अष्टमं मण्डलम् - सूक्तम् 9

21 ऋचः

ऋषिः: शशकर्णः काण्वः देवता: अश्विनौ छन्दः: बृहती

सूक्तम् 8.9 - सम्पूर्णम्

1 / 21
ऋक्: 8.9.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
8.9.1
आ नू॒नम᳚श्विना यु॒वं व॒त्सस्य᳚ गन्त॒मव᳚से ।
प्रास्मै᳚ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु᳚यु॒तं या अरा᳚तयः ॥
▶ पदपाठः (Word-by-word)
आ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य᳚ । ग॒न्त॒म् । अव᳚से ।
प्र । अ॒स्मै॒ । य॒च्छ॒त॒म् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । यु॒यु॒तम् । याः । अरा᳚तयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ युवं युवां वत्सस्य स्तोतुर्मम अवसे रक्षणार्थं नूनमवश्यं आगन्तमागच्छतम् आगत्यचास्माऋषये अवृकं बाधकरहितं पृथुविस्तीर्णं छर्दिर्गृहं प्रयच्छतं प्रदत्तम् । तथा याः अरातयः अदानशीलाः शत्रुभूताः प्रजास्तायुयुतं स्तोतृभ्यः पृथक्कुरुतम् ॥ १ ॥

8.9.2
यद॒न्तरि᳚क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु᳚षा{4}॒ अनु᳚ ।
नृ॒म्णं तद्ध᳚त्तमश्विना ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒न्तरि᳚क्षे । यत् । दि॒वि । यत् । पञ्च᳚ । मानु᳚षान् । अनु᳚ ।
नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्तरिक्षे गन्धर्वादिभिः सेविते मध्यमे लोके यन्नृम्णं धनमस्ति दिवि द्युलोकेच यदस्ति पञ्च पञ्चसंख्याकान्मानुषान् मनुष्यान् अनु । लक्षणे अनोःकर्मप्रवचनीयत्वम् कर्मप्रवचनीययुक्तइतिद्वितीया पञ्चविधामनुष्याः निषादपञ्चमाश्चत्वारोवर्णायत्रवर्तंते तत्रचेहलोके यन्नृ- म्णं धनमस्ति हे अश्विना अश्विनौ तन्त्रिविधं नृम्णं धनं धत्तं अस्मभ्यं प्रयच्छतम् ॥ २ ॥

8.9.3
ये वां॒ दंसां᳚स्यश्विना॒ विप्रा᳚सः परिमामृ॒शुः ।
ए॒वेत्का॒ण्वस्य᳚ बोधतम् ॥
▶ पदपाठः (Word-by-word)
ये । वा॒म् । दंसां᳚सि । अ॒श्वि॒ना॒ । विप्रा᳚सः । प॒रि॒॑म॒मृ॒शुः ।
ए॒व । इत् । का॒ण्वस्य᳚ । बो॒ध॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोः संबन्धीनि दंसांसि कर्माणि परिचरणात्मकानि ये विप्रासोविप्रामेधाविनोयजमानाः परिमामृशुः परिमृशन्ति पुनःपुनः स्पृशन्ति अनुतिष्ठन्तीत्यर्थः यथा तदीयानि परिचरणानि युवां जानीथः एवेत् एवमेव काण्वस्य कण्वपुत्रस्य मम परिचरणं बोधतमवगच्छतम् ॥ ३ ॥

8.9.4 समानपद
अ॒यं वां᳚ घ॒र्मो अ᳚श्विना॒ स्तोमे᳚न॒ परि᳚ षिच्यते ।
अ॒यं सोमो॒ मधु᳚मान्वाजिनीवसू॒ येन᳚ वृ॒त्रं चिके᳚तथः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे᳚न । परि᳚ । सि॒च्य॒ते॒ ।
अ॒यम् । सोमः᳚ । मधु᳚॑मान् । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । येन᳚ । वृ॒त्रम् । चिके᳚तथः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोः संबन्धी अयं घर्मः प्रवर्ग्यं स्तोमेन स्तोत्रेण ऋक्सामरूपेण परिषिच्यते आर्द्रीक्रियते यथा युवयोस्तृप्तिकरोभवति तथा क्रियतइत्यर्थः यद्वा घर्मस्य हविषआधारभूतोमहावीरोघर्मः सः स्तोमेन स्तोतव्येन पयसा परिषिच्यते आसिच्यते वां युवयोरर्थम् । अपिच हे वाजिनीवसू अन्नवद्धनौ अयं सोमस्तार्तीयस्वनिकोमधुमान् माधुर्यवान् युवाभ्यां दीयते येन युवां वृत्रमावरकं शत्रुं चिकेतथः हन्तव्यतया जानीथः अयं घर्मः सोमश्चेत्युभयत्रान्वयः ॥ ४ ॥

8.9.5
यद॒प्सु यद्वन॒स्पतौ॒ यदोष᳚धीषु पुरुदंससा कृ॒तम् ।
तेन᳚ माविष्टमश्विना ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒प्॑सु । यत् । वन॒स्पतौ᳚ । यत् । ओष᳚धीषु । पु॒रु॒॑दं॒स॒सा॒ । कृ॒तम् ।
तेन᳚ । मा॒ । अ॒वि॒ष्ट॒म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुदंससा बहुकर्माणावश्विनौ अप्सूदकेषु यद्भेषजं कृतं युवामकार्ष्टम् करोतेर्लुङि मन्त्रेघसेत्यदिनाच्लेर्लुक् तथा वनस्पतौ वनानां पति- र्वनस्पतिः पारस्करादित्वात्सुट् उभेवनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् जाताविदमेकवचनम् वनस्पतिषु वृक्षेषु यच्च भेषजं युवामकुरुतम् ओषधीषु ओषः पाकः आसु धीयतइति ओषधयोव्रीह्यादयः कर्मण्यधिकरणेचेति दधातेरधिकरणेकिप्रत्ययः दासीभारादिषु पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् ओषधेश्च विभक्तावप्रथमायामितिदीर्घः व्रीह्यादिष्वोषधीषुच यद्भेषजं कृतं युवामका- र्ष्टम् । हे अश्विना अश्विनौ तेन सर्वेण भेषजेन मा मां अविष्टं रक्षतम् अवतेर्लोटि सिब्बहुलमिति बहुलग्रहणात् सिप् ततइट् ॥ ५ ॥

8.9.6
यन्ना᳚सत्या भुर॒ण्यथो॒ यद्वा᳚ देव भिष॒ज्यथः᳚ ।
अ॒यं वां᳚ व॒त्सो म॒तिभि॒र्न वि᳚न्धते ह॒विष्म᳚न्तं॒ हि गच्छ᳚थः ॥
▶ पदपाठः (Word-by-word)
यत् । ना॒स॒त्या॒ । भु॒र॒ण्यथः᳚ । यत् । वा॒ । दे॒वा॒ । भि॒ष॒ज्यथः᳚ ।
अ॒यम् । वा॒म् । व॒त्सः । म॒ति॑भिः᳚ । न । वि॒न्ध॒ते॒ । ह॒विष्म᳚न्तम् । हि । गच्छ᳚थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या सत्यस्वभावावश्विनौ यत् यौ युवां भुरण्यथः सर्वं जगन्पोषयथः । भुरणधारणपोषणयोः कंड्वादिः हे देवा दानादिगुणयुक्तौ अश्विनौ छान्दसः सांहितिकोह्रस्वः यद्वा यौ च युवां भिषज्यथः सर्वस्य प्राणिजातस्य भैषज्यं रोगोपशमनं कुरुथः भिषज चिकित्सायाम् अयमपि कंड्वादिः तौ वां युवां अयं वत्सः स्तोता मतिभिर्मननीयैः केवलैः स्तोत्रैर्न विंधते नविन्दते नलंभते वर्णविकारश्छान्दसः । कुतइतिचेदुच्यते हविष्मन्तं हविर्युक्तं स्तोतारं हि युवां गच्छथः तस्माद्युवां हविर्भिर्युक्तैः स्तोत्रैः प्रसीदथ इतिभावः ॥ ६ ॥ प्रवर्ग्येमहावीरे गोपयस्यासिच्यमाने आनूनमित्येषानुवक्तव्या सूत्र्यतेहि-आनूनमशिनोरृषिरितिगव्य आसुतेसिञ्चतश्रियमित्याज्यइति ।

8.9.7
आ नू॒नम॒श्विनो॒रृषि॒ः स्तोमं᳚ चिकेत वा॒मया᳚ ।
आ सोमं॒ मधु᳚मत्तमं घ॒र्मं सि᳚ञ्चा॒दथ᳚र्वणि ॥
▶ पदपाठः (Word-by-word)
आ । नू॒नम् । अ॒श्विनोः᳚ । ऋषिः᳚ । स्तोम᳚म् । चि॒के॒त॒ । वा॒मया᳚ ।
आ । सोम᳚म् । मधु᳚मत्॑तमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ᳚र्वणि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ यदा युवामागच्छेयाथां यथा तदानीं युवयोरश्विनोः स्तोमं स्तोत्रं ऋषिर्मन्त्रद्रष्टा वामया वननीयया उत्कृष्टया बुद्भ्या नूनमव- श्यं आचिकेत अभिजानीयात् कितज्ञाने छान्दसोलिट् । तथा मधुमत्तमं अतिशयेन मधुरं सोमं घर्मं प्रवर्ग्यसंबन्धिघर्माख्यं हविश्च अथर्वणि अहिंसकग्नौ यद्वा अथर्वाऋषिः तेननिर्मथितो ग्निरुपचारादथर्वेत्युच्यते अथर्वणानिर्मथनञ्च-त्वामग्नेपुष्करादधीत्यादिनिगमान्त- रेवगम्यते । तस्मिन्नग्नौ आसिञ्चात् आसिञ्चेत् प्रक्षिपेत् अतः शीघ्रमागच्छतमित्यर्थः ॥ ७ ॥

8.9.8
आ नू॒नं र॒घुव᳚र्तनिं॒ रथं᳚ तिष्ठाथो अश्विना ।
आ वां॒ स्तोमा᳚ इ॒मे मम॒ नभो॒ न चु᳚च्यवीरत ॥
▶ पदपाठः (Word-by-word)
आ । नू॒नम् । र॒घु॑व᳚र्तनिम् । रथ᳚म् । ति॒ष्ठा॒थः॒ । अ॒श्वि॒ना॒ ।
आ । वा॒म् । स्तोमाः᳚ । इ॒मे । मम᳚ । नभः᳚ । न । चु॒च्य॒वी॒र॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ लघुवर्तनिं रघुवर्तनं शीघ्रगमनं रथं नूनमवश्यमिदानीमेव आतिष्ठाथः आतिष्ठतं अधिरोहतम् वालमूललध्वलमितिलघोर्लका- रस्यरेफः । मम मदीयाइमे स्तोमाः स्तोत्राणि नभोन सूर्यमिव तेजस्विनौ वां युवां आचुच्यवीरत आच्यवन्ते अभिगच्छन्ति यद्वा च्यवतिरत्रान्तर्भावितण्यर्थः आच्यवयन्ति युवामभिप्रापयन्ति ॥ ८ ॥

8.9.9
यद॒द्य वां᳚ नासत्यो॒क्थैरा᳚चुच्युवी॒महि᳚ ।
यद्वा॒ वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य᳚ बोधतम् ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒॑चु॒च्यु॒वी॒महि᳚ ।
यत् । वा॒ । वाणी᳚भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य᳚ । बो॒ध॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यौ अद्येदानीं उक्थैः शस्त्रैः यद्यथा येन प्रकारेण वां आचुच्युवीमहि आगमयेम । हे अश्विनौ यद्वा यथा वाणीभिः उक्थव्यतिरि- क्ताभिरपि वाग्भिः स्तुतिभिः युवामागमयेम एवेत् एवमेव तथैव काण्वस्य मम तदुक्थादिकं बोधतमवगच्छतम् ॥ ९ ॥

8.9.10
यद्वां᳚ क॒क्षीवा{4}᳚ उ॒त यद्व्य᳚श्व॒ ऋषि॒र्यद्वां᳚ दी॒र्घत᳚मा जु॒हाव᳚ ।
पृथी॒ यद्वां᳚ वै॒न्यः साद᳚नेष्वे॒वेदतो᳚ अश्विना चेतयेथाम् ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒म् । क॒क्षीवा᳚न् । उ॒त । यत् । वि॑अ᳚श्वः । ऋषिः᳚ । यत् । वा॒म् । दी॒र्घ॑त᳚माः । जु॒हाव᳚ ।
पृथी᳚ । यत् । वा॒म् । वै॒न्यः । सद᳚नेषु । ए॒व । इत् । अतः᳚ । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवां कक्षीवानृषिः यद्यदा जुहाव तुष्टाव उतापिच व्यश्वः एतत्संज्ञऋषिश्च यद्यदा जुहाव यद्यदाच वां युवां दीर्घतमा- ऋषिः जुहाव सदनेषु यज्ञगृहेषु वैन्योवेनस्य पुत्रः पृथी एतत्संज्ञोराजर्षिः वां युवां यद्यथा जुहाव तुष्टाव एवेत् एवमेव स्तुवतोमम अतः इदं स्तोत्रं इदम् शब्दात् द्वितीयार्थेतसिः हे अशिनौ चेतयेथां जानीतम् ॥ १० ॥

8.9.11
या॒तं छ᳚र्दि॒ष्पा उ॒त नः᳚ पर॒स्पा भू॒तं ज᳚ग॒त्पा उ॒त न᳚स्तनू॒पा ।
व॒र्तिस्तो॒काय॒ तन᳚याय यातम् ॥
▶ पदपाठः (Word-by-word)
या॒तम् । छ॒र्दिः॒॑पौ । उ॒त । नः॒ । प॒रः॒॑पा । भू॒तम् । ज॒ग॒त्॑पौ । उ॒त । नः॒ । त॒नू॒॑पा ।
व॒र्तिः । तो॒काय᳚ । तन᳚याय । या॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ छर्दिष्पौ छर्दिरिति गृहनाम तस्यास्मदीयस्य पालकौ सन्तौ युवां यातमागच्छतम् । उतापिच नोस्माकं परस्पा परं अतिशयेन पालकौ भूतं भवतं पारस्करादित्वात्सुट् । तथा जगत्पौ सर्वस्य जगतः जङ्गमस्य प्राणिजातस्यास्मदीयस्य पालकौ भवतम् । उतापिच नोस्माकं तनूपा तनूनां शरीराणां तनयानां वा पालकौ भवतम् एतत्सर्वार्थं तोकाय तोकस्य पुत्रस्य तनयाय तनयस्य पौत्रस्य वास्मदी- यस्य वर्तिगृहं यातं गच्छतम् ॥ ११ ॥

8.9.12
यदिन्द्रे᳚ण स॒रथं᳚ या॒थो अ᳚श्विना॒ यद्वा᳚ वा॒युना॒ भव᳚थ॒ः समो᳚कसा ।
यदा᳚दि॒त्येभि᳚रृ॒भुभि᳚ः स॒जोष᳚सा॒ यद्वा॒ विष्णो᳚र्वि॒क्रम᳚णेषु॒ तिष्ठ᳚थः ॥
▶ पदपाठः (Word-by-word)
यत् । इन्द्रे᳚ण । स॒रथ᳚म् । या॒थः । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना᳚ । भव᳚थः । सम्॑ओ᳚कसा ।
यत् । आ॒दि॒त्येभिः᳚ । ऋ॒भु॑भिः᳚ । स॒॑जोष᳚सा । यत् । वा॒ । विष्णोः᳚ । वि॒॑क्रम᳚णेषु । तिष्ठ᳚थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ इन्द्रेणसह सरथं समानमेकंरथं आस्थाय यद्यदि याथोगच्छथः यद्वा यदिवा वायुना सह समोकसा समाननिवासौ भवथः यद्यदिवा आदित्येभिः अदितेः पुत्रैः मित्रादिभिः ऋभुभिश्च सजोषसा सहप्रीयमाणौ वर्तेथे यद्वा यदिवा विष्णोर्विक्रमणेषु विष्णुना देवेन विक्रान्तेषु त्रिषु लोकेषु तिष्ठथः अतः सर्वस्मादपि स्थानादागच्छतमितिशेषः ॥ १२ ॥

8.9.13
यद॒द्याश्विना᳚व॒हं हु॒वेय॒ वाज᳚सातये ।
यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ᳚म॒श्विनो॒रवः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । अ॒श्विनौ᳚ । अ॒हम् । हु॒वेय᳚ । वाज᳚॑सातये ।
यत् । पृ॒त्॑सु । तु॒र्वणे᳚ । सहः᳚ । तत् । श्रेष्ठ᳚म् । अ॒श्विनोः᳚ । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा अहमश्विनौ वाजसातये संग्रामार्थं हुवेय आह्वयेय अद्येदानीं तावागच्छतमिति शेषः । पृत्सु पृतनासु संग्रामेषु तुर्वणे शत्रूणां हिंसने यत्सहः शत्रूणामभिभवितृ रक्षणं अश्विनोः तदवोरक्षणं श्रेष्ठं प्रशस्यतमं अतस्तावाह्वयामीतिभावः ॥ १३ ॥

8.9.14
आ नू॒नं या᳚तमश्विने॒मा ह॒व्यानि᳚ वां हि॒ता ।
इ॒मे सोमा᳚सो॒ अधि᳚ तु॒र्वशे॒ यदा᳚वि॒मे कण्वे᳚षु वा॒मथ᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि᳚ । वा॒म् । हि॒ता ।
इ॒मे । सोमा᳚सः । अधि᳚ । तु॒र्वशे᳚ । यदौ᳚ । इ॒मे । कण्वे᳚षु । वा॒म् । अथ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अशिनौ नूनमवश्यं आयातमागच्छतम् इमा इमानि पुरोवर्तीनि हव्यानि हवींषि वां युवाभ्यां हिता हितानि यद्वा युवयोरर्थं विहि- तानि कृतानि इमेच सोमासः सोमाः तुर्वशे यदौ च वर्तमानाः वां युवाभ्यां युवयोरथे संस्कृता वा अधिः सप्तम्यर्थानुवादकः । अथ अपिच कण्वेषु कण्वपुत्रेषु अस्मासु च इमे सोमाः वां युवाभ्यां दत्ताः अतआयातमित्यर्थः ॥ १४ ॥

8.9.15
यन्ना᳚सत्या परा॒के अ᳚र्वा॒के अस्ति᳚ भेष॒जम् ।
तेन᳚ नू॒नं वि᳚म॒दाय᳚ प्रचेतसा छ॒र्दिर्व॒त्साय᳚ यच्छतम् ॥
▶ पदपाठः (Word-by-word)
यत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति᳚ । भे॒ष॒जम् ।
तेन᳚ । नू॒नम् । वि॒॑म॒दाय᳚ । प्र॒॑चे॒त॒सा॒ । छ॒र्दिः । व॒त्साय᳚ । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ पराके दूरदेशे अर्वाके समीपेच यद्युवयोः संबन्धि भेषजं रोगोपशमनकारणमस्ति तेन भेषजेन सहितं छर्दिर्गृहं हे प्रचेतसा प्रकृष्टज्ञानावश्विनौ विमदाय लुप्तोपममेतत् एतत्संज्ञायेव ऋषये वत्साय नूनमवश्यं यच्छ्तं प्रयच्छ्तम् ॥ १५ ॥

8.9.16 समानपद
अभु᳚त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनो᳚ः ।
व्या᳚वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
अभु᳚त्सि । ऊं॒ इति᳚ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनोः᳚ ।
वि । आ॒वः॒ । दे॒वि॒ । आ । म॒तिम् । वि । रा॒तिम् । मर्त्ये᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विनोः संबन्धिन्या देव्या द्योतमानया वाचा स्तुतिरूपया साकं सह अहं प्राभुत्सि प्रबुद्धोस्मि उइतिपूरणः हे देवि द्योतमाने उष- स्त्वञ्च मतिं मयाकृतां स्तुतिं आ अभिलक्ष्य व्यावः तमांसि विवृणु अपगमय प्रकाशयेत्यर्थः वृणोतेश्छान्दसे लुङिमन्त्रेघसेत्यादिना च्लेर्लुक् छन्दस्यपिदृश्यतइत्याडागमः । अपिच मर्त्येभ्योमनुष्येभ्यः स्तोतृभ्योस्मभ्यं रातिं धनं व्यावः प्रकाशय ॥ १६ ॥

8.9.17
प्र बो᳚धयोषो अ॒श्विना॒ प्र दे᳚वि सूनृते महि ।
प्र य᳚ज्ञहोतरानु॒षक्प्र मदा᳚य॒ श्रवो᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
प्र । बो॒ध॒य॒ । उ॒षः॒ । अ॒श्विना᳚ । प्र । दे॒वि॒ । सू॒नृ॒ते॒ । म॒हि॒ ।
प्र । य॒ज्ञ॒॑हो॒तः॒ । आ॒नु॒षक् । प्र । मदा᳚य । श्रवः᳚ । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः अश्विनौ देवौ प्रबोधय अस्मत्स्तोत्रस्य श्रवणार्थम् । हे देवि दानादिगुणयुक्ते हे सूनृते सुष्ठु नेत्रि हे महि महति इत्थं महाभागा त्वं अश्विनौ प्रबोधय । हे यज्ञहोतः यज्ञानां यष्टव्यानां देवानामाह्वातर्होतर्वा आनुषगनुषक्तं संततं यथाभवति तथा अश्विनौ स्तुतिभिः प्रबोधय । तथा मदाय अश्विनोर्मदोत्पादनार्थं बृहन्महत् श्रवः श्रवणीयं सोमलक्षणमन्नं अस्माभिः प्रकल्पितम् ॥ १७ ॥

8.9.18
यदु᳚षो॒ यासि᳚ भा॒नुना॒ सं सूर्ये᳚ण रोचसे ।
आ हा॒यम॒श्विनो॒ रथो᳚ व॒र्तिर्या᳚ति नृ॒पाय्य᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । उ॒षः॒ । यासि᳚ । भा॒नुना᳚ । सम् । सूर्ये᳚ण । रो॒च॒से॒ ।
आ । ह॒ । अ॒यम् । अ॒श्विनोः᳚ । रथः᳚ । व॒र्तिः । या॒ति॒ । नृ॒॑पाय्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः भानुना दीप्त्यासह यद्यदा यासि गच्छसि तदानीं सूर्येण संरोचसे सम्यग्दीप्यसे । अपिच तस्मिन्समये अश्विनोरयं रथः नृपाय्यं यत् नृभिर्नेतृभिरृत्विग्भिः पालनीयं वर्तिर्यज्ञगृहं आयाति हं आगच्छति खलु ॥ १८ ॥

8.9.19 समानपद
यदापी᳚तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध᳚भिः ।
यद्वा॒ वाणी॒रनू᳚षत॒ प्र दे᳚व॒यन्तो᳚ अ॒श्विना᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । आ॑पी᳚तासः । अं॒शवः᳚ । गावः᳚ । न । दु॒ह्रे । ऊध᳚॑भिः ।
यत् । वा॒ । वाणीः᳚ । अनू᳚षत । प्र । दे॒व॒॑यन्तः᳚ । अ॒श्विना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा आपीतासः आसमन्तात्पीतवर्णा अंशवः सोमलताः ऊधभिः गावोन गावइव दुह्रे रसं दुहते लोपस्तआत्मनेपदेष्विति तलोपः बहुलंछन्दसीतिरुडागमः । यद्वा यदाच देवयन्तोदेवान्कामयमानाः ऋत्विजः वाणीर्वाचः स्तुतीः अनूषत अस्तुवन् अकुर्वन्नित्यर्थः । तदा अश्विना अश्विनौ देवौ प्रावतं प्ररक्षतम् ॥ १९ ॥

8.9.20
प्र द्यु॒म्नाय॒ प्र शव᳚से॒ प्र नृ॒षाह्या᳚य॒ शर्म᳚णे ।
प्र दक्षा᳚य प्रचेतसा ॥
▶ पदपाठः (Word-by-word)
प्र । द्यु॒म्नाय᳚ । प्र । शव᳚से । प्र । नृ॒॑सह्या᳚य । शर्म᳚णे ।
प्र । दक्षा᳚य । प्र॒॑चे॒त॒सा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रचेतसा प्रकृष्टज्ञानावश्विनौ द्युम्नाय द्योतमानायान्नाय यशसे वा तादर्थ्येचतुथी द्युम्नार्थं अस्मान्प्ररक्षतम् शवसे बलाय च प्ररक्षतम् नृषह्याय नृभिः सोढव्याय शर्मणे सुखाय च प्ररक्षतम् दक्षाय वृद्भ्यर्थं प्ररक्षतम् । यद्वा द्युम्नायेत्यादौ क्रियाग्रहणमपि कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी द्युम्नादीन्यस्मभ्यं प्रयच्छतमित्यर्थः ॥ २० ॥

8.9.21
यन्नू॒नं धी॒भिर᳚श्विना पि॒तुर्योना᳚ नि॒षीद᳚थः ।
यद्वा᳚ सु॒म्नेभि᳚रुक्थ्या ॥
▶ पदपाठः (Word-by-word)
यत् । नू॒नम् । धी॒भिः । अ॒श्वि॒ना॒ । पि॒तुः । योना᳚ । नि॒॑सीद᳚थः ।
यत् । वा॒ । सु॒म्नेभिः᳚ । उ॒क्थ्या॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विनौ पितुः पालयितुर्द्युलोकस्य संबन्धिनि योना योनौ स्थाने यद्यदि धीभीः कर्मभिः सह निषीदथोनिवसथः यद्वा यदिवा हे उक्थ्या प्रशस्यौ सुम्नेभिः सुम्नैः सुखैः सह निवसथः तदास्माभिः स्तुतौ संतावागच्छतमितिशेषः । अथवा पितुः पालयितुर्यजमा- नस्य संबन्धिनि योनौ यज्ञगृहे धीभिः स्तुतिभिः सार्धं यदि निवसथः यदिच सुम्नैः सुख्करैर्हविर्भिश्च सह निवसथः तर्ह्यागच्छतम् । नूनमिति पदपूरणः उक्तंच यास्केन-अथापिपदपूरणः नूनंसातेप्रतिवरंजरित्रइति ॥ २१ ॥

यत्स्थइति षळृचं पञ्चमं सूक्तम् कण्वपुत्रस्य प्रगाथस्यार्षं आश्विनं आद्याबृहती द्वितीया मध्येज्योतिस्त्रिष्टुप् यतोष्टकस्ततोज्यो- तिरिति उक्तलक्षणसद्भावात् तृतीया अनुष्टुप् चतुर्थी आस्तारपंक्तिः अन्त्यौ चेदास्तारपङ्क्ति रितितल्लक्षणम् पञ्चमी बृहती षष्ठी सतोबृहती । तथाचानुक्रान्तम्-यत्स्थःषट् प्रगाथोपश्यत् बृहतीमध्येज्योतिरनुष्टुबास्तारपङ्क्तिः प्रगाथइति । प्रातरनुवाकाश्विने क्रतौ बार्हतेछन्दस्याश्विनशस्त्रेचेदंसूक्तम् सूत्र्यतेहि-द्युम्नीवांयत्स्थइतिबार्हतमिति ।