श्रवणम्

8.40.7
यदि᳚न्द्रा॒ग्नी जना᳚ इ॒मे वि॒ह्वय᳚न्ते॒ तना᳚ गि॒रा ।
अ॒स्माके᳚भि॒र्नृभि᳚र्व॒यं सा᳚स॒ह्याम᳚ पृतन्य॒तो व᳚नु॒याम᳚ वनुष्य॒तो नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी इति᳚ । जनाः᳚ । इ॒मे । वि॒॑ह्वय᳚न्ते । तना᳚ । गि॒रा ।
अ॒स्माके᳚भिः । नृ॑भिः᳚ । व॒यम् । स॒स॒ह्याम᳚ । पृ॒त॒न्य॒तः । व॒नु॒याम᳚ । व॒नु॒ष्य॒तः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् ये इमे जनाः तना धनेन गिरा स्तुत्या च इन्द्राग्नी विह्वयन्ते विशेषेण ह्वयन्ति तेषु मध्ये वयं नाभाकाः पृतन्यतः पृतनामिच्छन्तः अस्माकेभि- रस्माकीनैर्नृभिर्मनुष्यैः ससह्याम शत्रूनभिभवेम । वनुष्यतः स्तुतिमिच्छन्तः शत्रून् वनुयामच । सिद्धमन्यत् ॥ ७ ॥