अष्टमं मण्डलम् - सूक्तम् 49

10 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.49 - सम्पूर्णम्

1 / 10
ऋक्: 8.49.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.49.1
अ॒भि प्र वः᳚ सु॒राध᳚स॒मिन्द्र᳚मर्च॒ यथा᳚ वि॒दे ।
यो ज᳚रि॒तृभ्यो᳚ म॒घवा᳚ पुरू॒वसु᳚ः स॒हस्रे᳚णेव॒ शिक्ष᳚ति ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्र । वः॒ । सु॒॑राध᳚सम् । इन्द्र᳚म् । अ॒र्च॒ । यथा᳚ । वि॒दे ।
यः । ज॒रि॒तृ॑भ्यः᳚ । म॒घ॑वा᳚ । पु॒रु॒॑वसुः᳚ । स॒हस्रे᳚ण॑इव । शिक्ष᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.2 समानपद
श॒तानी᳚केव॒ प्र जि᳚गाति धृष्णु॒या हन्ति᳚ वृ॒त्राणि᳚ दा॒शुषे᳚ ।
गि॒रेरि᳚व॒ प्र रसा᳚ अस्य पिन्विरे॒ दत्रा᳚णि पुरु॒भोज᳚सः ॥
▶ पदपाठः (Word-by-word)
श॒तानी᳚का॑इव । प्र । जि॒गा॒ति॒ । धृ॒ष्णु॒॑या । हन्ति᳚ । वृ॒त्राणि᳚ । दा॒शुषे᳚ ।
गि॒रेः॑इ᳚व । प्र । रसाः᳚ । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा᳚णि । पु॒रु॒॑भोज᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.3
आ त्वा᳚ सु॒तास॒ इन्द᳚वो॒ मदा॒ य इ᳚न्द्र गिर्वणः ।
आपो॒ न व᳚ज्रि॒न्नन्वो॒क्यं१॒᳚ सरः᳚ पृ॒णन्ति᳚ शूर॒ राध᳚से ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । सु॒तासः᳚ । इन्द᳚वः । मदाः᳚ । ये । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
आपः᳚ । न । व॒ज्रि॒न् । अनु᳚ । ओ॒क्य᳚म् । सरः᳚ । पृ॒णन्ति᳚ । शू॒र॒ । राध᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.4
अ॒ने॒हसं᳚ प्र॒तर᳚णं वि॒वक्ष᳚णं॒ मध्व॒ः स्वादि᳚ष्ठमीं पिब ।
आ यथा᳚ मन्दसा॒नः कि॒रासि᳚ न॒ः प्र क्षु॒द्रेव॒ त्मना᳚ धृ॒षत् ॥
▶ पदपाठः (Word-by-word)
अ॒ने॒हस᳚म् । प्र॒॑तर᳚णम् । वि॒वक्ष᳚णम् । मध्वः᳚ । स्वादि᳚ष्ठम् । ई॒म् । पि॒ब॒ ।
आ । यथा᳚ । म॒न्द॒सा॒नः । कि॒रासि᳚ । नः॒ । प्र । क्षु॒द्रा॑इ᳚व । त्मना᳚ । धृ॒षत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.5
आ न॒ः स्तोम॒मुप᳚ द्र॒वद्धि᳚या॒नो अश्वो॒ न सोतृ᳚भिः ।
यं ते᳚ स्वधावन्त्स्व॒दय᳚न्ति धे॒नव॒ इन्द्र॒ कण्वे᳚षु रा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । स्तोम᳚म् । उप᳚ । द्र॒वत् । हि॒या॒नः । अश्वः᳚ । न । सोतृ᳚॑भिः ।
यम् । ते॒ । स्व॒धा॒॑व॒न् । स्व॒दय᳚न्ति । धे॒नवः᳚ । इन्द्र᳚ । कण्वे᳚षु । रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.6 समानपद
उ॒ग्रं न वी॒रं नम॒सोप᳚ सेदिम॒ विभू᳚ति॒मक्षि᳚तावसुम् ।
उ॒द्रीव᳚ वज्रिन्नव॒तो न सि᳚ञ्च॒ते क्षर᳚न्तीन्द्र धी॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒ग्रम् । न । वी॒रम् । नम᳚सा । उप᳚ । से॒दि॒म॒ । वि॑भू᳚तिम् । अक्षि᳚त॑वसुम् ।
उ॒द्री॑इ᳚व । व॒ज्रि॒न् । अ॒व॒तः । न । सि॒ञ्च॒ते । क्षर᳚न्ति । इ॒न्द्र॒ । धी॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.7
यद्ध᳚ नू॒नं यद्वा᳚ य॒ज्ञे यद्वा᳚ पृथि॒व्यामधि᳚ ।
अतो᳚ नो य॒ज्ञमा॒शुभि᳚र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग᳚हि ॥
▶ पदपाठः (Word-by-word)
यत् । ह॒ । नू॒नम् । यत् । वा॒ । य॒ज्ञे । यत् । वा॒ । पृ॒थि॒व्याम् । अधि᳚ ।
अतः᳚ । नः॒ । य॒ज्ञम् । आ॒शु॑भिः᳚ । म॒हे॒॑म॒ते॒ । उ॒ग्रः । उ॒ग्रेभिः᳚ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.8
अ॒जि॒रासो॒ हर᳚यो॒ ये त᳚ आ॒शवो॒ वाता᳚ इव प्रस॒क्षिणः᳚ ।
येभि॒रप᳚त्यं॒ मनु᳚षः प॒रीय᳚से॒ येभि॒र्विश्वं॒ स्व᳚र्दृ॒शे ॥
▶ पदपाठः (Word-by-word)
अ॒जि॒रासः᳚ । हर᳚यः । ये । ते॒ । आ॒शवः᳚ । वाताः᳚॑इव । प्र॒॑स॒क्षिणः᳚ ।
येभिः᳚ । अप᳚त्यम् । मनु᳚षः । प॒रि॒॑ईय᳚से । येभिः᳚ । विश्व᳚म् । स्वः᳚ । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.9
ए॒ताव᳚तस्त ईमह॒ इन्द्र᳚ सु॒म्नस्य॒ गोम᳚तः ।
यथा॒ प्रावो᳚ मघव॒न्मेध्या᳚तिथिं॒ यथा॒ नीपा᳚तिथिं॒ धने᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ताव᳚तः । ते॒ । ई॒म॒हे॒ । इन्द्र᳚ । सु॒म्नस्य᳚ । गो॑म᳚तः ।
यथा᳚ । प्र । आवः᳚ । म॒घ॒॑व॒न् । मेध्य᳚॑अतिथिम् । यथा᳚ । नीप᳚॑अतिथिम् । धने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.49.10 समानपद
यथा॒ कण्वे᳚ मघवन्त्र॒सद᳚स्यवि॒ यथा᳚ प॒क्थे दश᳚व्रजे ।
यथा॒ गोश᳚र्ये॒ अस᳚नोरृ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर᳚ण्यवत् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । कण्वे᳚ । म॒घ॒॑व॒न् । त्र॒सद᳚स्यवि । यथा᳚ । प॒क्थे । दश᳚॑व्रजे ।
यथा᳚ । गो॑श᳚र्ये । अस᳚नोः । ऋ॒जिश्व᳚नि । इन्द्र᳚ । गो॑म᳚त् । हिर᳚ण्य॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty