तौ । अ॒वः । दि॒वः । उ॒त्॑चरा᳚तः । उप᳚ । द्यु॑भिः᳚ ।
इ॒न्द्रा॒ग्न्योः । अनु᳚ । व्र॒तम् । उहा᳚नाः । य॒न्ति॒ । सिन्ध᳚वः । यान् । सी॒म् । ब॒न्धात् । अमु᳚ञ्चताम् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यानु यावेवेन्द्राग्नी श्वेतौ श्वेतवर्णौ सत्वगुणोपेतावित्यर्थः अवोधस्तात् द्युभिर्दीप्तिभिर्दिवउपोच्चरातः उच्चरतस्तयोरेवेन्द्राग्न्योः उहानाः हविर्वहन्तो यजमानाः व्रतं कर्मानुयन्ति । अपि सीमिमाविन्द्राग्नी यान् प्रसिद्धान् सिन्धवः सिन्धून् बन्धात् बन्धनादमुञ्चताम् । सिद्धमन्यत् ॥ ८ ॥

8.40.9
पू॒र्वीष्ट᳚ इ॒न्द्रोप᳚मातयः पू॒र्वीरु॒त प्रश᳚स्तय॒ः सूनो᳚ हि॒न्वस्य᳚ हरिवः ।
वस्वो᳚ वी॒रस्या॒पृचो॒ या नु साध᳚न्त नो॒ धियो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप᳚॑मातयः । पू॒र्वीः । उ॒त । प्र॑श᳚स्तयः । सूनो॒ इति᳚ । हि॒न्वस्य᳚ । ह॒रि॒॑वः॒ ।
वस्वः᳚ । वी॒रस्य᳚ । आ॒॑पृचः᳚ । याः । नु । साध᳚न्त । नः॒ । धियः᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरिवो वज्रिन् सूनो प्रेरयितरिन्द्र हिन्वस्य प्रीणयितुः वस्वोदीपकस्य वीरस्यापृचोधनान्युपयच्छतस्ते तव ता उपमातयउपमानानि पूर्वीर्बहूनि उतापिच प्रशस्तयः पूर्वीः याः नोस्माकं धियः प्रज्ञां नु क्षिप्रं साधन्तासाधयन् । सिद्धमन्यत् ॥ ९ ॥

8.40.10
तं शि᳚शीता सुवृ॒क्तिभि᳚स्त्वे॒षं सत्वा᳚नमृ॒ग्मिय᳚म् ।
उ॒तो नु चि॒द्य ओज᳚सा॒ शुष्ण᳚स्या॒ण्डानि॒ भेद᳚ति॒ जेष॒त्स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
तम् । शि॒शी॒त॒ । सु॒वृ॒क्ति॑भिः᳚ । त्वे॒षम् । सत्वा᳚नम् । ऋ॒ग्मिय᳚म् ।
उ॒तो इति᳚ । नु । चि॒त् । यः । ओज᳚सा । शुष्ण᳚स्य । आ॒ण्डानि᳚ । भेद᳚ति । जेष᳚त् । स्वः᳚॑वतीः । अ॒पः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः त्वेषं दीप्तं सत्वानं संभक्तारं धनानां ऋग्मियं ऋगर्हं ऋग्भिः स्तोतव्यं तमिन्द्रं सुवृक्तिभिः स्तुतिभिः शिशीत संस्कुरुत । उतोनुचित् अपिच यः इन्द्रः ओजसा बलेन शुष्णस्य शुष्णनामकस्यासुरस्याण्डान्यण्डजातान्यपत्यानि भेदत्यभिनत् सः स्वर्वतीर्दिव्यान्यपः सलिलानि जेषज्ज- यतु । सिद्धमन्यत् ॥ १० ॥

8.40.11
तं शि᳚शीता स्वध्व॒रं स॒त्यं सत्वा᳚नमृ॒त्विय᳚म् ।
उ॒तो नु चि॒द्य ओह᳚त आ॒ण्डा शुष्ण᳚स्य॒ भेद॒त्यजै॒ः स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
तम् । शि॒शी॒त॒ । सु॒॑अ॒ध्व॒रम् । स॒त्यम् । सत्वा᳚नम् । ऋ॒त्विय᳚म् ।
उ॒तो इति᳚ । नु । चि॒त् । यः । ओह᳚ते । आ॒ण्डा । शुष्ण᳚स्य । भेद᳚ति । अजैः᳚ । स्वः᳚॑वतीः । अ॒पः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः स्वध्वरं सुयज्ञं सत्यमविनाशं सत्वानं संभक्तारमृत्वियमृतौयष्टव्यं तमिन्द्रं शिशीत स्तुतिभिः संस्कुरुत । अथ प्रत्यक्षस्तुतिः उतोनुचित् अपिच यइन्द्रः ओहते यज्ञं प्रतिगच्छति शुष्णस्याण्डानि अण्डजातानिच भेदति भिनत्ति सत्वं स्वर्वतीर्दिव्यान्यपः सलिलान्यजैरजैषीः । सिद्धमन्यत् ॥ ११ ॥

8.40.12
ए॒वेन्द्रा॒ग्निभ्यां᳚ पितृ॒वन्नवी᳚यो मन्धातृ॒वद᳚ङ्गिर॒स्वद᳚वाचि ।
त्रि॒धातु᳚ना॒ शर्म᳚णा पातम॒स्मान्व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । पि॒तृ॒॑वत् । नवी᳚यः । म॒न्धा॒तृ॒॑वत् । अ॒ङ्गि॒र॒स्वत् । अ॒वा॒चि॒ ।
त्रि॒॑धातु᳚ना । शर्म᳚णा । पा॒त॒म् । अ॒स्मान् । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवैवं याभ्यामिन्द्राग्निभ्यां पितृवन्नभाकवत् यौवनाश्वमन्धातृवत् चांगिरस्वदंगिरोवच्च नवीयोनवतरमवाचि नाभाकेन मया पाठिताविन्द्राग्नी त्रि- धातुना त्रिपर्वणा शर्मणा गृहेण नोस्मान्नाभाकान् पातं रक्षतम् । वयं रयीणां धनानां पतयः स्वामिनः स्याम भवेम ॥ १२ ॥

अस्माऊष्विति दशर्चमेकादशं सूक्तं अत्रेयमनुक्रमणिका-अस्माऊषुदशवारुणंत्विति । नाभाकऋषिः अनुवृत्तत्वात् । महापांक्तंहीत्युक्तत्वादिदमपि महापांक्तम् । इदमादिकेद्वे सूक्ते वरुणदेवत्ये । विनियोगोलैंगिकः । चातुर्विंशिकेहनि माध्यन्दिनसवने मैत्रावरुणशस्त्रे आरंभणीयायाऊर्ध्वं सक्षपइत्य- यं नाभाकतृचः । सूत्रितञ्च-सक्षपःपरिषस्वजइति मैत्रावरुणइति यःककुभइत्येतत्प्रभृतिकोवा नाभाकतृचः सूत्रितञ्च-यः ककुभोनिधारयइतिचेति ।