अष्टमं मण्डलम् - सूक्तम् 55

5 ऋचः

ऋषिः: कृशः काण्वः देवता: प्रस्कण्वस्य दानस्तुतिः (इंद्रो वा) छन्दः: गायत्री

सूक्तम् 8.55 - सम्पूर्णम्

1 / 5
ऋक्: 8.55.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
8.55.1
भूरीदिन्द्र᳚स्य वी॒र्यं१॒᳚ व्यख्य᳚म॒भ्याय᳚ति ।
राध᳚स्ते दस्यवे वृक ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । इत् । इन्द्र᳚स्य । वी॒र्य᳚म् । वि । अख्य᳚म् । अ॒भि । आ । अ॒य॒ति॒ ।
राधः᳚ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.55.2
श॒तं श्वे॒तास᳚ उ॒क्षणो᳚ दि॒वि तारो॒ न रो᳚चन्ते ।
म॒ह्ना दिवं॒ न त᳚स्तभुः ॥
▶ पदपाठः (Word-by-word)
श॒तम् । श्वे॒तासः᳚ । उ॒क्षणः᳚ । दि॒वि । तारः᳚ । न । रो॒च॒न्ते॒ ।
म॒ह्ना । दिव᳚म् । न । त॒स्त॒भुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.55.3
श॒तं वे॒णूञ्छ॒तं शुनः᳚ श॒तं चर्मा᳚णि म्ला॒तानि᳚ ।
श॒तं मे᳚ बल्बजस्तु॒का अरु᳚षीणां॒ चतु᳚ःशतम् ॥
▶ पदपाठः (Word-by-word)
श॒तम् । वे॒णून् । श॒तम् । शुनः᳚ । श॒तम् । चर्मा᳚णि । म्ला॒तानि᳚ ।
श॒तम् । मे॒ । ब॒ल्ब॒ज॒॑स्तु॒काः । अरु᳚षीणाम् । चतुः᳚॑शतम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.55.4
सु॒दे॒वाः स्थ᳚ काण्वायना॒ वयो᳚वयो विच॒रन्त᳚ः ।
अश्वा᳚सो॒ न च᳚ङ्क्रमत ॥
▶ पदपाठः (Word-by-word)
सु॒॑दे॒वाः । स्थ॒ । का॒ण्वा॒य॒नाः॒ । वयः᳚॑वयः । वि॒॑च॒रन्तः᳚ ।
अश्वा᳚सः । न । च॒ङ्क्र॒म॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.55.5
आदित्सा॒प्तस्य᳚ चर्किर॒न्नानू᳚नस्य॒ महि॒ श्रवः᳚ ।
श्यावी᳚रतिध्व॒सन्प॒थश्चक्षु᳚षा च॒न सं॒नशे᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । इत् । सा॒प्तस्य᳚ । च॒र्कि॒र॒न् । न । अनू᳚नस्य । महि᳚ । श्रवः᳚ ।
श्यावीः᳚ । अ॒ति॒॑ध्व॒सन् । प॒थः । चक्षु᳚षा । च॒न । स॒म्॑नशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty