श्रवणम्

8.40.6
अपि᳚ वृश्च पुराण॒वद्व्र॒तते᳚रिव गुष्पि॒तमोजो᳚ दा॒सस्य᳚ दम्भय ।
व॒यं तद᳚स्य॒ सम्भृ᳚तं॒ वस्विन्द्रे᳚ण॒ वि भ᳚जेमहि॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अपि᳚ । वृ॒श्च॒ । पु॒रा॒ण॒॑वत् । व्र॒ततेः᳚॑इव । गु॒ष्पि॒तम् । ओजः᳚ । दा॒सस्य᳚ । द॒म्भ॒य॒ ।
व॒यम् । तत् । अ॒स्य॒ । सम्॑भृ᳚तम् । वसु᳚ । इन्द्रे᳚ण । वि । भ॒जे॒म॒हि॒ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपिच हे इन्द्र पुराणवत्प्रत्नो यथा व्रततेरिव यथा लतायागुष्पितं निर्गतां शाखां वृश्चति तथा शत्रूणां वृश्च छेदय । तदेवाह दासस्य दासनामकस्य शत्रोः ओजोबलं दंभय नाशय । अथ परोक्षस्तुतिः वयं नाभाकाः अस्य दासस्य तत्प्रसिद्धं संभृतं वसु इन्द्रेण हेतुना विभजेमहि । सिद्धमन्यत् ॥ ६ ॥