अष्टमं मण्डलम् - सूक्तम् 4

21 ऋचः

ऋषिः: देवातिथिः काण्वः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.4 - सम्पूर्णम्

1 / 21
ऋक्: 8.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
8.4.1
यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य᳚ग्वा हू॒यसे॒ नृभि᳚ः ।
सिमा᳚ पु॒रू नृषू᳚तो अ॒स्यान॒वे॑सि᳚ प्रशर्ध तु॒र्वशे᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । प्राक् । अपा᳚क् । उद᳚क् । न्य᳚क् । वा॒ । हू॒यसे᳚ । नृ॑भिः᳚ ।
सिम᳚ । पु॒रु । नृ॑सू᳚तः । अ॒सि॒ । आन᳚वे । असि᳚ । प्र॒॑श॒र्ध॒ । तु॒र्वशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यत् यदि प्राक् प्राच्यांदिशि वर्तमानैः सप्तम्यन्ताद्दिक् शब्दाद्विहितस्यास्तातेरञ्चेर्लुगिति लुक् । अपाक् प्रतीच्यां दिशि वर्तमानैः यदिवा उदक् उदीच्यां दिशि वर्तमानैः यद्वा नीच्यां दिशि अधस्ताद्वर्तमानैः न्यधीचेति नेःप्रकृतिस्वरत्वम् उदात्तस्वरितयोर्यणइति परस्यानुदात्तस्य स्वरितत्वम् एवंभूतैर्नृभिः स्तोतृभिः त्वं हूयसे स्वस्वकार्याय आहूयसे हे सिम श्रेष्ठेन्द्र । सिमइति वैश्रेष्ठमाचक्षतइति वाजसनेयकम् । यद्यप्येवं बहुभिराहूयसे तथापि आनवे आनुर्नामराजा तस्यपुत्रे राजर्षौ पुरु बहुलं नृषूतः नृभिस्तदीयैःस्तोतृभिः प्रेरितोसि भवसि राज्ञोहितकरणे त्वां स्तोतारः प्रेरयन्तीत्यर्थः षूप्रेरणे अस्मात्कर्मणि निष्ठा । तृतीयाकर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । अपिच हे प्रशर्ध प्रकर्षेण शर्धयितरभिभवितरिन्द्र तुर्वशेएतत्संज्ञे च राजनि नृषूतोसि नृभिः प्रेरितोभवसि ॥ १ ॥

8.4.2 समानपद
यद्वा॒ रुमे॒ रुश᳚मे॒ श्याव᳚के॒ कृप॒ इन्द्र᳚ मा॒दय᳚से॒ सचा᳚ ।
कण्वा᳚सस्त्वा॒ ब्रह्म᳚भि॒ः स्तोम᳚वाहस॒ इन्द्रा य᳚च्छ॒न्त्या ग᳚हि ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । रुमे᳚ । रुश᳚मे । श्याव᳚के । कृपे᳚ । इन्द्र᳚ । मा॒दय᳚से । सचा᳚ ।
कण्वा᳚सः । त्वा॒ । ब्रह्म᳚॑भिः । स्तोम᳚॑वाहसः । इन्द्र᳚ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्वा यद्यपि रुमादिषु चतुर्षु राजसु हे इन्द्र त्वं सचा सह मादयसे माद्यसि तथापि स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारः कण्वासः कण्वगोत्राऋषयः ब्रह्मभिः परिवृढैर्मन्त्रैर्हविर्भिर्वा हे इन्द्र त्वां आयच्छन्ति आगमयन्ति । यद्वा द्वितीयार्थे तृतीया । ब्रह्मभिः ब्रह्माणि हवींषि आभिमुख्येन प्रयच्छन्ति ददति दाण् दाने पाघ्रेत्यादिना यच्छादेशः अतस्त्वं आगहि शीघ्रमागच्छ गमेर्लेटिछान्दसः शपोलुक् ॥ २ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकशस्त्रे यथेति प्रगाथोनुरूपः सूत्रितञ्च-यथागौरोअपाकृतमित्यच्छावाकस्येति ।

8.4.3
यथा᳚ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि᳚णम् ।
आ॒पि॒त्वे नः᳚ प्रपि॒त्वे तूय॒मा ग᳚हि॒ कण्वे᳚षु॒ सु सचा॒ पिब᳚ ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । गौ॒रः । अ॒पा । कृ॒तम् । तृष्य᳚न् । एति᳚ । अव᳚ । इरि᳚णम् ।
आ॒॑पि॒त्वे । नः॒ । प्र॒॑पि॒त्वे । तूय᳚म् । आ । ग॒हि॒ । कण्वे᳚षु । सु । सचा᳚ । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गौरोगौरमृगः तृष्यन् पिपासन् अपा अद्भिरुदकैः व्यत्ययेनैकवचनं ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् कृतं संपूर्णत्वंकृतम् इरिणं निस्तृणं तटाकदेशं यथा येनप्रकारेण अवैति अवगच्छति अवशब्दः अभिशब्दस्यार्थे अभिमुखः सन् शीघ्रं गच्छति तथा आपित्वे बन्धुत्वे प्रपित्वे प्राप्ते सति हे इन्द्र त्वं नोस्मान् तूयं क्षिप्रनामैतत् शीघ्रमागह्यागच्छ आगत्यच कण्वेषु कण्वपुत्रेष्वस्मासु सचा सह एकयत्नेनैव विद्यमानं सर्वं सोमं सु सुष्ठु पिब ॥ ३ ॥

8.4.4
मन्द᳚न्तु त्वा मघवन्नि॒न्द्रेन्द᳚वो राधो॒देया᳚य सुन्व॒ते ।
आ॒मुष्या॒ सोम᳚मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द᳚धिषे॒ सहः᳚ ॥
▶ पदपाठः (Word-by-word)
मन्द᳚न्तु । त्वा॒ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । इन्द᳚वः । रा॒धः॒॑देया᳚य । सु॒न्व॒ते ।
आ॒॑मुष्य᳚ । सोम᳚म् । अ॒पि॒बः॒ । च॒मू इति᳚ । सु॒तम् । ज्येष्ठ᳚म् । तत् । द॒धि॒षे॒ । सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निन्द्र इन्दवः क्लेदनाः सोमाः त्वां मन्दन्तु मादयन्तु हर्षयन्तु मन्देर्व्यत्ययेन परस्मैपदम् । किमर्थं सुन्वते सोमाभिषवं कुर्वते यजमानाय राधोदेयाय राधोधनस्य च दानार्थम् ददातेरचोयदिति भावेयत् ईद्यतीतीकारः यतोनावइत्याद्युदात्तत्वात्कृदुत्तरपद- प्रकृतिस्वरत्वम् शतुरनुमइति सुन्वच्छब्दात्पराविभक्तिरुदात्ता । अपिच त्वं सोमं आमुष्य आमोषणं कृत्वा अदत्तमपि बलादपहृत्य अपिबः पीतवानसि । सयज्ञवेशसं कृत्वा प्रासहासोममपिबदितिश्रुतेः । कीदृशं सोमं चमू चम्वोः अधिषवणफलकयोः सुतमभिषुतम् । यद्वा चमूभ्यां चमसाभ्यां होतुर्मैत्रावरुणस्य च संबन्धिभ्यां संस्कृताभिः वसतीवरीभिः सुतमभिषुतं यस्मादेवं तस्मात्कारणात् ज्येष्ठं प्रशस्यतमं वृद्धतमं वा सहोबलं दधिषे हेइन्द्र त्वं धारयसि अतोमदीयाअपि सोमास्त्वां मदयन्त्विति प्रार्थ्यते ॥ ४ ॥

8.4.5
प्र च᳚क्रे॒ सह᳚सा॒ सहो᳚ ब॒भञ्ज᳚ म॒न्युमोज᳚सा ।
विश्वे᳚ त इन्द्र पृतना॒यवो᳚ यहो॒ नि वृ॒क्षा इ᳚व येमिरे ॥
▶ पदपाठः (Word-by-word)
प्र । च॒क्रे॒ । सह᳚सा । सहः᳚ । ब॒भञ्ज᳚ । म॒न्युम् । ओज᳚सा ।
विश्वे᳚ । ते॒ । इ॒न्द्र॒ । पृ॒त॒ना॒॑यवः᳚ । य॒हो॒ इति᳚ । नि । वृ॒क्षाः॑इ᳚व । ये॒मि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः सहसा आत्मीयेनाभिभवेन वीर्यकर्मणा सहः शत्रुणामभिभवनं प्रचक्रे प्रकर्षेण कृतवान् तथा ओजसा बलेन मन्युं परकीयं क्रोधं बभञ्ज भग्नवान् उत्तरोर्धर्चः प्रत्यक्षकृतः हे यहो महन्नामैतत् हे महन्निन्द्र विश्वे सर्वे पृतनायवः युद्धकामाः शत्रवः ते त्वया वृक्षाइव महीरुहाइव नियेमिरे नियताआसन् यथा वृक्षानिश्चलास्तिष्ठन्ति तद्वन्निर्व्यापारा अभूवन्नित्यर्थः ॥ ५ ॥

8.4.6
स॒हस्रे᳚णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप᳚स्तुतिम् ।
पु॒त्रं प्रा᳚व॒र्गं कृ᳚णुते सु॒वीर्ये᳚ दा॒श्नोति॒ नम᳚उक्तिभिः ॥
▶ पदपाठः (Word-by-word)
स॒हस्रे᳚ण॑इव । स॒च॒ते॒ । य॒वि॒॑युधा᳚ । यः । ते॒ । आन᳚ट् । उप᳚॑स्तुतिम् ।
पु॒त्रम् । प्रा॒व॒र्गम् । कृ॒णु॒ते॒ । सु॒॑वीर्ये᳚ । दा॒श्नोति᳚ । नम᳚उक्ति॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव उपस्तुतिं स्तोत्रं यः पुरुष आनट् प्राप्नोति त्वां प्रापयति अश्नोतेर्लङि व्यत्ययेन परमैपदम् । सचते समवैति षच समवाये सहस्रेणेव यथा सहस्रसंख्येन बलेन तथेत्यर्थः यश्च यजमानो नमस्कारवचनैः स्तोत्रैः सार्धं दाश्नोति हवींषि तुभ्यं ददाति दाशृदाने सयजमानः सुवीर्ये शोभनवीर्ययुक्ते सङ्ग्रामे प्रावर्गं प्रकर्षेण शत्रूणां वर्जयितारं पुत्रं कृणुते करोत्युत्पादयति त्वत्प्रसादाल्लभतइत्यर्थः प्रपूर्वाद्वृजेः कृत्यल्युटोबहुलमिति कर्तरि घञ् उपसर्गस्य घञ्यमनुष्यइति दीर्घः थाथादिनोत्तरपदान्तोदात्तत्वम् । यद्वा सुवीर्येइत्येत- त्पुत्रस्य विशेषणं द्वितीयार्थे सप्तमी शोभनवीर्यं पुत्रम् बहुव्रीहौ वीरवीर्यौचेत्युत्तरपदाद्युदात्तत्वम् ॥ ६ ॥

8.4.7
मा भे᳚म॒ मा श्र᳚मिष्मो॒ग्रस्य᳚ स॒ख्ये तव᳚ ।
म॒हत्ते॒ वृष्णो᳚ अभि॒चक्ष्यं᳚ कृ॒तं पश्ये᳚म तु॒र्वशं॒ यदु᳚म् ॥
▶ पदपाठः (Word-by-word)
मा । भे॒म॒ । मा । श्र॒मि॒ष्म॒ । उ॒ग्रस्य᳚ । स॒ख्ये । तव᳚ ।
म॒हत् । ते॒ । वृष्णः᳚ । अ॒भि॒॑चक्ष्य᳚म् । कृ॒तम् । पश्ये᳚म । तु॒र्वश᳚म् । यदु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र उग्रस्योद्गूर्णबलस्य तव सख्ये सखित्वे सति वयं माभेम माभैष्म कुतश्चिदपि शत्रोर्भीता माभूम । माश्रमिष्म श्रान्ताः पीडिताश्च माभूम वृष्णः कामानां वर्षितुस्ते तव संबन्धि महत् प्रभुतं कृतं वृत्रवधादिलक्षणं कर्म अभिचक्ष्यं अभितः ख्यापानीयं स्तोतव्यं अतोमहानुभावस्य त्व सख्यं प्राप्तानां भीतिश्रमौ न जायेते इत्यर्थः । तत्कथमवगम्यतइतिचेत् उच्यते तुर्वशं एतत्संज्ञं राजर्षिं यदुं एतत्संज्ञं च त्वत्प्रसादात्सुखेन जीवन्तौ पश्येम दृष्टवन्तः खलु वयं अतःकारणात् त्वत्सख्यं प्राप्तस्य भयादिकं न जायतइत्येतदुपपन्नमित्यर्थः ॥ ७ ॥

8.4.8 समानपद
स॒व्यामनु᳚ स्फि॒ग्यं᳚ वावसे॒ वृषा॒ न दा॒नो अ᳚स्य रोषति ।
मध्वा॒ सम्पृ᳚क्ताः सार॒घेण᳚ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब᳚ ॥
▶ पदपाठः (Word-by-word)
स॒व्याम् । अनु᳚ । स्फि॒ग्य᳚म् । व॒व॒से॒ । वृषा᳚ । न । दा॒नः । अ॒स्य॒ । रो॒ष॒ति॒ ।
मध्वा᳚ । सम्॑पृ᳚क्ताः । सा॒र॒घेण᳚ । धे॒नवः᳚ । तूय᳚म् । आ । इ॒हि॒ । द्रव᳚ । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा कामानांवर्षितेन्द्रः सव्यां दक्षिणेतरां स्फिग्यं कटिप्रदेशमनु तृतीयार्थे अनोः कर्मप्रवचनीयत्वम् सव्ययास्फिग्या शरीरैकदेशेनैव ववसे वस्ते सर्वभूतजातमाच्छादयति स्वयं कृत्स्नं जगदतीत्यर्ततइत्यर्थः । निगमान्तर भवति-यदन्ययास्फिग्याक्षामवस्थाइति । अपिच दानः अवखण्डयिता दानअवखण्डने पचाद्यच् सच अस्य इममिन्द्रं नरोषति न हिनस्ति रुषरिषहिंसायाम् । इन्द्रं हिंसितुं शक्तः कश्चिदपि नास्तीत्यर्थः । यद्वा दानो हविषां दाता यजमानस्य अस्येन्द्रस्य न रोषति रोषं नजनयति सर्वदा हविर्भिः परिचरतित्यर्थः । उत्तरोर्धर्चः प्रत्यक्षकृतः सारघेण सरघा मधुमक्षिका तत्संबन्धिना मध्वा मधुना लुप्तोपममेतत् मधुनेव रसवता क्षीरादिना श्रयणद्रव्येण संपुक्ताः संसृष्ठाः संस्कृताः धेनवः धेनुवत् प्रीतिजनकाअस्मदीयाः सोमाः यद्वा धिवेः प्रीणनार्थाद्धेनवः प्रीणयितारइत्यर्थः अथवा धेट्पाने धेटइ- च्चेत्यौणादिकोनुप्रत्ययः तत्संनियोगेन इकारान्तादेशश्च पातव्याः सोमाइत्यर्थः । यतएवमतःकारणात् हे इन्द्र तूयं क्षिप्रं एहि अस्मत्समीपं आगच्छ आगत्यच द्रव सोमाः यस्मिन्नुत्तरवेदिलक्षणे स्थाने वर्तन्ते तं देशं शीघ्रं गच्छ द्रुगताविति धातुः द्भ्यचोतस्तिङइति सांहितिकोदीर्घः । तदनन्तरं अध्वर्युणा दत्तं सोमं पिब तेन सोमेन समयक्स्वोदरं पूरयेत्यर्थः ॥ ८ ॥

8.4.9
अ॒श्वी र॒थी सु᳚रू॒प इद्गोमा{4}॒ इदि᳚न्द्र ते॒ सखा᳚ ।
श्वा॒त्र॒भाजा॒ वय᳚सा सचते॒ सदा᳚ च॒न्द्रो या᳚ति स॒भामुप᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒श्वी । र॒थी । सु॒॑रू॒पः । इत् । गो॑मा᳚न् । इत् । इ॒न्द्र॒ । ते॒ । सखा᳚ ।
श्वा॒त्र॒॑भाजा᳚ । वय᳚सा । स॒च॒ते॒ । सदा᳚ । च॒न्द्रः । या॒ति॒ । स॒भाम् । उप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्व सखा मित्रभूतः पुरुषः अश्व्यादिगुणविशिष्टएव भवति इच्छब्दः प्रत्येकमभिसंबध्यते अश्वीइत् बहुभिरश्वैरुपेतएव भवति नकदाचिदश्वैर्वियुज्यते रथी रथवानेव सभवति सुरूपइत् शोभनरूपः शोभनावयवएव सभवति सुरूपइत् शोभनरूपः शोभनावयवएव सभवति गोमाँइत् बह्वीभिर्गोभिर्युक्तएव सभवति नकदाचिर्देतैर्वियुज्यतइत्यर्थः । अपिच श्वात्राभाजा श्वात्रमिति धननाम आशु अतनी- यं शीघ्रं प्राप्तव्यं शोभनं धनं संभजता ईदृग्धनसंयुक्तेन वयसा अन्ननामैतत् अन्नेन ससर्वदा सचते समवैति सङ्गच्छते षचसमवाये अतएव चन्द्रः सर्वेषामाह्लादकः सन् सभां जनसंसदं उपयात्युपगच्छति ॥ ९ ॥

8.4.10
ऋश्यो॒ न तृष्य᳚न्नव॒पान॒मा ग᳚हि॒ पिबा॒ सोमं॒ वशा{4}॒ अनु᳚ ।
नि॒मेघ᳚मानो मघवन्दि॒वेदि᳚व॒ ओजि᳚ष्ठं दधिषे॒ सहः᳚ ॥
▶ पदपाठः (Word-by-word)
ऋश्यः᳚ । न । तृष्य᳚न् । अ॒व॒॑पान᳚म् । आ । ग॒हि॒ । पिब᳚ । सोम᳚म् । वशा᳚न् । अनु᳚ ।
नि॒॑मेघ᳚मानः । म॒घ॒॑व॒न् । दि॒वे॑दि᳚वे । ओजि᳚ष्ठम् । द॒धि॒षे॒ । सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ऋष्योन ऋष्याख्यओमृगइव तृष्यन् पिपासंस्त्वं अवपानं अवनीतं ग्रहचमसादिषु पात्रेषु आनीतं पातव्यं सोमं आगहि अभिगच्छ गत्वाच तमस्मदीयं सोमं वशां अनुकामं यथाकामं पिब यावता पीतेन पर्याप्तिर्जायते तावता सोमेन स्वोदरं पूरयेत्यर्थः । अतएव सो- मपानात्प्राप्तबलस्त्वं दिवेदिवे प्रतिदिवसं निमेघमानः न्यंचिअवाङ्मुखानि वृष्ट्युदकानि सिञ्चन् हे मघवन्निन्द्र ओजिष्ठं ओजस्वितमं उद्गूर्णतमं सहोबलं दधिषे धारयसि ओजस्विशब्दादिष्ठनि विन्मतोर्लुगितिविनोलुक् टेरिति टिलोपः ॥ १० ॥

8.4.11
अध्व᳚र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्र᳚ः पिपासति ।
उप᳚ नू॒नं यु᳚युजे॒ वृष᳚णा॒ हरी॒ आ च᳚ जगाम वृत्र॒हा ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यो॒ इति᳚ । द्र॒वय᳚ । त्वम् । सोम᳚म् । इन्द्रः᳚ । पि॒पा॒स॒ति॒ ।
उप᳚ । नू॒नम् । यु॒यु॒जे॒ । वृष᳚णा । हरी॒ इति᳚ । आ । च॒ । ज॒गा॒म॒ । वृ॒त्र॒॑हा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यो अध्वरस्य नेतः त्वं सोमं द्रावय उत्तरवेदिलक्षणं स्थानं प्रापय यद्वा रसात्मना द्रवणशीलं कुरु अभिषुण्वित्यर्थः । किंकारणमितिचेत् इन्द्रः पिपासति इमं सोमं पातुमिच्छति त्वयैतत्कथमवगतमिति चेत् तत्राह वृषणा वर्षितारौ युवानौ वा हरी अश्वौ नूनमद्य उपयुयुजे उपगम्यसारथिर्योजितवान्रथे वृत्रहा वृत्रस्य हन्ता इन्द्रश्च आजगाम आगतवान् ॥ ११ ॥

8.4.12
स्व॒यं चि॒त्स म᳚न्यते॒ दाशु᳚रि॒र्जनो॒ यत्रा॒ सोम᳚स्य तृ॒म्पसि᳚ ।
इ॒दं ते॒ अन्नं॒ युज्यं॒ समु᳚क्षितं॒ तस्येहि॒ प्र द्र᳚वा॒ पिब᳚ ॥
▶ पदपाठः (Word-by-word)
स्व॒यम् । चि॒त् । सः । म॒न्य॒ते॒ । दाशु᳚रिः । जनः᳚ । यत्र᳚ । सोम᳚स्य । तृ॒म्पसि᳚ ।
इ॒दम् । ते॒ । अन्न᳚म् । युज्य᳚म् । सम्॑उ᳚क्षितम् । तस्य᳚ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दाशुरिर्दाश्वान् दाशतेरौणादिकउरिन् हविषां दाता सयजमानलक्षणोजनः स्वयंचित्स्वयमेव आत्मनैव मन्यते सर्वं जानाति परायत्तप्रज्ञो- नभवतीत्यर्थः यत्र यस्मिन् जने सोमस्य पाने न हे इन्द्र त्वं तृम्पसि तृप्तोभवसि । तृपतृंपतृप्तौ तौदादिकः शेतृंफादीनामिति नुम् । ते त्वदीयं युज्यं योग्यं इदमस्मदीयं सोमलक्षणमन्नं समुक्षितं सम्यक् पात्रेष्वासिक्तम् उक्षसेचने कर्मणि गतिरनन्तरैति गतेः प्रकृतिस्वरत्वम् अतस्तं तादृशं सोमं एत्द्यभिगच्छ प्रद्रव शीघ्रं प्राप्नुहि तदनन्तरं पिब पानं कुरु ॥ १२ ॥

8.4.13
र॒थे॒ष्ठाया᳚ध्वर्यव॒ः सोम॒मिन्द्रा᳚य सोतन ।
अधि᳚ ब्र॒ध्नस्याद्र᳚यो॒ वि च᳚क्षते सु॒न्वन्तो᳚ दा॒श्व᳚ध्वरम् ॥
▶ पदपाठः (Word-by-word)
र॒थे॒॑स्थाय᳚ । अ॒ध्व॒र्य॒वः॒ । सोम᳚म् । इन्द्रा᳚य । सो॒त॒न॒ ।
अधि᳚ । ब्र॒ध्नस्य᳚ । अद्र᳚यः । वि । च॒क्ष॒ते॒ । सु॒न्वन्तः᳚ । दा॒शु॑अ᳚ध्वरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथेष्ठाय रथेतिष्ठतीतिरथेष्ठः सुपिस्थइतिकप्रत्ययः तत्पुरुषेकृतिबहुलमिति सप्तम्याऽलुक् एवं लक्षणाय इन्द्राय हे अध्वर्यवः सोमं सोतन अभिषुणुत । षुञ्अभिषवे तप्तनप्तनथनाश्चेति तबादेशः । ब्रध्नस्य मूलस्य अभिषवार्थं चर्मणि स्थापितस्य उपराख्यस्य विस्तृतस्याश्मनः अध्युपरि अद्रयः अन्ये ग्रावाणः चतसृषु दिक्षु वर्तमानाः दाश्वध्वरं दाशोदातुर्यजमानस्य अध्वरो यागः येन निष्पद्यते तादृशं सोमं सुन्वन्तः ऋत्विङ्गिरपेक्षं स्वयमेवाभिषुण्वन्तो विचक्षते विशेषेण प्रकाशन्ते सोमाभिषवे अतिशयेनानुकूलावर्तन्तइत्यर्थः । अथवा उक्तलक्षणा येऽद्रयस्तैरद्रिभिः हे अध्वर्यवः सोममभीषुण्वतेति योज्यम् ॥ १३ ॥

8.4.14
उप᳚ ब्र॒ध्नं वा॒वाता॒ वृष᳚णा॒ हरी॒ इन्द्र᳚म॒पसु᳚ वक्षतः ।
अ॒र्वाञ्चं᳚ त्वा॒ सप्त᳚यो॑ध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । ब्र॒ध्नम् । व॒वाता᳚ । वृष᳚णा । हरी॒ इति᳚ । इन्द्र᳚म् । अ॒प॑सु᳚ । व॒क्ष॒तः॒ ।
अ॒र्वाञ्च᳚म् । त्वा॒ । सप्त᳚यः । अ॒ध्व॒र॒॑श्रियः᳚ । वह᳚न्तु । सव᳚ना । इत् । उप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रध्नमन्तरिक्षं वावाता संभक्तवन्तौ वनतेर्निष्ठायां छान्दसं द्विर्वचनं इडभावः आत्वं धातुस्वरश्च अन्येषामपिदृश्यतइति सांहितिकोभ्या- सदीर्घः । यद्वा वावाता पुनःपुनर्गच्छन्तौ वा गतिगगन्धनयोः अस्माद्यङ्लुगन्तात्कर्तरिनिष्ठा । वृषण वृंषणौ सेक्तारौ हरी हरणशीलावश्वौ उक्तगुणौ सन्तौ अपसु अस्मदीयेषु कर्मसु अपसशब्दः सकारान्तः कर्मवचनः पीवोपवत्तनानां छन्दसि लोपोवक्तव्यइती- हसकारोलुप्यते । तत्रेममिन्द्रं उपवक्षतः उपवहतां उपानयताम् वहतेर्लेट्यडागमः सिब्बहुलमिति सिप् । अपिच अध्वरश्रियोध्वरं सेवमानाः सप्तयः सर्पणशीलाः अन्येपि त्वदीयाअश्वाः सवना सवनानि प्रातःसवनादीन्यस्मद्यागसम्बन्धीनि प्रति हे इन्द्र त्वां अर्वाञ्चं अभिमुखं उपवहन्तु उपगमयन्तु इदिति पूरकः ॥ १४ ॥

8.4.15
प्र पू॒षणं᳚ वृणीमहे॒ युज्या᳚य पुरू॒वसु᳚म् ।
स श᳚क्र शिक्ष पुरुहूत नो धि॒या तुजे᳚ रा॒ये वि᳚मोचन ॥
▶ पदपाठः (Word-by-word)
प्र । पू॒षण᳚म् । वृ॒णी॒म॒हे॒ । युज्या᳚य । पु॒रु॒॑वसु᳚म् ।
सः । श॒क्र॒ । शि॒क्ष॒ । पु॒रु॒॑हू॒त॒ । नः॒ । धि॒या । तुजे᳚ । रा॒ये । वि॒॑मो॒च॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमाद्यासु चतसृषु पूष्णइन्द्रस्य च लिङ्गसद्भावात् एताउभयथा व्याख्यायन्ते पुरुवसुं बहुधनं पूषणं पोषकमिन्द्रं यद्वैतत्संज्ञं देवं प्रवृणीमहे प्रकर्षेण संभजामहे । किमर्थं युज्याय युङ्क्तइति युङ् सखा तस्य भावाय सखित्वायेत्यर्थः हे शक्र शक्त पुरुहूत बहुभिराहूत हे विमोचन पापाद्विमोचयितरिन्द्र पूषन्वा सत्वं नोस्मान् धिया आत्मीयया बुध्या शिक्ष शक्तान्कर्तुमिच्छ । किमर्थं राये धनाय धनप्राप्त्यर्थं तुजे शत्रून् तोजयितुं हिंसितुम् तुज हिंसायाम् अस्मात्कृत्यार्थे केन्प्रत्ययः । यद्वा रायइति क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानात्वा- च्चतुर्थी जातावेकवचनम् रायोधनानि धिया स्तुत्या प्रीतःसन् नोस्मभ्यं शिक्ष देहि शिक्षतिर्दानकर्मा ऊडिदमिति रायोविभक्तिरुदात्ता ॥ १५ ॥

8.4.16
सं नः᳚ शिशीहि भु॒रिजो᳚रिव क्षु॒रं रास्व᳚ रा॒यो वि᳚मोचन ।
त्वे तन्न᳚ः सु॒वेद᳚मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सम् । नः॒ । शि॒शी॒हि॒ । भु॒रिजोः᳚॑इव । क्षु॒रम् । रास्व᳚ । रा॒यः । वि॒॑मो॒च॒न॒ ।
त्वे इति᳚ । तत् । नः॒ । सु॒॑वेद᳚म् । उ॒स्रिय᳚म् । वसु᳚ । यम् । त्वम् । हि॒नोषि᳚ । मर्त्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पूषन्वा नोस्मान् संशिशीहि सम्यक् निश्य तीक्ष्णबुद्धीन्कुरु । भुरिजोरिव बाहुनामैतत् नापितस्य बाह्वोरवस्थितं क्षुरमिव अपिच हे विमोचन पापाद्विमोचयितः रायो धनानि रास्व अस्मभ्यं देहि रादाने । तत्कस्य हेतोः त्वे त्वयि खलु उस्रियं उस्रागावः तत्संबद्धं तद्वसु निवासकं धनं नोस्माकं सुवेदं सुलभं नान्येषु देवेषु यं धनसमूहं मर्त्यं मनुष्यं स्तोतारं प्रति त्वं हिनोषि प्रेरयसि तद्वसु त्वयीत्यन्वयः । यतएवं तस्माद्रास्वेति योज्यम् ॥ १६ ॥

8.4.17
वेमि᳚ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत᳚व आघृणे ।
न तस्य᳚ वे॒म्यर᳚णं॒ हि तद्व᳚सो स्तु॒षे प॒ज्राय॒ साम्ने᳚ ॥
▶ पदपाठः (Word-by-word)
वेमि᳚ । त्वा॒ । पू॒ष॒न् । ऋ॒ञ्जसे᳚ । वेमि᳚ । स्तोत᳚वे । आ॒घृ॒णे॒ ।
न । तस्य᳚ । वे॒मि॒ । अर᳚णम् । हि । तत् । व॒सो॒ इति᳚ । स्तु॒षे । प॒ज्राय᳚ । साम्ने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् पोषकेन्द्र एतत्संज्ञ वा देव त्वा त्वां ऋञ्जसे प्रसाधयितुं वेमि कामये आघृणे आगतदीप्ते स्तोतवे त्वां स्तोतुं वेमि कामये यत् त्वद्भ्यतिरिक्तं देवतान्तरं तस्य स्तोत्रं न वेमि न कामये । तत्कुतइतिचेत् हि यस्मात् अरणं अरमणं असुखकरं तत् । अतस्त्वामेव स्तोतुं कामये इत्यर्थः हे वसो वासक स्तुषे स्तुवते पज्राय प्रार्जकाय स्तोत्राणां साम्ने साम स्तोत्रं सामर्थ्यादत्र तद्वान् लक्ष्यते तद्वते यद्वा पज्रइति कक्षीवतआख्या आम्नातं हि यद्वांपज्रासोअश्विना हवन्तइति । तस्मै कक्षीवते इव मह्यं सामर्थ्यादुपमार्थोलभ्यते अपेक्षितं धनं देहीति शेषः ॥ १७ ॥

8.4.18
परा॒ गावो॒ यव᳚सं॒ कच्चि᳚दाघृणे॒ नित्यं॒ रेक्णो᳚ अमर्त्य ।
अ॒स्माकं᳚ पूषन्नवि॒ता शि॒वो भ᳚व॒ मंहि᳚ष्ठो॒ वाज᳚सातये ॥
▶ पदपाठः (Word-by-word)
परा᳚ । गावः᳚ । यव᳚सम् । कत् । चि॒त् । आ॒घृ॒णे॒ । नित्य᳚म् । रेक्णः᳚ । अ॒म॒र्त्य॒ ।
अ॒स्माक᳚म् । पू॒ष॒न् । अ॒वि॒ता । शि॒वः । भ॒व॒ । मंहि᳚ष्ठः । वाज᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आघृणे आगतदीप्ते पूषन्निन्द्र वा कञ्चित् कस्मिंश्चित्काले अस्मदीयागावः यवसं तृणं भक्षितुं परागच्छन्ति हे अमर्त्य अमरण देव तदानीं रेख्णस्तद्गोरूपं धनं नित्यं अस्माकं ध्रुवमस्तु चोख्याघ्रादिभिः हिंसितं माभूत् । अपिच हे पूषन् पोषषयितः अस्माकं अविता रक्षिता भूत्वा शिवः सुखकरोभव तथा वाजसातये वाजस्यान्नस्य बलस्य वा संभजनार्थं मंहिष्ठोदातृतमो भव ॥ १८ ॥

8.4.19
स्थू॒रं राधः᳚ श॒ताश्वं᳚ कुरु॒ङ्गस्य॒ दिवि᳚ष्टिषु ।
राज्ञ᳚स्त्वे॒षस्य᳚ सु॒भग᳚स्य रा॒तिषु᳚ तु॒र्वशे᳚ष्वमन्महि ॥
▶ पदपाठः (Word-by-word)
स्थू॒रम् । राधः᳚ । श॒त॑अ᳚श्वम् । कु॒रु॒ङ्गस्य᳚ । दिवि᳚ष्टिषु ।
राज्ञः᳚ । त्वे॒षस्य᳚ । सु॒॑भग᳚स्य । रा॒तिषु᳚ । तु॒र्वशे᳚षु । अ॒म॒न्म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादिकेन तृचेन देवातिथिः कुंरुगनाम्नोराज्ञो दानं स्तौति कुरुङ्गस्य कुरून् जेतुं गच्छति कुलं गच्छतीति वा कुरुङ्ग डोन्यत्रापि दृश्यते इति गमेर्डः पृषोदरादिः एतत्संज्ञस्य त्वेषस्य दीप्तस्य सुभगस्य शोभनधनस्य एवंभूतस्य राज्ञः संबन्धिनीषु दिविष्टिषु दिवः स्वर्गस्य एषणेषु प्राप्तिहेतुभूतासु यागक्रियासु रातिषु दक्षिणारूपेषु सत्सु तुर्वशेषु मनुष्यनामैतत् निर्धारणे सप्तमी मनुष्येषु मध्ये वयं स्थूरं स्थूलं प्रभूतं शताश्वं अश्वानां शतेन युक्तं राधोधनं अमन्महि अज्ञासिष्म अलभामहीत्यर्थः ॥ १९ ॥

8.4.20
धी॒भिः सा॒तानि᳚ का॒ण्वस्य᳚ वा॒जिनः᳚ प्रि॒यमे᳚धैर॒भिद्यु᳚भिः ।
ष॒ष्टिं स॒हस्रानु॒ निर्म᳚जामजे॒ निर्यू॒थानि॒ गवा॒मृषि᳚ः ॥
▶ पदपाठः (Word-by-word)
धी॒भिः । सा॒तानि᳚ । का॒ण्वस्य᳚ । वा॒जिनः᳚ । प्रि॒य॑मे᳚धैः । अ॒भिद्यु᳚॑भिः ।
ष॒ष्टिम् । स॒हस्रा᳚ । अनु᳚ । निः॑म᳚जाम् । अ॒जे॒ । निः । यू॒थानि᳚ । गवा᳚म् । ऋषिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

काण्वस्य कण्वपुत्रस्य वाजिनो हविष्मतो मेधातिथेः संबन्धिभिः धीभिः ध्यातृभिः स्तोतृभिः सातानि संभक्तानि अभिद्युभिरभिगतदी- प्तिभिः प्रियमेधैः एतत्संज्ञैश्च ऋषिभिः सेवितानि निर्मजां निःशेषेण शुद्धानां गवां षष्टिं सहस्रा षष्टिसंख्याकानि सहस्राणि यूथानि ऋषिर्देवातिथिरहं अनु पश्चात् निरजे निःशेषेणागच्छं साकल्येन प्राप्तवानस्मि अजगतिक्षेपणयोः यथा प्रियमेधानां कण्वानां च गवां यूथानि राज्ञा दत्तानि तैः प्रतिगृहीतानि एवं तेन दत्तानि मया प्रतिगृह्यन्तइत्यर्थः ॥ २० ॥

8.4.21
वृ॒क्षाश्चि᳚न्मे अभिपि॒त्वे अ᳚रारणुः ।
गां भ᳚जन्त मे॒हनाश्वं᳚ भजन्त मे॒हना᳚ ॥
▶ पदपाठः (Word-by-word)
वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒॑पि॒त्वे । अ॒र॒र॒णुः॒ ।
गाम् । भ॒ज॒न्त॒ । मे॒हना᳚ । अश्व᳚म् । भ॒ज॒न्त॒ । मे॒हना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मया अभिपित्वे पूर्वोक्ते धनेभिप्राप्ते सति वृक्षाश्चित् वृक्षाअपि अरारणुः अशब्दयन् कथमिति तदाह इमे ऋषयः मेहना मंहनीयां प्रशस्यां गां भजन्त असेवन्त अलभन्त मेहना मंहनीयं अश्वं च भजन्त अलभन्तेति गामश्वमिति जात्यभिप्रायमेकवचनम् । यद्वा मेहनइति मे इह नेति पदत्रयात्मकमेकं पदं यदाह यास्कः –यदिन्द्रचित्रंचायनीयंमंहनीयंधनमस्तियन्मइहनास्तीतिवा त्रीणि मध्यमानि पदानि । तदैवं व्याख्येयं इमे ऋषयो गामश्वंचालभन्त इहास्मिन्राजनिप्रशस्तधनस्य तद्दानं ममनासीन्मम नासीदिति वृक्षप्रमुखाः सर्वेपि जनाः प्रोचुरित्यर्थः ॥ २१ ॥

वेदार्थस्य प्रकाशेन तमोहार्दंनिवारयन् । प्रमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके सप्तमोध्यायः समाप्तः ॥ ७ ॥