ए॒तत्त᳚ इन्द्र वी॒र्यं᳚ गी॒र्भिर्गृ॒णन्ति᳚ का॒रवः᳚ ।
ते स्तोभ᳚न्त॒ ऊर्ज᳚मावन्घृत॒श्चुतं᳚ पौ॒रासो᳚ नक्षन्धी॒तिभि᳚ः ॥
ए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य᳚म् । गीः॒॑भिः । गृ॒णन्ति᳚ । का॒रवः᳚ ।
ते । स्तोभ᳚न्तः । ऊर्ज᳚म् । आ॒व॒न् । घृ॒त॒॑श्चुत᳚म् । पौ॒रासः᳚ । न॒क्ष॒न् । धी॒ति॑भिः᳚ ॥
नक्ष᳚न्त॒ इन्द्र॒मव᳚से सुकृ॒त्यया॒ येषां᳚ सु॒तेषु॒ मन्द᳚से ।
यथा᳚ संव॒र्ते अम᳚दो॒ यथा᳚ कृ॒श ए॒वास्मे इ᳚न्द्र मत्स्व ॥
नक्ष᳚न्ते । इन्द्र᳚म् । अव᳚से । सु॒॑कृ॒त्यया᳚ । येषा᳚म् । सु॒तेषु᳚ । मन्द᳚से ।
यथा᳚ । स॒म्॑व॒र्ते । अम᳚दः । यथा᳚ । कृ॒शे । ए॒व । अ॒स्मे इति᳚ । इ॒न्द्र॒ । म॒त्स्व॒ ॥
आ नो॒ विश्वे᳚ स॒जोष᳚सो॒ देवा᳚सो॒ गन्त॒नोप᳚ नः ।
वस᳚वो रु॒द्रा अव᳚से न॒ आ ग᳚मञ्छृ॒ण्वन्तु᳚ म॒रुतो॒ हव᳚म् ॥
आ । नः॒ । विश्वे᳚ । स॒॑जोष᳚सः । देवा᳚सः । गन्त᳚न । उप᳚ । नः॒ ।
वस᳚वः । रु॒द्राः । अव᳚से । नः॒ । आ । ग॒म॒न् । शृ॒ण्वन्तु᳚ । म॒रुतः᳚ । हव᳚म् ॥
पू॒षा विष्णु॒र्हव᳚नं मे॒ सर᳚स्व॒त्यव᳚न्तु स॒प्त सिन्ध᳚वः ।
आपो॒ वात॒ः पर्व᳚तासो॒ वन॒स्पति᳚ः शृ॒णोतु᳚ पृथि॒वी हव᳚म् ॥
पू॒षा । विष्णुः᳚ । हव᳚नम् । मे॒ । सर᳚स्वती । अव᳚न्तु । स॒प्त । सिन्ध᳚वः ।
आपः᳚ । वातः᳚ । पर्व᳚तासः । वन॒स्पतिः᳚ । शृ॒णोतु᳚ । पृ॒थि॒वी । हव᳚म् ॥
यदि᳚न्द्र॒ राधो॒ अस्ति᳚ ते॒ माघो᳚नं मघवत्तम ।
तेन᳚ नो बोधि सध॒माद्यो᳚ वृ॒धे भगो᳚ दा॒नाय᳚ वृत्रहन् ॥
यत् । इ॒न्द्र॒ । राधः᳚ । अस्ति᳚ । ते॒ । माघो᳚नम् । म॒घ॒व॒त्॑त॒म॒ ।
तेन᳚ । नः॒ । बो॒धि॒ । स॒ध॒॑माद्यः᳚ । वृ॒धे । भगः᳚ । दा॒नाय᳚ । वृ॒त्र॒॑ह॒न् ॥
आजि᳚पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व᳚क्षि सुक्रतो ।
वी॒ती होत्रा᳚भिरु॒त दे॒ववी᳚तिभिः सस॒वांसो॒ वि शृ᳚ण्विरे ॥
आजि᳚॑पते । नृ॒॑प॒ते॒ । त्वम् । इत् । हि । नः॒ । वाजे᳚ । आ । व॒क्षि॒ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ।
वी॒ती । होत्रा᳚भिः । उ॒त । दे॒ववी᳚ति॑भिः । स॒स॒॑वांसः᳚ । वि । शृ॒ण्वि॒रे॒ ॥
सन्ति॒ ह्य१॒᳚र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना᳚नाम् ।
अ॒स्मान्न᳚क्षस्व मघव॒न्नुपाव᳚से धु॒क्षस्व᳚ पि॒प्युषी॒मिष᳚म् ॥
सन्ति᳚ । हि । अ॒र्ये । आ॒॑शिषः᳚ । इन्द्रे᳚ । आयुः᳚ । जना᳚नाम् ।
अ॒स्मान् । न॒क्ष॒स्व॒ । म॒घ॒॑व॒न् । उप᳚ । अव᳚से । धु॒क्षस्व᳚ । पि॒प्युषी᳚म् । इष᳚म् ॥
व॒यं त᳚ इन्द्र॒ स्तोमे᳚भिर्विधेम॒ त्वम॒स्माकं᳚ शतक्रतो ।
महि᳚ स्थू॒रं श᳚श॒यं राधो॒ अह्र᳚यं॒ प्रस्क᳚ण्वाय॒ नि तो᳚शय ॥
व॒यम् । ते॒ । इ॒न्द्र॒ । स्तोमे᳚भिः । वि॒धे॒म॒ । त्वम् । अ॒स्माक᳚म् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
महि᳚ । स्थू॒रम् । श॒श॒यम् । राधः᳚ । अह्र᳚यम् । प्रस्क᳚ण्वाय । नि । तो॒श॒य॒ ॥