अष्टमं मण्डलम् - सूक्तम् 102

22 ऋचः

ऋषिः: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 8.102 - सम्पूर्णम्

1 / 22
ऋक्: 8.102.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (22)
8.102.1
त्वम᳚ग्ने बृ॒हद्वयो॒ दधा᳚सि देव दा॒शुषे᳚ ।
क॒विर्गृ॒हप᳚ति॒र्युवा᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । बृ॒हत् । वयः᳚ । दधा᳚सि । दे॒व॒ । दा॒शुषे᳚ ।
क॒विः । गृ॒ह॑प᳚तिः । युवा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव द्योतमानाग्ने कविः क्रान्तकर्मा गृहपतिः गृहपालको युवा नित्यतरुणस्त्वं दाशुषे हविषांप्रदात्रे यजमानाय बृहद्वयः महदन्नं दधासि प्रयच्छसीत्यर्थः ॥ १ ॥

8.102.2
स न॒ ईळा᳚नया स॒ह दे॒वा{4} अ᳚ग्ने दुव॒स्युवा᳚ ।
चि॒किद्वि᳚भान॒वा व᳚ह ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । ईळा᳚नया । स॒ह । दे॒वान् । अ॒ग्ने॒ । दु॒व॒स्युवा᳚ ।
चि॒कित् । वि॒भा॒नो॒ इति᳚ वि॑भानो । आ । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विभानो विशिष्टदीप्ते अग्ने सत्वं चिकित् ज्ञातासन् नोस्माकं दुवस्युवा परिचरणशीलया ईळानया स्तुवत्या वाचासह देवानावह ॥ २ ॥

8.102.3
त्वया᳚ ह स्विद्यु॒जा व॒यं चोदि᳚ष्ठेन यविष्ठ्य ।
अ॒भि ष्मो॒ वाज᳚सातये ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । चोदि᳚ष्ठेन । य॒वि॒ष्ठ्य॒ ।
अ॒भि । स्मः॒ । वाज᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ्य युवतमाग्ने चोदिष्ठेनातिशयेन धनानां प्रेरयित्रा त्वया युजा स्विद्ध सहायेनैव वयं भार्गवाः प्रयोगाः बार्हस्पत्याः पावकाः अग्नयोवा वाजसातये अन्नलाभायाभिष्मः शत्रूनभिभवेम ॥ ३ ॥

8.102.4
औ॒र्व॒भृ॒गु॒वच्छुचि᳚मप्नवान॒वदा हु᳚वे ।
अ॒ग्निं स᳚मु॒द्रवा᳚ससम् ॥
▶ पदपाठः (Word-by-word)
औ॒र्व॒भृ॒गु॒॑वत् । शुचि᳚म् । अ॒प्न॒वा॒न॒॑वत् । आ । हु॒वे॒ ।
अ॒ग्निम् । स॒मु॒द्र॑वा᳚ससम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रवाससं समुद्रमध्यवर्तिनं वाडवं शुचिं शुद्धमग्निं और्वभृगुवत् और्वभृगुः अप्नवानवत् यथा अप्नवानः तथा हुवे आह्वयाम्यहं ॥ ४ ॥

8.102.5
हु॒वे वात᳚स्वनं क॒विं प॒र्जन्य᳚क्रन्द्यं॒ सहः᳚ ।
अ॒ग्निं स᳚मु॒द्रवा᳚ससम् ॥
▶ पदपाठः (Word-by-word)
हु॒वे । वात᳚॑स्वनम् । क॒विम् । प॒र्जन्य᳚॑क्रन्द्यम् । सहः᳚ ।
अ॒ग्निम् । स॒मु॒द्र॑वा᳚ससम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातस्वनं वातसदृशध्वनिं कविं क्रान्तकर्माणं पर्जन्यक्रन्द्यं पर्जन्यसदृशक्रन्दनं सहः सहस्विनं वाडवमग्निं हुवे आह्वयामि । अन्यद्गतम् ॥ ५ ॥

8.102.6
आ स॒वं स᳚वि॒तुर्य᳚था॒ भग᳚स्येव भु॒जिं हु᳚वे ।
अ॒ग्निं स᳚मु॒द्रवा᳚ससम् ॥
▶ पदपाठः (Word-by-word)
आ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग᳚स्य॑इव । भु॒जिम् । हु॒वे॒ ।
अ॒ग्निम् । स॒मु॒द्र॑वा᳚ससम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्रितुः प्रेरकस्य देवस्य सवं यथा प्रसवं इव भगस्येव भुजिं भगाख्यस्य देवस्य भोगमिव च समुद्रवाससमग्निं आहुवे आह्वयामि ॥ ६ ॥

8.102.7
अ॒ग्निं वो᳚ वृ॒धन्त᳚मध्व॒राणां᳚ पुरू॒तम᳚म् ।
अच्छा॒ नप्त्रे॒ सह᳚स्वते ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । वः॒ । वृ॒धन्त᳚म् । अ॒ध्व॒राणा᳚म् । पु॒रु॒॑तम᳚म् ।
अच्छ᳚ । नप्त्रे᳚ । सह᳚स्वते ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्वराणामहिंस्यानां बलिनां नत्ने बन्धुं सहस्वते बलवन्तं विभक्तिव्यत्ययः वृधन्तं ज्वालाभिर्वर्धमानं पुरूतमं अतिशयेन बहुमग्निं ऋत्वि- जोवोयूयं अच्छ अभिगच्छत ॥ ७ ॥

8.102.8
अ॒यं यथा᳚ न आ॒भुव॒त्त्वष्टा᳚ रू॒पेव॒ तक्ष्या᳚ ।
अ॒स्य क्रत्वा॒ यश᳚स्वतः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । यथा᳚ । नः॒ । आ॒॑भुव᳚त् । त्वष्टा᳚ । रू॒पा॑इ᳚व । तक्ष्या᳚ ।
अ॒स्य । क्रत्वा᳚ । यश᳚स्वतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्नोस्मान् तक्ष्या विकर्तव्यानि रूपेव त्वष्टा रूपाणि वर्धकिरिव यथा येनप्रकारेण आभुवत् आभवति तथैवमग्निं अभिगच्छतेत्यर्थः । किंच वयं अस्याग्नेः क्रत्वा प्रज्ञानेन युक्ताः यशस्वतो यशस्वन्तो भवेमेति शेषः ॥ ८ ॥

8.102.9
अ॒यं विश्वा᳚ अ॒भि श्रियो॒॑ग्निर्दे॒वेषु᳚ पत्यते ।
आ वाजै॒रुप᳚ नो गमत् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । विश्वाः᳚ । अ॒भि । श्रियः᳚ । अ॒ग्निः । दे॒वेषु᳚ । प॒त्य॒ते॒ ।
आ । वाजैः᳚ । उप᳚ । नः॒ । ग॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनुष्याणां विश्वाः सर्वाः श्रियः संपदः देवेषु देवानां मध्ये योयमग्निरभिपत्यते अभिगच्छति सोग्निर्नोस्मानपि वाजैरन्नैरुपागमदुपागच्छतु ॥ ९ ॥

8.102.10
विश्वे᳚षामि॒ह स्तु᳚हि॒ होतॄ᳚णां य॒शस्त᳚मम् ।
अ॒ग्निं य॒ज्ञेषु᳚ पू॒र्व्यम् ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚षाम् । इ॒ह । स्तु॒हि॒ । होतॄ᳚णाम् । य॒शः॑त᳚मम् ।
अ॒ग्निम् । य॒ज्ञेषु᳚ । पू॒र्व्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वेषां सर्वेषां होतॄणांमध्ये यशस्तमं यशस्वितमं यज्ञेषु पूर्व्यं मुख्यं अग्निमिहास्मदीये यज्ञे हे स्तोतः स्तुहि ॥ १० ॥

8.102.11
शी॒रं पा᳚व॒कशो᳚चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।
दी॒दाय᳚ दीर्घ॒श्रुत्त᳚मः ॥
▶ पदपाठः (Word-by-word)
शी॒रम् । पा॒व॒क॑शो᳚चिषम् । ज्येष्ठः᳚ । यः । दमे᳚षु । आ ।
दी॒दाय᳚ । दी॒र्घ॒श्रुत्॑त᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ज्येष्ठो देवानांमुख्यो दीर्घश्रुत्तमो अतिशयेनविद्वानग्निः दमेषु यज्जिनां गृहेषु आदीदाय आदीप्यते तं शीरं अनुशायिनम् । तथाचयास्कः-अनुशायिनमितिवा शिनमितिवेति । पावकशोचिषं पावकदीप्तिं स्तुहीत्यर्थः ॥ ११ ॥

8.102.12
तमर्व᳚न्तं॒ न सा᳚न॒सिं गृ᳚णी॒हि वि᳚प्र शु॒ष्मिण᳚म् ।
मि॒त्रं न या᳚त॒यज्ज᳚नम् ॥
▶ पदपाठः (Word-by-word)
तम् । अर्व᳚न्तम् । न । सा॒न॒सिम् । गृ॒णी॒हि । वि॒प्र॒ । शु॒ष्मिण᳚म् ।
मि॒त्रम् । न । या॒त॒यत्॑ज᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विप्र मेधाविन् स्तोतः अवन्तंन अश्वमिव सानसिं संभजनीयं शुष्मिणं बलिनं मित्रं न सखायमिव यातयज्जनं हतशत्रुजननं तमग्निं गृंणीहि स्तुहि ॥ १२ ॥

8.102.13
उप᳚ त्वा जा॒मयो॒ गिरो॒ देदि᳚शतीर्हवि॒ष्कृतः᳚ ।
वा॒योरनी᳚के अस्थिरन् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । त्वा॒ । जा॒मयः᳚ । गिरः᳚ । देदि᳚शतीः । ह॒विः॒॑कृतः᳚ ।
वा॒योः । अनी᳚के । अ॒स्थि॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने हविष्कृतो यजमानार्थं गिरः स्तुतयः जामयः स्वसाइव देदिशतीः तवगुणान् दिशन्त्यः त्वा त्वामुपतिष्ठन्ते वायोरनीके समीपे त्वां समेधयन्त्यः अस्थिरन् अतिष्ठंश्च ॥ १३ ॥

8.102.14
यस्य᳚ त्रि॒धात्ववृ᳚तं ब॒र्हिस्त॒स्थावसं᳚दिनम् ।
आप᳚श्चि॒न्नि द᳚धा प॒दम् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्रि॒॑धातु᳚ । अवृ᳚तम् । ब॒र्हिः । त॒स्थौ । अस᳚म्॑दिनम् ।
आपः᳚ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्याग्नेस्त्रिधातु त्रिरवृतं अनावृतंच असंदिनं अबद्धंच प्रस्तरणकालेहि बर्हिरबद्धं भवति बर्हिस्तस्थौ आसनार्थं तिष्ठति । तस्मिन्नग्नावापश्चित् आपोपि पदं स्थानं निदध निदधति आन्तरिक्ष्यामाध्यमिके पदं निदधतीत्यर्थः ॥ १४ ॥

8.102.15
प॒दं दे॒वस्य᳚ मी॒ळ्हुषो॑ना᳚धृष्टाभिरू॒तिभि᳚ः ।
भ॒द्रा सूर्य᳚ इवोप॒दृक् ॥
▶ पदपाठः (Word-by-word)
प॒दम् । दे॒वस्य᳚ । मी॒ळ्हुषः᳚ । अना᳚धृष्टाभिः । ऊ॒ति॑भिः᳚ ।
भ॒द्रा । सूर्यः᳚॑इव । उ॒प॒॑दृक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मीह्ळुषः कामानां सेक्तुद्रेवस्य द्योतमानस्याग्नेः पदं स्थानं अनाधृष्टाभिः शत्रुभिरनाधृष्टाभिः ऊतिभीरक्षाभिः भजनीयं भवतीत्यर्थः तथैवा- स्योपद्दक् उपदृष्टिरपि सूर्यइव यथा सूर्यस्तद्वद्भद्रा मनुष्यैर्भजनीयाभवति ॥ १५ ॥

8.102.16
अग्ने᳚ घृ॒तस्य᳚ धी॒तिभि᳚स्तेपा॒नो दे᳚व शो॒चिषा᳚ ।
आ दे॒वान्व᳚क्षि॒ यक्षि᳚ च ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । घृ॒तस्य᳚ । धी॒ति॑भिः᳚ । ते॒पा॒नः । दे॒व॒ । शो॒चिषा᳚ ।
आ । दे॒वान् । व॒क्षि॒ । यक्षि᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव द्योतमानाग्ने घृतस्य दीप्तिराधनस्याज्यस्य धीतिभिः निधानैः तेपानः तपन् शोचिषा ज्वालया देवान् प्रत्यावक्षि आवह यक्षि यज च ॥ १६ ॥

8.102.17
तं त्वा᳚जनन्त मा॒तरः᳚ क॒विं दे॒वासो᳚ अङ्गिरः ।
ह॒व्य॒वाह॒मम᳚र्त्यम् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । अ॒ज॒न॒न्त॒ । मा॒तरः᳚ । क॒विम् । दे॒वासः᳚ । अ॒ङ्गि॒रः॒ ।
ह॒व्य॒॑वाह᳚म् । अम᳚र्त्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अंगिरोग्ने कविं क्रान्तकर्माणं अमर्त्यं मरणरहितं हव्यवाहं हविषां विढारं तं प्रसिद्धं त्वा त्वां देवासोदेवाः मातरइवाजनन्त जनयन्ति ॥ १७ ॥

8.102.18
प्रचे᳚तसं त्वा क॒वे॑ग्ने᳚ दू॒तं वरे᳚ण्यम् ।
ह॒व्य॒वाहं॒ नि षे᳚दिरे ॥
▶ पदपाठः (Word-by-word)
प्र॑चे᳚तसम् । त्वा॒ । क॒वे॒ । अग्ने᳚ । दू॒तम् । वरे᳚ण्यम् ।
ह॒व्य॒॑वाह᳚म् । नि । से॒दि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवे क्रान्तकर्मन्नग्ने प्रचेतसं प्रकृष्टबुद्धिं वरेण्यं वरणीयं दूतं देवानां हव्यवाहं हविषां वोढारं त्वा त्वां निषेदिरे देवानिषीदन्ति ॥ १८ ॥

8.102.19
न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि᳚ति॒र्वन᳚न्वति ।
अथै᳚ता॒दृग्भ᳚रामि ते ॥
▶ पदपाठः (Word-by-word)
न॒हि । मे॒ । अस्ति᳚ । अघ्न्या᳚ । न । स्व॑धि᳚तिः । वन᳚न्॑वति ।
अथ᳚ । ए॒ता॒दृक् । भ॒रा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मे मम भार्गवस्य प्रयोगस्य ऋषेः अध्या गौः । अध्या उस्रेति गोनामसु पाठात् । नह्यस्ति नविद्यते । यस्याः पयसाज्येनच त्वां यजेय । किंच स्वधितिः परशुः नहि वनन्वति काष्ठानि हन्ति यैःकाष्ठैः त्वां समिन्धीय । अथैतादृक् अग्निहोत्रार्थं पयसोदोग्ध्रीं गां इन्धनसाधनानि काष्ठानि चैतत्सर्वं ते तुभ्यं अहं भरामि ॥ १९ ॥

8.102.20
यद᳚ग्ने॒ कानि॒ कानि᳚ चि॒दा ते॒ दारू᳚णि द॒ध्मसि᳚ ।
ता जु᳚षस्व यविष्ठ्य ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । कानि᳚ । कानि᳚ । चि॒त् । आ । ते॒ । दारू᳚णि । द॒ध्मसि᳚ ।
ता । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वस्यामृच्युक्तार्थस्य विवरणमत्र । हे यविष्ठ्य युवतमाग्ने तुभ्यं यद्यदा कानि कानिचित् यानिकान्यपि दारूणि काष्ठानि आदध्मसि आधारयामि । तदा ता तानि अपरशुवृक्णान्यपि जुषस्व सेवस्व । तथाच यजुर्ब्राह्मणं-नहस्मवै पुराग्निरपरशुवृक्णं दहति तदस्मै प्रयोगएव ऋषिरस्वदयद्यदग्ने यानि कानिचेति समिधमादधात्यपरशुवृक्णमेवास्मै स्वदयति सर्वमस्मै स्वदतइति ॥ २० ॥

8.102.21
यदत्त्यु᳚प॒जिह्वि᳚का॒ यद्व॒म्रो अ᳚ति॒सर्प᳚ति ।
सर्वं॒ तद᳚स्तु ते घृ॒तम् ॥
▶ पदपाठः (Word-by-word)
यत् । अत्ति᳚ । उ॒प॒॑जिह्वि᳚का । यत् । व॒म्रः । अ॒ति॒॑सर्प᳚ति ।
सर्व᳚म् । तत् । अ॒स्तु॒ । ते॒ । घृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यत् काष्ठादिकं उपजिह्विका उपजिघ्रतीत्युपजिह्विका अत्ति भक्षयति यच्च काष्ठादिकं वम्रः वमत्युदकमितिवम्रः । उपजिह्विकावम्रशब्दौ यद्यपि पर्यायौ तथापि पृथगुपादानात् वम्रशब्दस्तद्विशेषे पर्यवस्यति । सोप्यतिसर्पति अतिगच्छति तत् सर्वं ते तव घृतं घृतसदृशमस्तु यथा घृतं तव प्रियकरं भवति तथा प्रियकरं भवत्वित्यर्थः ॥ २१ ॥

8.102.22
अ॒ग्निमिन्धा᳚नो॒ मन᳚सा॒ धियं᳚ सचेत॒ मर्त्य᳚ः ।
अ॒ग्निमी᳚धे वि॒वस्व᳚भिः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । इन्धा᳚नः । मन᳚सा । धिय᳚म् । स॒चे॒त॒ । मर्त्यः᳚ ।
अ॒ग्निम् । ई॒धे॒ । वि॒वस्व᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्त्योमनुष्योग्निमिन्धानः काष्ठैःप्रज्वलन् मनसैव श्रद्दधानो धियंकर्मसचेत काले भजेत । विवस्वभिः ऋत्विग्भिश्चाग्निमेव ईधे प्रज्वलति ॥ २२ ॥

अदर्शीति चतुर्दशर्चं दशमं सूक्तं काण्वस्य सोभरेरार्षम् । अत्रानुक्रम्यते-अदर्शिषळूना सोभरिर्बार्हतं पंचमीविराड्रूपा सप्तम्याद्ययुजः सतोबृहत्यः अष्टम्यादियुजः ककुब्भ्रसीयसी ककुबनुष्टुबन्त्याग्निमारुतीति । पंचमीसप्तमीनवम्येकादशीत्रयोदश्यः पंचसतोबृहत्यः अष्टमीद्वादश्यौककुभौ दशमी गायत्री चतुर्दश्यनुष्टुप् शिष्टाबृहत्यः । आग्नेयंत्वित्युक्तत्वादग्निर्देवता अन्त्यायास्त्वग्निर्मरुतश्च । प्रातरनुवाकस्याग्नेयेक्रतौ बार्हतेछन्दस्या- दितः सप्तर्चः । सूत्रितंच-अदर्शिगातुवित्तमइति सप्तेतिबार्हतम् । आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्य प्रमंहिष्ठायेति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितंच-प्रमंहिष्ठायगायतप्रसोअग्नेतवोतिभिरिति । अध्यायोपाकरणोसर्जनयोः मण्डलान्त्यहोमे आग्नेयाहीत्येषा । सूत्रितंच-माचिदाग्नयोहि- मरुत्सखा यत्तेराजन्नग्रेइति ।