अष्टमं मण्डलम् - सूक्तम् 79

9 ऋचः

ऋषिः: कृत्नुर्भार्गवः देवता: सोमः छन्दः: गायत्री

सूक्तम् 8.79 - सम्पूर्णम्

1 / 9
ऋक्: 8.79.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
8.79.1
अ॒यं कृ॒त्नुरगृ᳚भीतो विश्व॒जिदु॒द्भिदित्सोमः᳚ ।
ऋषि॒र्विप्र॒ः काव्ये᳚न ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । कृ॒त्नुः । अगृ᳚भीतः । वि॒श्व॒॑जित् । उ॒त्॑भित् । इत् । सोमः᳚ ।
ऋषिः᳚ । विप्रः᳚ । काव्ये᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः कृत्नुः कर्ता सर्वस्य अगृभीतोन्यैरगृहीतः विश्वजित् सर्वस्य जेता उद्भित् फलस्योद्भेदकः अथवा विश्वजिदुद्भिदौ सोमयागौ तयो- र्निष्पादकत्वात् तद्रूपौ ऋषिर्ज्ञानवान् विप्रः मेधावी विप्रबत्पूज्यः विशेषेण पूरकोवा एवं महानुभावः सोमः काव्येन स्तोत्रेण स्तुत्यो भवती- तिशेषः ॥ १ ॥

8.79.2
अ॒भ्यू᳚र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् ।
प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू᳚त् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति᳚ । विश्व᳚म् । यत् । तु॒रम् ।
प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमोयन्नग्रमस्ति तदभ्यूर्णोति आच्छादयति यन्नग्नमिव विफलं वर्तते तदाच्छादयति फलेन अथवा वस्त्रं जनयन्नाच्छादयति । तथा यत्तुर- मातुरं रुग्णं विश्वं तद्भिषक्तिः भिषज्यति यज्ञद्वारा स्वर्गसाधनेन औषधरूपेण च शरीरसिद्धिसाधनश्च अन्धः सन्नन्धोपि प्रख्यत् पश्यति । श्रोणः श्रोणोपि पंगुरपि निर्भूत् निर्भवति निर्गच्छति ॥ २ ॥

8.79.3
त्वं सो᳚म तनू॒कृद्भ्यो॒ द्वेषो᳚भ्यो॒॑न्यकृ᳚तेभ्यः ।
उ॒रु य॒न्तासि॒ वरू᳚थम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । त॒नू॒कृत्॑भ्यः᳚ । द्वेषः᳚॑भ्यः । अ॒न्य॑कृ᳚तेभ्यः ।
उ॒रु । य॒न्ता । अ॒सि॒ । वरू᳚थम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं तनुकृड्यः कृशीकुर्वड्यः अथवांगानां विच्छेदकेभ्योन्यकृतेभ्यो द्वेषोभ्यो शत्रुकृतेभ्योप्रियेभ्यः कृत्येभ्यइत्यर्थः वरूथं वरकं रक्षणं उरुयंतासि बहुकृद्भवसि स्तोतॄणाम् । अन्यकृतानि हि रक्षांसीति ब्राह्मणम् ॥ ३ ॥

8.79.4
त्वं चि॒त्ती तव॒ दक्षै᳚र्दि॒व आ पृ᳚थि॒व्या ऋ᳚जीषिन् ।
यावी᳚र॒घस्य᳚ चि॒द्द्वेषः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । चि॒त्ती । तव᳚ । दक्षैः᳚ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् ।
यावीः᳚ । अ॒घस्य᳚ । चि॒त् । द्वेषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋजीषिन् तृतीयसवनगतेन ऋजीषेण तद्वन् सोम त्वं तव चित्ती चित्या प्रज्ञया दक्षैः बलैश्च दिवआ दिवश्च आ इति चार्थे पृथिव्या आ पृथिव्याश्च सकाशात् अवस्यचिदस्माकमाहन्तुरपि द्वेषः शत्रोः कृत्यां यावीः पृथक्कुरु ॥ ४ ॥

8.79.5
अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो᳚ रा॒तिम् ।
व॒वृ॒ज्युस्तृष्य᳚त॒ः काम᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒र्थिनः᳚ । यन्ति᳚ । च॒ । इत् । अर्थ᳚म् । गच्छा᳚न् । इत् । द॒दुषः᳚ । रा॒तिम् ।
व॒वृ॒ज्युः । तृष्य᳚तः । काम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्थिनो धनानि कामयमाना यन्ति चेत् यन्ति च अर्थं प्रति गत्वा च ददुषो दात् रातिं दानं गच्छानित् गच्छन्तिच । गतेषु मध्ये यं हे सोम त्वम- नुगृह्णासि तस्य तृष्यतोभिक्षमाणस्य कामं ववृज्युः पुनः कामानावर्जयन्ति तावत्पर्यन्तं पूरयन्तीत्यर्थः ॥ ५ ॥

8.79.6
वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी᳚मृता॒युमी᳚रयत् ।
प्रेमायु᳚स्तारी॒दती᳚र्णम् ॥
▶ पदपाठः (Word-by-word)
वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒॑युम् । ई॒र॒य॒त् ।
प्र । ई॒म् । आयुः᳚ । ता॒री॒त् । अती᳚र्णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा पूर्व्यं पुराणं नष्टं स्वकीयं धनं विदल्लभते नष्टधनः ईं एनं ऋतायुं नष्टधनलाभर्थं यज्ञकामं उदीरयत् प्रेरयति धनं साधयतीत्यर्थः । तदा ईं अतीर्णं एनं यज्ञारंभिणं आयुः जीवनं प्रतारीत् प्रकर्षेण वर्धयेत् ॥ ६ ॥

8.79.7 समानपद
सु॒शेवो᳚ नो मृळ॒याकु॒रदृ᳚प्तक्रतुरवा॒तः ।
भवा᳚ नः सोम॒ शं हृ॒दे ॥
▶ पदपाठः (Word-by-word)
सु॒॑शेवः᳚ । नः॒ । मृ॒ळ॒याकुः᳚ । अदृ᳚प्त॑क्रतुः । अ॒वा॒तः ।
भव᳚ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपीतस्त्वं नः अस्माकं हृदे हृदये वर्तमानः शं सुखं भव । किंच नः अस्माकं सुशेवः सुसुखः गृळयाकुः सुखकर्ता अदृप्तक्रतुः असमाप्तकर्मा पुनः पुनः यागप्रवर्तकः अवातः निश्चलश्च भवेत्यन्वयः ॥ ७ ॥

8.79.8
मा नः᳚ सोम॒ सं वी᳚विजो॒ मा वि बी᳚भिषथा राजन् ।
मा नो॒ हार्दि᳚ त्वि॒षा व᳚धीः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒थाः॒ । रा॒ज॒न् ।
मा । नः॒ । हार्दि᳚ । त्वि॒षा । व॒धीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपीतस्त्वं नोस्मान्मासंवीविजश्चलितांगान्माकार्षीः । राजन् सोमास्मान् माविबीभिषथाः भीतान्माकृरु । नोस्माकं हार्दि हृदये त्विषा दीप्त्या मावधी: ॥ ८ ॥

8.79.9
अव॒ यत्स्वे स॒धस्थे᳚ दे॒वानां᳚ दुर्म॒तीरीक्षे᳚ ।
राज॒न्नप॒ द्विषः᳚ सेध॒ मीढ्वो॒ अप॒ स्रिधः᳚ सेध ॥
▶ पदपाठः (Word-by-word)
अव᳚ । यत् । स्वे । स॒ध॑स्थे᳚ । दे॒वाना᳚म् । दुः॒॑म॒तीः । ईक्षे᳚ ।
राज᳚न् । अप᳚ । द्विषः᳚ । से॒ध॒ । मीढ्वः᳚ । अप᳚ । स्रिधः᳚ । से॒ध॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वे सधस्थे स्वकीये सहस्थाने गृहे देवानां दुर्मतीः दुर्मतयो न प्रविशन्त्विति । यद्यदा अवेक्षेहं त्वं वा ईक्षसे तदा हेराजन् द्विषोस्मद्द्वेष्टृन् अपसेध । हे मीढ्वो सोमरसस्य सेक्तः स्रिधो हिंसकानपसेध भिन्धीत्यर्थः ॥ ९ ॥

नह्यन्यमिति दशर्चं दशमं सूक्तम् । अत्रेयमनुक्रमणिका –नह्यन्यंदशैकद्यूर्नौधसोगायत्रेनत्यादैवीत्रिष्टुबिति । एकद्यूर्नामनोधसः पुत्रऋषिः अन्त्या- त्रिष्टुप् साच देवदेवत्या शिष्टागायत्र्यः ऎन्द्मः । द्वितीये पय्राये मैत्रावरुणशस्त्रे आदितोष्टर्चः । सूत्रितंच-नह्यन्यं बळाकरमित्यष्टाविति । महाव्रते निष्केवल्ये गायत्रतृचाशीतौ आद्याविनियुक्ता । तथाच पंचमारण्यके शौनकः नह्यन्यंबळाकरमित्येतांमत्यवदधाति ।